संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|द्वारकाखण्डः| अध्यायः २ द्वारकाखण्डः अध्यायः ०१ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ द्वारकाखण्डः - अध्यायः २ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता अध्यायः २ Translation - भाषांतर श्रीनारद उवाच ॥पुनस्तत्र जरासंधस्तावत्यक्षौहिणीबलः ॥युयुधे यदुभिः शीघ्रं पुनः कृष्णपराजितः ॥१॥श्रीकृष्णतेजसा सर्वे यादवा वृद्धिमागताः ॥धनुर्गजादिभिः शश्वत्प्राप्तलुंठनसाहसाः ॥२॥प्राप्ते च साहसे राजन्विना युद्धं पुरैव हि ॥अर्भका जलहारिण्यश्चक्रुः शत्र्वपहारणम् ॥३॥शत्रुद्रव्यं च संहर्तुं वीक्षंतः क्रीतवाससः ॥नागरा माथुराः सर्वे परं हर्षमुपागताः ॥४ ॥एवं सप्तदशकृत्वा क्षीणसैन्यो जरासुतः ॥अष्टादशमे संग्राम आगंतुं च मनोऽकरोत् ॥५॥मया प्रणोदितः कालयवनो वै महाबलः ॥रुरोध मथुरां क्रुद्धो म्लेच्छकोटिसमावृतः ॥६॥म्लेच्छानां च बलं वीक्ष्य स्वपुरं भयविह्वलम् ॥भयं चोभयतः प्राप्तं रामेणाचिंतयद्धरिः ॥७॥स्वज्ञातिबंधुरक्षार्थं समुद्रे भीमनादिनि ॥चकार द्वारकादुर्गमेकरात्रेण माधवः ॥८॥यत्राष्टद्दिक्पालसिद्धिर्विश्वकर्मविनिर्मिता ॥सर्वा वैकुण्ठसंपत्तिर्दृश्यते मोक्षकांक्षिभिः ॥९॥हरिः सर्वजनं तत्र नीत्वा योगेन मैथिल ॥पुराद्राममनुज्ञाप्य निर्गतोभून्निरायुधः ॥१०॥निरायुधं हरिं ज्ञात्वा मयोक्तैर्लक्षणैः खलः ॥निरायुधः सतं योद्धुं पदातिः स्वयमागतः ॥११॥पराङ्मुखं प्राद्रवंतं दुरापं योगिनामपि ॥जिघृक्षुस्तं चान्वधावत्सैनिकानां प्रपश्यताम् ॥१२॥हस्तप्राप्तं वपुस्तस्मै दर्शयन्निव माधवः ॥दूरंगतः श्यामलाद्रेः प्राविशत्कंदरं त्वरम् ॥१३॥मुचुकुंदो यत्र चास्ते मांधातृतनयो महान् ॥असुरेभ्यः पुरा रक्षां देवानां यश्चकार ह ॥१४॥अहर्निशं न सुष्वाप देवसेनापरो नृप ॥तमूचुर्देवताः सर्वे प्रसन्ना राजसत्तमम् ॥१५॥वरं वरय भो राजन्यत्ते मनसि वर्त्तते॥नत्वा तान्प्राह राजेंद्रः करोमि शयनं परम् ॥१६॥शयनांते हरेः साक्षाद्दर्शनं मे भवत्वलम् ॥यो मध्ये बोधयेन्मां वै शयनस्याप्यचेतनः ॥१७॥स मया दृष्टमात्रस्तु भस्मीभवतु तत्क्षणात् ॥तथा स चोक्तः सुष्वाप राजा कृतयुगे पुरा ॥१८॥तत्र प्रविष्टो यवनो मत्त्वा पीतांबरं च्युतम् ॥तताड यवनः क्रुद्धः पादेनाशु महाखलः ॥१९॥मुचुकुंदः समुत्थाय शनैरुन्मील्य सोक्षिणी ॥आशाः प्रपश्यंस्तं पार्श्वे स्थितं कालं ददर्श ॥२०॥स तावत्तस्य रुष्टस्य दृष्टिपातेन मैथिल ॥देहजेनाग्निना दग्धो भस्मसादभवत्क्षणात् ॥२१॥भस्मीभूते च यवने परिपूर्णतमः स्वयम् ॥स्वरूपं दर्शयामास मुचुकुंदाय धीमते ॥२२॥कोटिसूर्यप्रतीकाशे ज्योतिषां मण्डले प्रभुम् ॥स्थितं स्फुरत्किरीटार्ककुंडलांगदनूपुरम् ॥२३॥श्रीवत्सांकं चतु्र्बाहुं पद्माक्षं वनमालिनम् ॥कोटिकंदर्पलावण्यं कालमेघसमप्रभम् ॥२४॥दृष्ट्वा राजा हर्षितोपि समुत्थाय कृतांजलिः ॥परिपूर्णतमं ज्ञात्वा भक्त्या तं प्रणनाम ह ॥२५॥मुचुकुन्द उवाच ॥कृष्णाय वासुदेवाय देवकीनन्दनाय च ॥नंदगोपकुमाराय गोविंदाय नमोनमः ॥२६॥नमः पंकजनाभाय नमःपंकजमालिने ॥नमः पंकजनेत्राय नमस्ते पंकजांघ्रये ॥२७॥नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने ॥प्रणतक्लेशनाशाय गोविंदाय नमोनमः ॥२८॥नमोस्त्वनंताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ॥सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥२९॥हरे मत्समः पातकी नास्ति भूमौ तथा त्वत्समोनास्ति पापापहारी ॥इति त्वं च मत्त्वा जगन्नाथ देव यथेच्छा भवेत्ते तथा मां कुरु त्वम् ॥३०॥श्रीनारदउवाच ॥एवं स्तुतो हरिः साक्षात्परमानन्दविग्रहः ॥ज्ञात्वा तं निर्गुणं भक्तं प्राह गंभीरया गिरा ॥३१॥श्रीभगवानुवाच ॥धन्यस्त्वं राजशार्दूल धन्या ते विमला मतिः ॥नैरपेक्षेण दिव्येन भक्तिभावेन पूरिता ॥३२॥अद्यैव गच्छ मद्धाम बदर्याख्यं मदाश्रमम् ॥तत्रैव तु तपस्तप्त्वा भूत्वा ब्राह्मणपुंगवः ॥३३॥प्रेमलक्षणया भक्त्या मद्धामप्रकृतेः परम् ॥प्राप्स्यसि त्वं महाराज यतो नावर्तते गतः ॥३४॥नारद उवाच ॥इत्थं स्तुत्वा हरिं नत्वा परिक्रम्य नताननः ॥निश्चक्राम गुहादुर्गाच्छ्रीकृष्णप्रेमविह्वलः ॥३५॥द्वापरे क्षुल्लका मर्त्या तालवृक्षशतोच्छ्रितम् ॥दृष्ट्वा तं दुद्रुवुर्मार्गे भयभीता इतस्ततः ॥३६॥मा भैष्टेत्यभयं यच्छञ्जगाम दिशमुत्तराम् ॥एवं दत्त्वा वरं तस्मै मुचुकुंदाय धीमते ॥३७॥भगवान्पुनराव्रज्य मथुरां म्लेच्छवेष्टिताम् ॥हत्वा म्लेच्छबलं सर्वं तद्धनान्यच्छिनद्बलात् ॥३८॥अथ राजा जरासंधो योद्धुमभ्युदितः पुनः ॥आहूयमागधान्विप्रान्मुहूर्तादेशकारिणः ॥३९॥प्राहेदं वासुदेवाख्यं जित्वा यद्यागतो ह्यहम् ॥सर्वान्संपूजयिष्यामि सदा युष्मत्पदाश्रये ॥४०॥कारागारेषु यावद्वै स्थिता भवत भो द्विजाः ॥पराजितोहं वा युष्मान्हनिष्यामि न संशयः ॥४१॥एवमुक्त्वा द्विजान्राजा जरासंधो महाबलः ॥आजगामाशु मथुरां त्रयोविंशत्यनीकपः ॥४२॥ब्रह्मवाक्यमृतकर्तुं स्वप्रतिज्ञां विहाय च ॥मनुष्यचेष्टामापन्नौ स्वपुराद्भीतभीतवत् ॥४३॥रामकृष्णौ परौ देवौ पद्भ्यां दुद्रुवतुर्द्रुतम् ॥पलायमानौ तौ वीक्ष्य मागधः प्रहसन्भृशम् ॥४४॥अन्वधावद्रथानीकैर्ब्रह्मवाक्यमनुस्मरन् ॥दक्षिणाशां गतावित्थं प्रवर्षणगिरौ हरी ॥४५॥तस्मिन्निलीनो ज्ञात्वा ता वेधोभिस्तं ददाह ह ॥भस्मीभूते वने जाते दह्यमानतटाद्गिरेः ॥४६॥दशैकयोजनो तुंगात्समुत्पत्य सुरेश्वरौ ॥अलक्ष्यमाणावरिभिर्द्वारकायां निपेततुः ॥४७॥सोपि दग्धौ च तौ मत्वा मागधेंद्रो महाबलः ॥मागधान्प्रययौ वीरो वादयञ्जयदुंदुभीन् ॥४८॥ब्राह्मणान्पूजयामास भक्त्या परमया नृप ॥यस्य विप्रः सहायोस्ति कुतस्तस्य पराजयः ॥४९॥इति श्रीमद्गर्गसंहितायां श्रीद्वारकाखण्डे नारदबहुलाश्वसंवादे द्वारकावासकथनंनाम द्वितीयोध्यायः ॥२॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP