संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|द्वारकाखण्डः| अध्यायः १६ द्वारकाखण्डः अध्यायः ०१ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ द्वारकाखण्डः - अध्यायः १६ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अध्यायः १६ Translation - भाषांतर सिद्धाश्रमप्रभावे गोपीगणानां राधारूपदर्शनम् श्रीनारद उवाच -सिद्धाश्रमस्य माहात्म्यं श्रुणु राजन् महामते ।यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥१॥यत्स्पर्शनाद्धरेः साक्षात् न वियोगो भवेत्क्वचित् ।तं च सिद्धाश्रमं नाम वदन्तीह पुराविदः ॥२॥दर्शनाद्यस्य सालोक्यं सामीप्यं स्पर्शनात्तथा ।सारूप्यं स्नानतो याति सायुज्यं तन्निवासतः ॥३॥तत्तीर्थस्यापि माहात्म्यं श्रुत्वा चंद्राननामुखात् ।राधा स्नातु मनश्चक्रे कृष्णविक्षेपविह्वला ॥४॥श्रीसिद्धाश्रमयात्रायां सूर्यपर्वणि माधवे ।राधा स्नातुं मनश्चक्रे उत्थाय कदलीवनात् ॥५॥गोपीनां शतयूथेन सर्वगोपगणैः सह ।शतवर्षे व्यतीते तु श्रीदाम्नः शापकारणात् ॥६॥श्रीराधा शिबिकारूढा छत्रचामरवीजिता ।आनर्तेषु महातीर्थं ययौ सिद्धाश्रमं सती ॥७॥तत्रैव भगवान् साक्षाद्यादवैः परिमंडितः ।स्त्रीणां षोडशसाहस्रैर्यात्रार्थं चाययौ नृप ॥८॥बलिष्ठा ये च गोपालाः कोटिशः शस्त्रपाणयः ।सिद्धाश्रमं ते जुगुपुः सर्वतो राधिकाज्ञया ॥९॥शतयूथास्तथा गोप्यो वेत्रहस्ता महाबलाः ।सिद्धाश्रमे च विधिवत्स्नान्तीं राधां सिषेविरे ॥१०॥द्वारकावासिनां तेषां स्थितानां स्नानमिच्छताम् ।शस्त्रवेत्रैस्ताडितानां विविशुर्भगवत्स्त्रियः ॥११॥केयं स्नातीति पप्रच्छुर्यस्या वैभवमद्धुतम् ।यद्गौरवात्त्रसन्तीह सर्वे यादवपुंगवा ॥१२॥अहो कस्य प्रिया चेयं का नाम कुत्र वासिनी ।त्वम् सर्वज्ञो हि भगवान् वद नो देवकीसुत ॥१३॥श्रीभगवानुवाच -बृषभानुसुता साक्षाद्राधेयं कीर्तिनन्दिनी ।व्रजेश्वरी मद्दयिता गोपिकाधीश्वरी वरा ॥१४॥स्नातुं सिद्धाश्रमं प्राप्ता व्रजाद्गोपीगणैः सह ।यद्गौरवात्त्रसन्त्येते तस्या वैभवमद्भुतम् ॥१५॥श्रीकृष्णस्य वचः श्रुत्वा सत्यभामाऽथ भामिनी ।शनैः प्राह सपत्नीनां रूपयौवनगर्विता ॥१६॥किं नु राधा रूपवती नाहं रूपवती किमु ।बहुभिर्याचिता पूर्वं रूपौदार्यगुणार्चिता ॥१७॥मद्रूपकारणात्सख्यः शतधन्वा मृतोऽभवत् ।अक्रूरः कृतवर्मा च पुरा तौ द्वौ पलायितौ ॥१८॥दिने दिने स्वर्णभारानष्टौ स सृजति स्वतः ।दुर्भिक्षमार्यरिष्टानि सर्वाधिव्याधयोऽशुभाः ॥१९॥न संति मायिनस्तत्र यत्रास्तेऽभ्यर्चितो मणिः ।मत्पित्रा पारिबर्हेऽपि दत्तः साक्षात्स्यमंतकः ॥२०॥तेन जातं मद्गृहेऽपि सर्वं वैभवमद्भुतम् ।प्रेम्णा परेण श्रीकृष्ण-गरुडोपरिगामिनी ॥२१॥भौमासुरमहायुद्धं दृष्टं प्राग्ज्योतिषं पुरम् ।ममापि कृपया यूयं तत्पुराच्च समागताः ॥२२॥प्राप्ताः श्रीकृष्णपत्नीत्वं सर्वा एव न संशयः ।मद्गौरवाच्च शक्राय छत्रं दत्तमनेन वै ॥२३॥कुंडले देवमात्रे च दत्ते वै मत्प्रियेच्छया ।ऐरावतभवा नागा भौमासुरसमृद्धयः ॥२४॥मदिच्छया समानीताः श्रीकृष्णेन महात्मना ।मत्कारणान्महावैरं शक्रेऽपि कृतवान् हरिः ॥२५॥मद्द्वारे वर्तते नित्यं वृक्षेंद्रः पारिजातकः ।पातिव्रत्येनैव मया श्रीकृष्णोऽयं वशीकृतः ॥२६॥सर्वोपस्करसंयुक्तो नारदाय समर्पितः ।मत्समानं न कस्यास्तु गौरवं वैभवं तथा ॥२७॥रूपौदार्यं न कस्यास्तु राधयाः किमु वर्णनम् ।यद्रूपोपरि चैद्याद्या अनेन युयुधुर्युधि ॥२८॥हे सुभ्रु रुक्मिणी सा त्वं कथं रूपवती न हि ।सा गोपकन्यका सख्यो यूयं वै राजकन्यकाः ।धन्या मान्याश्च सर्वा वै यूयं मानवतीवराः ॥२९॥एवं तु सत्यभामायां वदंत्यां मैथिलेश्वर ।भूत्वा मानवती सर्वा रुक्मिण्याद्याः स्त्रियो वराः ॥३०॥कुलकौशलशीलार्थ-रूपयौवनगर्विताः ।श्रीकृष्णं मानदं प्राहुरष्ट पट्टमहास्त्रियः ॥३१॥राज्ञ्य ऊचुः -श्रुतं तव मुखात्पूर्वं राधारूपं परं स्मृतम् ।यस्यां रक्तः सदा त्वं वै त्वयि रक्ता च या सदा ॥३२॥तां राधां द्र्ष्टुमिच्छामस्त्वत्प्रियां व्रजवासिनीम् ।त्वद्वियोगेन संखिन्नां स्नातुं चात्र समागताम् ॥३३॥श्रीनारद उवाच -तथाऽस्तु चोक्त्वा श्रीकृष्णः पट्टस्त्रीपरिवेष्टितः ।षोडशस्त्रीसहस्राढ्यो द्रष्टुं राधां जगाम ह ॥३४॥श्रीहेमशिबिरे रम्ये पताकाध्वजमंडिते ।चंद्रमंडलशोभाढ्ये वितानतनिते शुभे ॥३५॥मुक्ताजवनिका यत्र वस्त्रैरास्तरणं शुभम् ।मालतीमकरंदाढ्यं सर्वतो गंधसंकुलम् ॥३६॥तेन श्रृंगावली चक्रे कलं कोलाहलं परम् ।तत्र राधा पट्टराज्ञी श्रीकृष्णहृतमानसा ॥३७॥हंसाभैर्व्यजनैर्दिव्यैर्वीज्यमाना सखीजनैः ।छत्रदोलाधरैस्तत्र व्रजद्भिस्तामितस्ततः ॥३८॥बालार्ककुण्डलधरा विद्युद्दाममनोहरा ।कोटिचन्द्रप्रतीकाशा तन्वी कोमलविग्रहा ॥३९॥अंगुल्यग्रैः शोभनैः स्वैः पुष्पभूमिं मनोहरम् ।शनैः शनैः पादपद्मं धारयन्त्यतिकोमलम् ॥४०॥दूरात् तां राधिकां प्रेक्ष्य कृष्णपत्न्यः सहस्रशः ।जग्मुर्मूर्छां महाराज तद्रूपेणातिमोहिताः ॥४१॥तत्तेजसा हतरुचः सूर्यात्तारागणा यथा ।गतरूपाभिमानास्ता ऊचुः सर्वाः परस्परम् ॥४२॥अहो एतादृशं रूपं त्रिलोक्यां न हि चाद्भुतम् ।श्रुतं यथा तथा दृष्टमद्वितीयं मनोहरम् ॥४३॥एवं वदत्यस्तां प्राप्ताः श्रीकृष्णस्य पुरःसराः ।गोपीनां राजपुत्रीणां नेत्राणि परिरेभिरे ॥४४॥इति श्रीगर्गसंहितायां द्वारकाखंडे श्रीनारद बहुलाश्व संवादेराधारूपदर्शनं नाम षोडशोऽध्यायः ॥१६॥हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP