शिवधनुर्वेदः - अथ गुणलक्षणानि

शिवधनुर्वेदः


गुणानां लक्षणं वक्ष्ये यादृशं कारयेद्गुणम्
पट्टसूत्रो गुणः कार्यः कनिष्ठामानसंमितः ॥४७॥

धनुःप्रमाणो निःसन्धिः शुद्धैस्त्रिगुणतन्तुभिः
वर्तितः स्याद्गुणः श्लक्ष्णः सर्वकर्मसहो युधि ॥४८॥

अभावे पट्टसूत्रस्य हारिणी स्नायुरिष्यते
गुणार्थमथवा ग्राह्याः स्नायवो महिषीगवाम् ॥४९॥

तत्कालहतगोकर्णचर्मणा छागलेन वा
निर्लोम्ना तन्तुरूपेण कुर्याद्धा गुणमुत्तमम् ॥५०॥

पक्ववंशत्वचा कार्यो गुणस्तु स्थावरो दृढः
पट्टसूत्रेण संनद्धः सर्वकर्मसहो युधि ॥५१॥

प्राप्ते भाद्रपदे मासि त्वगर्कस्य प्रशस्यते
तस्यास्तत्र गुणः कार्यः पवित्रः स्थावरो दृढः ॥५२॥

वृत्तार्कसूत्रतन्तूनां हस्तास्त्वष्टादश स्मृताः
सद्वृत्तं त्रिगुणं कार्यं प्रमाणोऽयं गुणे स्मृतः ॥५३॥

N/A

References : N/A
Last Updated : May 23, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP