द्वितीयकाण्डः - १६ ते २०

पैप्पलादसंहिता


१६
या शत्रून् प्राशं जयात् सहमानाभिभूरसि । भिमूरसि
सामून प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥१॥
सुपर्णस्त्वा ऽन्वविन्दत् सूकरस्त्वाखनन्नसा ।
इन्द्रस्त्वा चक्रे बाह्वोरसुरेभ्य स्तरीतवे ॥२॥
पाटामिन्द्रो व्याश्नाद्धन्तवा असुरेभ्यः ।
त्वयाहं शत्रून् साक्षीयेन्द्रः शालावृकानिव ॥३॥
रुद्र जलासभेषज नीलशिखण्ड कर्मकृत् ।
प्रश्नं दुरस्यतो जहि यो अस्माङ् अभिदासति ॥४॥
तस्य प्रश्नं त्वं जहि यो न इन्द्राभिदासति ।
अधि नो ब्रूहि शक्तिभि: प्राशि मामुत्तरं कृधि ॥५॥

१७
यथेदं भूम्यामधि वातस्तृणं मथायति ।
एवा मथ्नामि ते मनो यथा मा कामिन्यसो यथा मामन्वायसि ॥१॥
एयमगन् पतिकामा जनिकामोहमागमम् ।
अश्वः कनिक्रदद्यथा भगेनाहं सहागमम् ॥२॥
सं चेन्नयाथो अश्विना कामिना सं च नेषथ: ।
सं वां मनांस्यग्मत सं चक्षूंषि समु व्रता ॥३॥
यदन्तरं तद् बाह्यं यद् बाह्यं तदन्तरम् ।
कन्यानां विश्वरूपाणां मनो गृभायौषधे ॥४॥
या सुपर्णापक्षणवानपक्षणवा !
अत्रा त आार्पितं मनः शल्य इव कुर्मलं यथा ॥५॥

१८
सिंहे व्याघ्र उत या पृदाकौ त्विषिरग्नौ ब्राह्मणे सूर्ये या ।
इन्द्रं या देवी सुभगा ववर्ध सा न ऐतु वर्चसा संविदाना ॥१॥
या हस्तिनि द्वीपिनि या हिरण्ये त्विषिरश्वेषु पुरुषेषु गोषु या ।
इन्द्र या देवी सुभगा ववर्ध सा न ऐतु वर्चसा संविदाना ॥२॥
या राजन्ये दुन्दुभावायतायां त्विषि: सेनायां स्तनयित्नौ घोषे या !
इन्द्र या देवी सुभगा ववर्ध सा न ऐतु वर्चसा संविदाना ॥३॥
रथे अक्षेष्वृषभस्य वाजे पर्जन्ये वाते वरुणस्य शुष्मे ।
इन्द्र या देवी सुभगा ववर्ध सा न ऐतु वर्चसा संविदाना ॥४॥
या रुद्रेषु या वसुष्वादित्येषु मसत्सु या ।
त्विषिर्या विश्वेषु देवेषु सा न ऐतु वर्चसा संविदाना ॥५॥

१९
यदि गाधानां यदि नाव्यानां नदीनां पारे नृपतिः सखा न: ।
विश्वे देवासो अभि रक्षतैनं यथा जीवो विदथमावदासि ॥१॥
यद्यपारे यदि वा घ पारे यदि धन्वनि नृपतिः सखा न: ।
विश्वे देवासो अभि रक्षतैनं यथा जीवो विदथमावदासि ॥२॥
यदि यत्सु यदि दृत्यां यदि समित्यां नृपतिः सखा न: ।
विश्वे देवासो अभि रक्षतैनं यथा जीवो विदथमावदासि ॥३॥
अधस्पद्यन्तामधरे भवन्तु ये नः सूरिं मघवानं पृतन्यान् ।
विश्वे देवासो अभि रक्षतैनं यथा जीवो विदथमावदासि ॥४॥
यम मृत्यो मैनं हिंसीर्यमहं हृदा मनसा जुगोप ।
यो मां पिपर्ति यमहं पिपर्मि स प्रजावान् मघवान् सूरिरस्तु ॥५॥

२०
इमां नावमा रोहताच्छिद्रां पारयिष्णवम् ।
नराशंसस्य या गृहे शतारित्रा भगस्य च ॥१॥
उप धुव गुल्गुलुना यक्ष्माः सन्त्वघ्न्याया: ।
रुद्रस्येष्वा यातुधानानथो राज्ञो भगस्य च ॥२॥
रुद्रावीशाते द्विपदां चतुष्पदां तयोर्वयमधिवाके स्याम ।
पक्वैर्वित्थैः प्रतिभूषन्त एनौ वयं देवानां सुमतौ स्याम ॥३॥
प्रतीची नाम ते माता शतवारो घ ते पिता ।
ततो ह यज्ञिषे त्वमरिष्यन्त्यरुन्धति ॥४॥
माता नामासि मातृतो अमृतस्यैव वा असि ।
अरुन्धति त्वं सर्वमभि जीवमधा इदम् ॥५॥
(इति पञ्चर्चोनामद्वितीयकाण्डे चतुर्थो अनुवाक:)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP