शिवधनुर्वेदः - अथ स्थानमुष्टयाकर्षणलक्षणानि

शिवधनुर्वेदः


स्थानान्यष्टौ विधेयानि योजने भिन्नकर्मणाम्
मुष्टयः पञ्च समाख्याता व्यायाः पञ्च प्रकीर्तिता ॥७५॥

अग्रेता वामपादं च दक्षिणं जानु कुञ्चितम्
आलीढं तु प्रकर्तव्यं हस्तद्वयसविस्तरम् ॥७६॥

प्रत्यालीढं तु कर्तव्यं सव्यं चेवानुकुञ्चितम्
दक्षिणं च पुरस्तद्वद्दूरपाते विशिष्यते ॥७७॥

पादौ सुविस्तरौ कार्यौ समौ हस्तप्रमाणतः
विशाखस्थानकं ज्ञेयं कूटलक्ष्यस्य वेधने ॥७८॥

समपादे समौ पादौ निष्कम्पौ च सुसंगतौ
असमे च पुरो वामो हस्तमात्रे नतं वपुः ॥७९॥

आकुञ्चितोरू द्वौ यत्र जानुभ्यां धरणिं गतौ
दर्दुरक्रममित्याहुः स्थानकं दृढभेदने ॥८०॥

सव्यं जानु गतं भूमौ दक्षिणं च सकुञ्चितम्
अग्रतो यत्र वातव्यं तं विद्याद्गरुडक्रमम् ॥८१॥

पद्मासनं प्रसिद्धं तु उपविश्य यथाक्रमम्
धन्विनां तत्तु विज्ञेयं स्थानकं शुभलक्षणम् ॥८२॥

N/A

References : N/A
Last Updated : May 23, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP