संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|पञ्चर्चोनाम द्वितीयकाण्डः| ८६ ते ८९ पञ्चर्चोनाम द्वितीयकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ८९ द्वितीयकाण्डः - ८६ ते ८९ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ८६ ते ८९ Translation - भाषांतर ८६दिशमास्थामग्निर्मावत्वोजसे बलाय दिशां प्रियो भूयासम्।अनमित्रा मे दिशो भवन्तु घृतप्रतीकाः ॥१॥दक्षिणा दिशमास्थामिन्द्रो मावत्वोजसे बलाय दिशां प्रियो भूयासम् ।अनमित्रा मे दिशो भवन्तु घृतप्रतीकाः ॥२॥प्रतीचीं दिशमास्थां वरुणो मावत्वोजसे बलाय दिशां प्रियो भूयासम्।अनमित्रा मे दिशो भवन्तु घृतप्रतीका: ॥३॥उदीचीं दिशमास्थां सोमो मावत्वोजसे बलाय दिशां प्रियो भूयासम्।अनमित्रा मे दिशो भवन्तु घृतप्रतीकाः ॥४॥ध्रुवां दिशमास्थां विष्णुर्मावत्वोजसे बलाय दिशां प्रियो भूयासम्।अनमित्रा मे दिशो भवन्तु घृतप्रतीकाः ॥५॥ऊर्ध्वां दिशमास्थां बृहस्पतिर्मावत्वोजसे बलाय दिशां प्रियो भूयासम्।अनमित्रा मे दिशो भवन्तु घृतप्रतीकाः ॥६॥८७मनायी तन्तुं प्रथमं पश्चेदन्या अतन्वत।तन्नारीः प्र ब्रवीमि व: साध्वीर्वः सन्तूर्वरीः ॥१॥अथो होर्वरीर्यूयं प्रातर्वढेव धावत ॥२॥खल्गला इव पत्वरीरपामुग्रमिवायनम् ।पतन्तु पत्वरीरिवोर्वरीः साधुना पथा ॥३॥आपाच्यौ तोतुद्येते तोदेनाश्वतराविव ।प्र स्तौममुर्वरीणां शासयानामस्ताविषम् ॥४॥नारी पञ्चमयूखं सूत्रवत् कृणुतं वसु ।अरिष्टो अस्य वस्ता पेन्द्र वास उतौरिव ॥५॥८८शास इत्था महाङ् अस्यमित्रघातो अद्भुतः ।न यस्य हन्यते सखा न जीयते कदा चन ॥१॥वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासति ॥२॥वि न इन्द्र वि मृधो जहि नीचा यच्छ पृतन्यत: ।अधमं गमया तमो यो अस्माङ् अभिदासति ॥३॥स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी ।वृषेन्द्र: पुर एतु न: सोमपा अभयङ्कर: ॥४॥अपेन्द्र द्विषतो मनो ऽपि जिज्यासतो वधम् ।वि महच्छर्म यच्छ वरीयो यावया वधम् ॥५॥८९अयं योतितरो मणिस्तेनाति तर दु:श्यस: ।सपत्नां द्विषतो मणे प्र णुदस्व पृतन्यत: ॥१॥प्र णुदस्व प्र सहस्व सपत्नां द्विषतो मणे ।तराभिमातिं दु:श्यसां वर्चो भङ्गधि पृतन्यताम् ॥२॥वर्चो जहि मन्युं जह्याकूतिं द्विषतां मणे ।देवो योतितरो मणिस्तेनाति तर धूर्वतः ॥३॥ये धूर्वन्ति ये द्रुह्यन्ति ये द्विषन्ति पृतन्यतः ।सर्वां सपत्नांस्ते मणिर्निमन्युं द्विषतस्करत् ॥४॥अपाच्यौ तोतुद्येते तोदेनाश्वतराविव ।प्र स्तौममुर्वरीणां शसयानामस्ताविषम् ॥४॥नारी पञ्चमयूखं सूत्रवत् कृणुतं वसु ।अरिष्टो अस्य वस्ता पेन्द्र वास उतौरिव ॥५॥८९अयं योतितरो मणिस्तेनाति तर दु:श्यस: ।सपत्नां द्विषतो मणे प्र णुदस्व पृतन्यत: ॥१॥प्र णुदस्व प्र सहस्व सपत्नां द्विषतो मणे ।तराभिमातिं दु:श्यसां वचों भङ्गधि पृतन्यताम् ॥२॥वर्चो जहि मन्युं जह्याकूतिं द्विषतां मणे ।देवो योतितरो मणिस्तेनाति तर धूर्वत: ॥३॥ये धूर्वन्ति ये द्रुह्यन्ति ये द्विषन्ति पृतन्यतः ।सर्वां सपत्नांस्ते मणिर्निमन्युं द्विषतस्करत् ॥४॥वातजूते मनोजवः पुनर्वो यन्तु यातवः पुनर्जूतिः किमीदिनीः ।यस्य स्थ तमत्त यो वः प्राहैत्तमत्त स्वा मांसान्यत्त ॥५॥(इति पञ्चर्चोनाम द्वितीयकाण्डे ऽष्टादशोऽनुवाकः)इत्यथर्ववेदे पैप्पलाद संहितायां पञ्चर्चोनाम द्वितीय: काण्डः समाप्त: N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP