संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|पञ्चर्चोनाम द्वितीयकाण्डः| ३१ ते ३५ पञ्चर्चोनाम द्वितीयकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ८९ द्वितीयकाण्डः - ३१ ते ३५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ३१ ते ३५ Translation - भाषांतर ३१इमौ पादौ प्र हराम्या गृहेभ्य: स्वस्तये ।इन्द्रः पश्चादिन्द्रः पुरस्तादिन्द्रो नः पातु मध्यतः ॥१॥इन्द्रो भयं व्यस्यतु शूद्राच्च न आर्याच्च ।इन्द्रः पथिभिरद्रवदसमृद्धा अघायवः ॥२॥इन्द्रो हनिष्यतां वधं वि नः पाशाङ् इवाचृतत् ॥३॥एम पन्थामरक्षाम सुगं स्वस्तिवाहनम् ।येन विश्वाः परि द्विषो वृणक्ति विन्दते विश्वास्तमेत्यनाहतः ॥४॥परा व्रजतु कृन्तत्यवकां विक्षणन्निव ।विष्वञ्चो यन्त्वस्य पाला विष्वञ्चः परिपन्थिनःविष्वक् पुनर्भुवा मनो असमृद्धा अघायवः ॥५॥स्वस्त्यन्वचाकशं स्वस्ति प्रत्यचाकशम् ।स्वस्ति पथिषु धन्वसु स्वस्त्यप्स्वन्तः।परि व्रजं स्वस्ति स्वस्त्ययनमसिभारद्वाजं स्वस्ति पुनरायनम् ॥६॥३२य उत्तरादाजायते मधुघो मधुघादधि ।वेदाहं तस्मिन् भेषजं जिह्वा मधुमती मम ॥१॥मधुमत्ते पर्णमासा मधु शृङ्गोत पुष्पकम् ।मधुमान् पर्वतासिथ यतो जायस ओषधे ॥२॥गर्भो अस्योषधीनामपां गर्भ उतासिथ ।अथो सोमस्य भ्रातासि मधुघ प्राव मे वचः ॥३॥शुनमहं मधुघस्य पितुर्नामेव जग्रभ ।यो मा हिरण्यवर्चसं कृणवत् पूरुषप्रियम् ॥४॥प्रियं मा कृणु देवेषु प्रियं राजसु मा कृणु ।प्रियं सर्वस्य पश्यत उत शूद्र उतार्ये ॥५॥३३ऊघ्ना वन हृदा वन मुखेन जिह्वया वन !प्रपीना पयसा वन ॥१॥वाञ्छ पदो वाञ्छ त्वचं वाञ्छाक्षौ वाञ्छ सक्थ्यौ ।वत्समनु प्र ते मनो निम्नं वारिव धावतु ॥२॥ऊर्ध्वानि ते लोमानि तिष्ठन्तक्ष्यौ कामेन शुष्यताम् ।समिद्वत्सेन गौरिव मुद्रा सुरेव पृच्यताम् ॥३॥इमा गावः सबन्धवः समानं वत्समक्रत।हिङ्ङिति करिक्रतीराद्धारानिरमवश्वसा ॥४॥शृङ्गौपशा गलभूषा अघ्न्याश्चर्मवासिनी: ।गावो घृतस्य मातरस्ता वत्से वानयामसि ॥५॥३४यच्च वर्चः कन्यासु यच्च हस्तिष्वाहितम् ।हिरण्ये गोषु यद्वर्चस्तस्य भक्षीय वर्चसः ॥१॥यच्च वर्चो राजरथे यच्च राजस्वाहितम्।निष्के रुक्मे च यद्वर्चस्तस्य भक्षीय वर्चसः ॥२॥यदप्सु यद्वनस्पतौ यदग्नौ यच्च सूर्ये ।यज्ञे यद् दक्षिणायां वर्चस्तस्य भक्षीय वर्चसः ॥३॥वर्चस्वन्मे मुखमस्तु वर्चस्वदुत मे शिर: ।वर्चस्वान् विश्वतः प्रत्यङ् वर्चस्वान् वर्णो अस्तु मे ॥४॥सुभागं मे मुखमस्तु सुभागमुत मे शिरः ।सुभागो विश्वतः प्रत्यङ् सुभागो वर्णो अस्तु मे ॥५॥३५उदसौ सूर्यो अगात् सहावतुना मम ।अहं ते मधुमती मधुघान् मधुमत्तरा ॥१॥यद्गिरिषु पर्वतेषु गोष्वश्वेषु यन् मधु ।सुरायां सिच्यमानायां कीलाले अधि यन् मधुतेन मधु तन् मयि ॥२॥यथा सुरा यथा मधु यथाक्षा अधि देवने ।यथाह गव्यतो मन एवा मामभि ते मन: ॥३॥आ ते पदं पदेनादिष्या ते मनसा मन:॥प्रत्यञ्चमग्रभं त्वाश्वमिवाश्वाभिधान्या ॥४॥मह्यं त्वा द्यावापृथिवी मह्यं देवी सरस्वती ।मह्यं त्वा मध्यं भूम्या उभावन्तौ समस्यताम् ॥५॥(इति पञ्चर्चोनाम द्वितीयकाण्डे सप्तमोऽनुवाक:) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP