संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|द्वारकाखण्डः| अध्यायः ७ द्वारकाखण्डः अध्यायः ०१ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ द्वारकाखण्डः - अध्यायः ७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अध्यायः ७ Translation - भाषांतर श्रीनारद उवाच ॥रुक्मिण्याहरणं श्रुत्वा मित्राणां च पराभवम् ॥प्रतिज्ञामकरोद्रुक्मी शृण्वतां सर्वभूभुजाम् ॥१॥अहत्वा समरे कृष्णमप्रत्यूह्य च रुक्मिणीम् ॥कुंडिनं न प्रवेक्ष्यामि सत्यमेतद्ब्रवीमि वः ॥२॥इत्युक्त्वा कवचं दिव्यं घनमम्बुदनिर्मितम् ॥शिरस्त्राणां सिंधुजं च स दधार महोद्भटः ॥३॥सौवीरस्य धनुः शालि लाटजं चेषुधिद्वयम् ॥आदाय म्लेच्छदेशस्य खड्गं चर्म च कौटजम् ॥४॥येठरस्य महाशक्तिं गुर्ज्जराटभवां गदाम् ॥परिघं वंगजं धृत्वा हस्तत्राणं च कौंकणम् ॥५॥बद्धगोधांगुलित्राणः किरीटीरत्नकुण्डलः ॥रुक्मांगदस्तदा रुक्मी युद्धं कर्तुं मनो दधे ॥६॥जैत्ररथं समारुह्य चंचलाश्वनियोजितम् ॥पृष्ठतोन्वगमत्कृष्णं कर्षन्नक्षौहिणीं द्वयम् ॥७॥पुनः समागतां दृष्ट्वा सेनां रामो महाबलः ॥तया युयोध समरे यदुसेनासमन्वितः ॥८॥तिष्ठतिष्ठेति देवेशं विसृजन्परुषं वचः॥संप्राप्नोति रथं रुक्मी धनुष्टंकारयन्मुहुः ॥९॥त्वरं मुंच स्वसारं मे यदि जीवितुमिच्छसि ॥न चेत्त्वां सबलं सद्यो नयामि यमसादनम् ॥१०॥ययातिशापसंमृष्टो गोपालोच्छिष्टभुग्भवान् ॥जरासंधभयाद्भीतो यवनाग्रात्पलायितः ॥११॥इत्युक्त्वेषुधितः कृष्ण बाणं चापे निधाय सः ॥नियम्य कर्णपर्यंतं निचखान हरेर्हृदि ॥१२॥संताडितोपि भगवानन्धनुर्ज्यां तस्य नादिनीम्॥चिच्छेद सायकेनाशु गरुडः पन्नगो यथा ॥१३॥निधाय शीघ्रं कोदंडं शिंजिनीं स्वर्णभूषिताम् ॥रूक्मी तु दशभिर्बाणैः संजघान हरिं रणे ॥१४॥हरिरेकेन बाणेन शिंजिनी सहितं धनुः ॥चिच्छेद रुक्मिणः सद्यो ज्ञानेनेवागुणामयम् ॥१५॥कृष्णो मोघेन बाणेन मंध्यतस्तां द्विधाकरोत् ॥रुक्मिणं तु शतैर्बार्णैः सं तताड मृधे हरिः ॥१६॥छिन्नधन्वाथ वैदर्भो महाशक्तिं स्फुरत्प्रभाम् ॥प्राहरद्धरये शक्तिं विज्ञानाय यथा मुनिः ॥१७॥तताड गदया तां वै गदाधारी गदा- ग्रजः ॥द्विधाभूता महाशक्ति रुक्मेः सूतं जघान ह ॥१८॥कौमोदकी गदा गुर्वी पतंती वेगधारिणी ॥तद्रथं चूर्णयामास साश्वं शैलं यथा पविः ॥१९॥प्राहरद्धरये सोपि गदां स्वां भीष्मकात्मजः ॥चक्रेण चूर्णयामास भगवानपि तां पुनः ॥२०॥परिघं वंगजं नीत्वा रुक्मी रुक्मांगदो बली ॥जघान श्रीहरिं स्कंधे जगर्ज घनवन्मृधे ॥२१॥सन्ताडितोपि भगवान्मालाहतइव द्विपः ॥तेनैव परिघेणापि तं जघान रणांगणे ॥२२॥परिघाभिहतो रुक्मी किंचिद्व्याकुलमानसः ॥भर्त्सयन्माधवं ह्याजौ जग्राह खङ्गचर्मणी ॥२३॥तत्खड्गं चर्मणा छित्त्वा स्वखड्गं हरद्धरिः ॥खड्गाग्रेण शिरस्त्राणं कंचुकं चिच्छिदे महत् ॥२४॥हस्तत्राणेपि युगपदेते छिन्नीकृते मृधे ॥खङ्गमुष्टिकरं दृष्ट्वा रुक्मिणं समुपस्थितम् ॥२५॥गृहीत्वा भुजदण्डाभ्यां पातयित्वा महीतले ॥तस्योपरि हरिः स्थित्वा यथा सिंहो मृगोपरि ॥शितधारं नन्दकाख्यं खड्गं जग्राह रोषतः ॥२६॥दृष्ट्वा भ्रातृवधोद्युक्तं रुक्मिणी भयविह्वला ॥पतित्वा पादयोर्भर्तुरुवाच करुणं सती ॥२७॥श्रीरुक्मिण्युवाच ॥अनन्तदेवेश जगन्निवास योगेश्वराचिंत्य जगत्पते त्वम् ॥हंतुं न योग्यः करुणासमुद्र मद्भ्रातरं शालभुजम्महाभुजम् ॥२८॥श्रीनारद उवाच ॥परित्रासैर्विलपतीं दुःखशुष्यन्मुखीं प्रियाम् ॥रुद्धकण्ठीं सतीं वीक्ष्य न्यवर्त्तत हरिः स्वयम् ॥२९॥बद्ध्वा तं कटिबंधेन खड्गेन शितधारिणा ॥वपनं श्मश्रुकेशानां चकारार्द्धमुखे हरिः ॥३०॥अक्षौहिणीद्वयं जित्वा रामः प्राप्तः ससैनिकः ॥बद्धं विरूपिणं दीनं रुक्मिणन्तु ददर्श ह ॥३१॥विमुच्य बद्धं सदयः प्राह निभर्त्सयन्हरिम् ॥असाध्विदं त्वया कृष्ण कृतं लोकजुगुप्सितम् ॥३२॥हास्यं वैशालिभद्राणां न हि चैतादृशं भवेत् ॥यस्याः सहोदरे मुख्ये विरूपे च त्वयाकृते ॥३३॥किं वदिष्यति सापि त्वां भ्रातुर्वैरूप्यचिंतया ॥मा शोकं कुरु कल्याणि स्वस्था भव शुचिस्मिते ॥३४॥आर्यपुत्रि महाबुद्धे मा शोकं कुरु दुर्मनाः ॥सर्वकालकृतं मन्ये प्रियमप्रियमेव वा ॥३५॥वायोर्घनावलिरिव वशे स्यादखिलं जगत् ॥तं कालमीश्वरं विद्धि विष्णुं कलयतां प्रभुम् ॥३६॥अहं ममेति भावोयं जगतो बंधकारणम् ॥ताभ्यां विरहितो भावो मोक्ष एव न संशयः ॥३७॥सुखदुःखप्रदो नान्यः पुरुषस्यात्मविभ्रमः ॥मित्रो दासी न रिपवः संसारतमसा कृताः ॥३८॥एवं रामेण देवेन बोधितो भीष्मकात्मजः ॥वैमनस्यं परित्यज्य रुक्मिणी च ययौ मुदम् ॥३९॥रुक्मी तु ताभ्यामुत्सृष्टो वितथात्ममनोरथः ॥स्मरन्विरूपकरणं तपसे स मनोदधत् ॥४०॥वारितो मंत्रिमुख्यैश्च कुंडिनं न गतः पुनः ॥चक्रे भोजकटं नाम निवासाय पुरं परम् ॥४१॥रुक्मिण्या सह गोविंदः सरामो यदुभिर्वृतः ॥द्वारकां प्रययौ राजन्नादयञ्जयदुंदुभीन्॥ ॥४२॥जाते महोत्सवे पुर्य्यां रुक्मिणीं रुचिराननाम् ॥उपयेमे विधानेन मार्गशीर्षे हरिः स्वयम् ॥४३॥हरेर्विवाहे सति रुक्मिणीपतेः श्रीरुक्मिणी भूषितरुक्ममंदिरा ॥पुरंदरस्यापि यथामरावती द्वारावती पुण्यवती तथा बभौ ॥४४॥भैष्मीविवाहस्य कथां विचित्रां शृणोति यः श्रावयते च भक्त्या ॥इहैव भक्तो विभवेन युक्तः स एव मुक्तिं प्रतियाति मुक्तः ॥४५॥इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे श्रीरुक्मिणीविवाहोनाम सप्तमोध्यायः ॥७॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP