शिवधनुर्वेदः - अथ फललक्षणानि

शिवधनुर्वेदः


फलं तु शुद्धलोहस्य सुधारं तीक्ष्णमक्षतम्
योजयेद्वज्रलेपेन शरे पक्षानुमानतः ॥६२॥

आरामुखं क्षुरप्रं च गोपुच्छं चार्धचन्द्रकम्
सूचिमुखं च भल्लं च वत्सदन्तं द्विभल्लकम् ॥६३॥

कर्णिकं काकतुण्डं च तथान्यान्यप्यनेकशः
फलानि देशभेदेषु भवन्ति बहुरूपतः ॥६४॥

आरामुखेन वै चर्म क्षुरप्रेण च कार्मुकम्
सुचीमुखेन कवचमर्धचन्द्रेण मस्तकम् ॥६५॥

भल्लेन द्रदयं वेध्यं द्विभल्लेन गुणः शरः
लोहं च काकतुण्डेन लक्ष्यं गोपुच्छकेन च ॥६६॥

अन्यद्गोपुच्छकं ज्ञेयं शुद्धकाष्ठविनिर्मितम्
मुखे च लोहकण्टेन वेध्यं त्र्यङ्गुलसंमितम् ॥६७॥

N/A

References : N/A
Last Updated : May 23, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP