द्वारकाखण्डः - अध्यायः १०

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच ॥
इत्थं मया ते कथितं द्वारकागमनकारणम् ॥
सर्वपापहरं पुण्यं किं भूयः श्रोतुमिच्छसि ॥१॥
बहुलाश्व उवाच ॥
सर्व तीर्थमयी भूमिर्द्वारका नगरी शुभा ॥
तत्र मुख्यानि तीर्थानि वद मां मुनिसत्तम ॥२॥
श्रीनारद उवाच ॥
आप्रभासात्तीर्थमयी मर्यादीकृत्ययज्ञियाम् ॥
भूमिर्मोक्षप्रदा राजन्द्वारका योजनैः शतम् ॥३॥
द्वारकां नगरीं दृष्ट्वा नरो नारायणो भवेत् ॥
द्वारकायां मृतः कोपि गर्दभोपि चतुर्भुजः ॥४॥
पश्यञ्छृण्वन्कथां तस्या द्वारकेति वदन्क्वचित्॥
द्रष्टादद्यात्तृणं मृत्युं गतो याति परां गतिम् ॥५॥
एकदा रैवतं भक्तं प्रेमानन्दसमाकुलम् ॥
प्रेक्ष्य स्वं दर्शनं दत्त्वा हरिरश्रुमुखोभवत् ॥६॥
तन्नेत्रबिंदुसंभूता गोमती सा महानदी ॥
यस्या दर्शनमात्रेण ब्रह्महत्या प्रमुच्यते ॥७॥
 गोमतीतीरजं पुण्यं रजो यो धारयेन्नरः ॥
शतजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥८॥
स्नानकाले गोमतीति वदत्यपि नरः क्वचित् ॥
गोमत्यां स्नानजं पुण्यं लभते वै न संशयः ॥९॥
मकरस्थे रवौ माघे प्रयागे स्नानमाचरेत् ॥
शताश्वमेधजं पुण्यं संप्राप्नोति विदेहराट् ॥१०॥
तत्सहस्रगुणं पुण्यं गोमत्यां मकरे रवौ ॥
गोमत्याश्चैव माहात्म्यं वक्तुं नालं चतुर्मुखः ॥११॥
गोमत्यां चक्रतीर्थेषु पाषाणनि च याश्च ये ॥
ते सर्वे चक्रतां यांति पूजनीयाः प्रयत्नतः ॥१२॥
चक्रचिह्ने चक्रतीर्थे द्वादश्यां स्नानमाचरेत् ॥
चक्रपाणिपदं याति पापानां भाजनोपि हि ॥१३॥
कोटिजन्मकृतैः पापैः पतितो योपि पातकी ॥
चक्रतीर्थस्य सोपानमेत्य मुक्तिं समारुहेत ॥१४॥
बहुलाश्व उवाच ॥
गोमत्यां हि महानद्यां चक्रतीर्थं शुभार्थदम् ॥
कथं जातं बहुमतं तन्मे ब्रूहि महामते ॥१५॥
श्रीनारद उवाच ॥
अत्रैवोदाहरंतीममितिहासं पुरातनम् ॥
यस्य श्रवणमात्रेण पापहानिः परं भवेत् ॥१६॥
अलकेशो राजराजो निधीशो धर्मभृत्प्रभुः ॥
वैष्णवं यज्ञमारेभे कैलासोत्तरभूमिषु ॥१७॥
तस्य यज्ञे स्वयं विष्णुरागतो वै स्वधामतः ॥
ब्रह्मा शिवो जंभभेदी वरुणो यादसांपतिः ॥१८॥
वायुर्यमो रविः सोमः क्षितिः सर्वजनेश्वरी॥
गन्धर्वाप्सरसः सिद्धाः सर्वे तत्र समाययुः ॥१९॥
देवर्षयः समाजग्मुस्तथा ब्रह्मर्षयो नृप ॥
धनाध्यक्षोभवत्तस्य पुत्रस्तु नलकूबरः ॥२०॥
रक्षायां वीरभद्रोभूत्सत्सेवायां गजाननः ॥
यथा मरुद्गणाः सर्वे परिवेषणकारिणः ॥२१॥
बाहुलेयः सभापूजामकरोद्धर्मतत्परः ॥
घण्टानादः पार्श्वमौलिः कुबेरस्य तु मंत्रिणौ ॥२२॥
सर्वशास्त्रविदां श्रेष्ठौ दानाध्यक्षौ बभूवतुः ॥
एवं हि विधिवद्यज्ञो बभूव परमोत्सवः ॥२३॥
अध्वरावभृथस्नातो राजराजो महामनाः॥
परं भागं च देवेभ्यो विप्रेभ्यो दक्षिणामदात् ॥२४॥
एवं पूर्णेध्वरे मुख्ये तुष्टे देवर्षिसत्तमे ॥
आजगामाथ दुर्वासा दण्डी छत्री जटाधरः ॥२५॥
क्रोधी कृशः पादुकांघ्रिर्दीर्घश्मश्रुः कृशोदरः॥
दर्भासनसमित्पात्रमृगचर्मधरः परः ॥२६॥
तमागतं समागम्य पूजयित्वा विधानतः ॥
भयभीतः परिक्रम्य कुबेरः प्रणनाम ह ॥२७॥
अद्य मे सफलं जन्म सफलं मदिरं च मे ॥
अद्य मे सफलो यज्ञो ब्रह्मंस्त्वय्यागते सति ॥२८॥
इत्थं संतोषितस्तेन दुर्वासा भगवान्मुनिः ॥
देवमनुष्यधर्माणं प्राह प्रहसिताननः ॥२९॥
त्वं राजराजो धर्मात्मा दानी विप्रपरायणः ॥
कृतस्ते वैष्णवो यज्ञो विष्णुसंतोषकारणः ॥३०॥
न याचितो मया त्वं वै क्वापि वैश्रवण प्रभो ॥
अद्यैव याचनां कुर्वे ज्ञात्वा त्वां दानिसत्तमम् ॥३१॥
मद्याञ्चां सफलीकुर्यास्तुभ्यं दास्यामि सद्वरम् ॥
नोचेत्त्वां भस्मसात्कुर्वे शापेनातिभयेन वै ॥३२॥
वर्तंते त्वद्गृहे सर्वे त्रैलोक्यनिधयो नव ॥
तान्मे प्रयच्छ भद्रं ते तदर्थं गतवानहम् ॥३३॥
नारद उवाच ॥
एतच्छ्रुत्वा राजराजो दानशील उदारधीः ॥
ओमिति प्रतिगृह्णीष्व प्राह तं गुह्यकेश्वरः ॥३४॥
एवं निधीन्प्रदास्यंतं दानाध्यक्षो निधीश्वरम् ॥
घण्टानादः पार्श्वमौलिरूचतुर्लोभमोहितौ ॥३५॥
द्वावूचतुः ॥
एकोयं ब्राह्मणो लोभी निधिभिः किं करिष्यति ॥
लक्षं दिव्यं देहि चास्मै वृत्तिं रक्ष तथोत्तराम् ॥३६॥
नारद उवाच ॥
तद्वचः परुषं श्रुत्वा दुर्वासाः क्रोधविग्रहः ॥
भ्रूभंगकुटिलीभूते रक्तनेत्रे चकार ह ॥३७॥
स्थालीव सर्वब्रह्मांडं चचाल निमिषद्वयम् ॥
प्रणतं धनदं वीक्ष्य ताभ्यां शापं ददौ मुनिः ॥३८॥
मुनिरुवाच ॥
घण्टानाद महादुष्ट पापबुद्धेति लुब्धक ॥
ग्राहवत्त्वं धनग्राही ग्राहो भव महाखल ॥३९॥
पार्श्वमौले पापबुद्धे धनलोभमदान्वितः ॥
गजवत्प्रेरणां कुर्वंस्त्वं गजो भव दुर्मते ॥४०॥
श्रीनारद उवाच ॥
ताभ्यां शापं मुनिर्दत्त्वा निधिं नीत्वा कुबेरतः ॥
वरं ददौ पुनस्तस्मै दुवासा दुर्लभं परम् ॥४१॥
अस्माद्दानाच्च द्विगुणा भवंतु निधयो नव ॥
इत्युक्त्वा स निधिः प्रागादहो तेजीयसां बलम् ॥४२॥
इति श्रीमद्गर्गसंहितायां श्रीद्वारका खण्डे नारदबहुलाश्वसंवादे गोमत्युपाख्याने चक्रतीर्थमाहात्म्यंनाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP