संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|पञ्चर्चोनाम द्वितीयकाण्डः| ८१ ते ८५ पञ्चर्चोनाम द्वितीयकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ८९ द्वितीयकाण्डः - ८१ ते ८५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ८१ ते ८५ Translation - भाषांतर ८१इदं चक्षुर्ऋतावरी मा मा हासीत् पुरायुष: ।यद वां तमो यदृपिशमप वां तन्नि दध्मसि ॥१॥यदन्धियं यदल्गणं यो ऽर्मो अधिरोहति ।अयस्मयस्तदङ्कुशो ऽक्षोर्ममपि लुम्पतु ॥२॥यमज्याजिमजयं नृचक्षा यं वा श्येनः शकुनिर्यं सुपर्ण: ।यदाहुश्चक्षुरदितेरनन्तं सोमो नृचक्षा मयि तद् दधातु ॥३॥यथा चक्षुः सुपर्णस्य यथाश्वस्य यथा शुनः ।एवा मे अश्विना चक्षुः कृणुतं पुष्करस्रजा ॥४॥यस्या: सुपर्णः प्रपतन् चक्षुषा चक्षुराददे ।तस्या: समुद्रजे तव चक्षुषा चक्षुराददे ॥५॥८२अग्निं ते हर: सिषक्तु यातुधान स्वाहा ॥१॥वातं ते प्राण: सिषक्तुं यातुधान स्वाहा ॥२॥सूर्यं ते चक्षुः सिषक्तुं यातुधान स्वाहा ॥३॥अन्तरिक्षं ते श्रोत्रं सिषक्तुं यातुधान स्वाहा ॥४॥परमां ते परावतं मन: सिषक्तुं यातुधान स्वाहा ॥५॥८३अपस्ते रस: सिषक्तु यातुधान स्वाहा ॥१॥ओषधीस्ते लोमानि सिसञ्चन्तु यातुधान स्वाहा ॥२॥पृथिवीं ते शरीरं सिषक्तु यातुधान स्वाहा ॥३॥समुद्रं ते वाक् सिषक्तु यातुधान स्वाहा ॥४॥निर्ऋत्यास्त्वासनि जुहोमि यातुधान स्वाहा ॥५॥८४इदं ते शिरो भिनद्मि यातुधान स्वाहेदं तेमस्तिष्कं नि तृणद्मि भूम्याम् ॥१॥इदं ते हनू भिनद्मि यातुधान स्वाहेदं तेजिह्वा नि तृणद्मि भूम्याम् ॥२॥इदं ते ग्रीवा भिनद्मि यातुधान स्वाहेदं तेस्कन्धा नि तृणद्मि भूम्याम् ॥३॥इदं ते अंसौ भिनद्मि यातुधान स्वाहेदं तेबाहू नि तृणद्मि भूम्याम् ॥४॥इदं ते हृदयं भिनद्मि यातुधान स्वाहेदं तेक्लोमानं नि तृणद्मि भूम्याम् ॥५॥इदं ते पृष्ठी भिनद्मि यातुधान स्वाहेदं तेपर्शू नि तृणद्मि भूम्याम् ॥६॥इदं ते श्रोणी भिनद्मि यातुधान स्वाहेदं तेवस्त्रं नि तृणद्मि भूम्याम् ॥७॥इदं ते ऊरू भिनद्मि यातुधान स्वाहेदं तेजङ्घे नि तृणद्मि भूम्याम् ॥८॥इदं ते कुल्फौ भिनद्मि यातुधान स्वाहेदं तेपादौ नि तृणद्मि भूम्याम् ॥९॥इदं ते त्वचं भिनद्मि यातुधान स्वाहेदं तेप्राणान् नि तृणद्मि भूम्याम् ॥१०॥इदं ते परूंषि भिनद्मि यातुधान स्वाहेदं तेमज्ज्ञो नि तृणद्मि भूम्याम् ॥११॥८५नर्दमोद लवुन्तक जिष्णो हापराजितः।अमुं भ्रूणान्यर्पय स्वयं पाशं न्यायति ॥१॥असुरैतु सहक्रतुरात्मा प्राणो अथो बलम्।स नो दधातु भद्रयाग्निर्विश्वाद्वसुमान् स्वस्तये ॥२॥दक्षिणा मा दक्षिणतो दक्षिणा पातु सव्यतः ।पश्चादनु व्याधात् पातु पुरस्तात् पातु दक्षिणा ॥३॥शतमापो दिव्या मित्रस्य च दक्षिणाः ।धाता सविताद्रुद्रस्ते नो मुञ्चन्त्वंहसः ॥४॥शतं पाशा वरुणस्य ब्रह्मणस्पतेरु शतम् ।मर्तात् पाशान्नो वि ष्य शतात् पाशेभ्यो वयं त्वाम् ॥५॥(ड्रति पञ्चर्चोनाम द्वितीयकाण्डे सप्तदशोऽनुवाक:) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP