संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|पञ्चर्चोनाम द्वितीयकाण्डः| ११ ते १५ पञ्चर्चोनाम द्वितीयकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ८९ द्वितीयकाण्डः - ११ ते १५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता ११ ते १५ Translation - भाषांतर ११दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव । मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम् ॥१॥जङ्गिडो जम्भाद्विशराद्विष्कन्धादभिशोचनात् ।मणि: सहस्रवीर्य: परि ण: पातु विश्वतः ॥२॥अयं विष्कन्धं सहते अयं रक्षोप बाधते ।अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः ॥३॥देवैर्दत्तेन मणिना जङ्गिडेन मयोभुवा ।विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे ॥४॥शणश्च त्वा जङ्गिडश्च विष्कन्धादधि मुञ्चताम् ।अरण्यादन्य आभृतः कृष्या अन्यो रसेभ्यः ॥५॥१२एह यन्तु पशोव ये परेयुर्वायुर्येषां सहचारं जुजोष । त्वष्टा येषां रूपधेयानि वेदास्मिन्तान् गोष्ठे सविता नि यच्छात् ॥१॥इमं गोष्ठं पशवः सं सृजन्तु बृहस्पतिरा नयतु प्रजानन् ।सिनीवाली नयत्वाग्रमेषामाजग्मुषो अनुमतिर्नि यच्छात् ॥२॥सं सं स्रवन्तु पशव: समश्वा उत पूरुषाः ।सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥३॥सं सिञ्चामि गवां क्षीरं समाज्येन बलं रसम् ।सं सिक्ता अस्माकं वीरा मयि गावश्च गोपतौ ॥४॥आा हरामि गवां क्षीरमाहार्षं धान्यं रसम् ।आहार्षमस्माकं वीराना पत्नीमेदमस्तकम् ॥५॥१३सं वः सृजत्वर्यमा सं पूषा सं बृहस्पति: । समिन्द्रो यो धनञ्जय इह पुष्यत यद् वसु ॥१॥इहैव गाव एतनेही शका इव पुष्यत ।इहैवोत प्र जायध्वं मयि संज्ञानमस्तु वः ॥२॥मया गावो गोपत्या सचध्वमयं वो गोष्ठ इह पोषयाति ।रायस्पोषेण बहुला भवन्तीर्जीवा जीवन्तीरुप व: सदेम ॥३॥सं वो गोष्ठेन सुषदा सं रय्या सं सुपुष्टया ।अहर्जातस्य यन्नाम तेन वः सं सृजामसि ॥४॥संजानाना अविहृता अस्मिन् गोष्ठे करीषिणी: ।बिभ्रती: सोम्यं हविः स्वावेशास एतन ॥५॥१४उद्यन्नादित्यः क्रिमीन् हन्तु सूर्यो निम्रोचन् रश्मिभिर्हन्तु ।ये अन्त: क्रिमयो गवि ॥१॥यो विश्वरूपश्चतुरक्ष: क्रिमिः सारङ्गो अर्जुनः ।हतो हतभ्राता क्रिमिर्हतमाता हतस्वसा ॥२॥हतो राजा क्रिमीणामुतैषां स्थपतिर्हत: ।हतासो अस्य वेशसो हतास: परिवेशसः ॥३॥प्र ते शृणामि शृङ्गे याभ्यां त्वं वितुदायसि ।अथो भिनद्मि तं कुम्भं यस्मिन् ते निहितं विषम् ॥४॥अत्रिवत्त्वा क्रिमे हन्मि कण्ववज्जमदग्निवत् ।अगस्त्यस्य ब्रह्मणा सर्वे ते क्रिमयो हताः ॥५॥१५इन्द्रस्य या मही दृषत् क्रिमेर्विश्वस्य तर्हणी ।तया पिनष्मि सं क्रिमीन् दृषदा खल्वाँ इव ॥१॥दृष्टमदृष्टमतृहमथो कुरूरुमतृहम् ।अल्गण्डून् सर्वाञ्छलूलान् क्रिमीन् वचसा जम्भयामसि ॥२॥अल्गण्डून् हन्मि महता वधेन दूना अदूना अरसा अभूवन्।शिष्टानशिष्टानि तिरामि वाचा यथा क्रिमीणां नकिरुच्छिषातै ॥३॥अन्वान्त्र्यं शीर्षण्यमथो पार्ष्टेयं क्रिमिम् ।अवस्कवं व्यध्वरं क्रिमीन् वचसा जम्भयामसि ॥४॥ये क्रिमयः पर्वतेषु ये वनेषु य ओषधीषु पशुष्वप्स्वन्तः ।ये अस्माकं तन्वं स्थाम चक्रिर इन्द्रस्तान् हन्तु महता वधेन ॥५॥(इति पञ्चर्चोनामद्वितीयकाण्डे तृतीयोऽनुवाक:) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP