शिवधनुर्वेदः - अथ व्यायाः

शिवधनुर्वेदः


कैशिकः केशमूले चेच्छरः शृङ्गे च सात्त्विकः
श्रवणे वत्सकर्णश्च ग्रीवायां भरतो भवेत् ॥९०॥

अंसके स्कन्धनामा च व्यायाः पञ्च प्रकीर्तिताः
कैशिकश्चित्रयुद्धेषु अधोलक्ष्येषु सात्त्विकः ॥९१॥

वत्सकर्णः स विज्ञेयो भरतो दृढभेदने
दृढभेदे च दूरे च स्कन्धनामानमुद्दिशेत् ॥९२॥

N/A

References : N/A
Last Updated : May 23, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP