संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|पञ्चर्चोनाम द्वितीयकाण्डः| ४६ ते ५० पञ्चर्चोनाम द्वितीयकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ८९ द्वितीयकाण्डः - ४६ ते ५० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ४६ ते ५० Translation - भाषांतर ४६पिशाचक्षयणमसि पिशाचजम्भनमसि स्वाहा ॥१॥यातुधानक्षयणमसि यातुधानजम्भनमसि स्वाहा ॥२॥सदान्वाक्षयणमसि सदान्वाजम्भनमसि स्वाहा ॥३॥सपत्नक्षयणमसि सपत्नजम्भनमसि स्वाहा ॥४॥भ्रातृव्यक्षयणमसि भ्रातृव्यजम्भनमसि स्वाहा ॥५॥४७आ ते सौवीर्यं ददे मयि ते सौवीर्यम् ॥१॥आ ते सौवर्चो ददे मयि ते सौवर्च: ॥२॥आ ते सौतेजो ददे मयि ते सौतेज: ॥३॥आ ते सौनृम्णं ददे मयि ते सौनृम्णम् ॥४॥आ ते सौशुक्रं ददे मयि ते सौशुक्रम् ॥५॥४८अग्ने यत्ते तपस्तेन तं प्रति तप यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥अग्ने यत्ते हरस्तेन तं प्रति हर यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥अग्ने यत्ते शोचिस्तेन तं प्रति शोचय योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥अग्ने यत्ते ऽर्चिस्तेन तं प्रत्योषय यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥अग्ने यत्ते ज्योतिस्तेन तं प्रति दह यो ऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥४९प्राची दिग् गायत्रं देवता ।यद् देवेषु पितृषु मनुष्येष्वेनश्चकारायं त्वं तस्यावयजनमसि ।मुञ्चेममस्माद् यक्ष्मादस्मादामयतः स्वाहा ॥२॥प्रतीची दिग् वामदेव्यं देवता ।यद् देवेषु पितृषु मनुष्येष्वेनश्चकारायं त्वं तस्यावयजनमसि ।मुञ्चेममस्माद् यक्ष्मादस्मादामयत: स्वाहा ॥३॥उदीची दिग् यज्ञायज्ञियं देवता ।यद् देवेषु पितृषु मनुष्येष्वेनश्चकारायं त्वं तस्यावयजनमसि ।मुञ्जेममस्माद् यक्ष्मादस्मादामयतः स्वाहा ॥४॥ऊर्ध्वा दिग् बृहद् देवता ।यद् देवेषु पितृषु मनुष्येष्वेनश्चकारायं त्वं तस्यावयजनमसि ।मुञ्चेममस्माद यक्ष्मादस्मादामयत: स्वाहा ॥५॥५०अग्निं वयं त्रातारं हवामहे य इमं त्रायाता अस्माद् यक्ष्मादस्मादामयत: ।जुषाणो अग्निराज्यस्य त्राता त्रायतां स्वाहा ॥१॥मित्रावरुणौ वयं त्रातारौ हवामहे याविमं त्रायैते अस्माद् यक्ष्मादस्मादामयत: । जुषाणौ मित्रावरुणावाज्यस्य त्रातारौ त्रायेतां स्वाहा ॥२॥मरुतो वयं त्रातॄन् हवामहे य इमं त्रायान्ता अस्माद् यक्ष्मादस्मादामयत: |जुषाणा मरुत आज्यस्य त्रातारस्त्रायन्तां स्वाहा ॥३॥पितॄन् वयं त्रातॄन् हवामहे य इमं त्रायान्ता अस्माद् यक्ष्मादस्मादामयत: ।जुषाणा: पितर आाज्यस्य त्रातारस्त्रायन्तां स्वाहा ॥४॥बृहस्पतिं वयं त्रातारं हवामहे य इमं त्रायाता अस्माद् यक्ष्मादस्मादामयतः ।जुषाणो बृहस्पतिराज्यस्य त्राता त्रायतां स्वाहा ॥५॥(इति पञ्चर्चोनामद्वितीयकाण्डे दशमोऽनुवाक:) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP