शिवधनुर्वेदः - अथ लक्ष्यम्

शिवधनुर्वेदः


लक्ष्यं चतुर्विधं ज्ञेयं स्थिरं चैव चलं तथा
वेधयेत्रिप्रकारं तु स्थिरवेधी सु उच्यते ॥९३॥

आत्मानं सुस्थिरं कृत्वा लक्ष्यं चैव स्थिरं बुधः
वेधयेत्त्रिप्रकारं तु स्थिरवेधी स उच्यते ॥९४॥

चलं तु वेधयेद्यस्तु आत्मना स्थिरसंस्थितः
चललक्ष्यं तु तत्प्रोक्तमाचार्येण सुधीमता ॥९५॥

धन्वी तु चलते यत्र स्थिरलक्ष्ये समाहितः
चलाचलं भवेत्तत्र अप्रमेयमनिन्दितम् ॥९६॥

उभावेव चलौ यत्र लक्ष्यं चापि धनुर्धरः
तद्विज्ञेयं द्वयचलं श्रमेणैव हि साध्यते ॥९७॥

श्रमेणास्खलितं लक्ष्यं दूरं च बहुभेदनम्
श्रमेण कठिना मुष्टिः शीघ्रसंधानमाप्यते ॥९८॥

श्रमेण चित्रयोधित्वं श्रमेण प्राप्यते जयः
तस्माद्गुरुसमक्षं हि श्रमः कार्यो विजानता ॥९९ ॥   

प्रथमं वामहस्तेन यः श्रमं कुरुते नरः
तस्य चापक्रियासिद्धिरचिरादेव जायते ॥१००॥

वामहस्ते तु संसिद्धे पश्चाद्दक्षिणमारभेत्
उभाभ्यां च श्रमं कुर्यान्नाराचैश्च शरैस्तथा ॥१०१॥

वामेनैव श्रमं कुर्यात्सुसिद्धे दक्षिणे करे
विशाखेनासमेनैव तथा व्याये च कैशिके ॥१०२॥

उदिते भास्करे लक्ष्यं पश्चिमायां निवेशयेत्
अपराह्ने च कर्तव्यं लक्ष्यं पूर्वदिगाश्रितम् ॥१०३॥

उत्तरेण सदा कार्यं प्राणस्य न विरोधकम्
संग्रामेण विना कार्यं न लक्ष्यं दक्षिणामुखम् ॥१०४॥

षष्टिधन्वन्तरे लक्ष्यं ज्येष्ठलक्ष्यं प्रकीर्तितम्
चत्वारिंशन्मध्यमं च विंशतिश्च कनिष्ठकम् ॥१०५॥

शराणां कथितं ह्येतन्नाराचानामथोच्यते
चत्वारिंशच्च त्रिंशच्च षोडशैव भवेत्ततः ॥१०६॥

चतुःशतैश्च काण्डानां यो हि लक्ष्यं विसर्जयेत्
सूर्योदये चास्तमये स ज्येष्ठो धन्विनां भवेत् ॥१०७॥

त्रिशतैर्मध्यमश्चैव द्विशताभ्यां कनिष्ठकः
लक्ष्यं च पुरुषोन्मानं कुर्याच्चन्द्रकसंयुतम् ॥१०८॥

ऊर्ध्ववेदी भवेज्ज्येष्ठो नाभिवेधी च मध्यमः
यः पादवेधी लक्ष्यस्य स कनिष्ठो मतो मया ॥१०९॥

N/A

References : N/A
Last Updated : May 23, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP