द्वितीयकाण्डः - ७६ ते ८०

पैप्पलादसंहिता


७६
पयो मह्यमोषधयः पयो मे वीरुधो दधन् ।
अपां पयस्वद् यत् पयस्तन् मे वर्षन्तु वृष्टयः ॥१॥
पयो मह्यं पयस्वन्तो हस्तिनो मे पयो दधन् ।
पयः पतत्रिणो मह्यमैणेया मे पयो दधन् ॥२॥
पयस्वन् मे क्षेत्रमस्तु पयस्वदुत धान्यम् ।
अहं पयस्वान् भूयासं गावो म उत पयस्वती: ॥३॥
पयो मह्यमप्सरसो गन्धर्वा मे पयो दधन् ।
पयो मे विश्वा भूतानि वातो दधातु मे पय: ॥४॥
पयो मह्यं द्यावापृथिवी अन्तरिक्षं पयो दधत् ।
पयो म इन्द्रश्चाग्निश्च धाता दधातु मे पयः ॥५॥:

७७
अहं बिभर्मि ते मनो अहं चितमहं व्रतम् ।
ममेदपि क्रतावसो मम चित्ते सचावहै ॥१॥
आमना अस इहमना अस इह ते रमतां मन: ।
मयि ते रमतां मनः ॥२॥
आञ्जनस्य मधुघस्य कुष्ठस्य नलदस्य च ।
वीरोदेकस्य मूलेन मुखे निमन्दनं कृतम् ॥३॥
मधु मे अन्तरास्ये मुखे निमन्दनं कृतम् ।
तत्रो त्वं वि वर्तस्व नराचीव वर्तसि ॥४॥
यथा नेमी रथचक्रं समन्तं परिषस्वजे ।
एवा परि ष्वजस्व मा यथासन् मयि ते मनः ॥५॥

७८
यथेदमश्विना तृणं वातो वहति भूम्याः ।
एवा वयं वहामसि यां वयं कामयामहे ॥१॥
उत् त्वा माता स्थापयतु प्र त्वा नुदतामश्विना ।
अधा शिशुरिव मातरं मावेवान्वेतु ते मनः ॥२॥
यथा क्षीरं च सर्पिश्च मनुष्याणां हृद: प्रियम् ।
एवाहमस्या नार्या हृदो भूयासमुत्तरः ॥३॥
अग्नेष्ट्वा तपस्तपतु वातस्य ध्राजिः ।
मा स्पृक्षथा निषदनाय साधव उत्तिष्ठ प्रेह्यग्निवत् ते कृणोमि ॥४॥
सूर्यस्य त्वा तपस्तपतु वातस्य ध्राजिः ।
मा स्पृक्षथा निषदनाय साधव उत्तिष्ठ प्रेहि सूर्यवत् ते कृणोमि ॥५॥

७९
हिरण्यपुष्पी सुभगा कूपश्चायं सुमङ्गलः ।
तावेनां भद्रया धत्ताममृतावमृते भगे ॥१॥
हिरण्यं पृड्वद्धरितं तत् ते अङ्गेषु रोहतु ।
तेनेमामश्विना नारी भगेनाभि षिञ्चतम् ॥२॥
यथा कूपमुदहृदस्तृष्यन्तो यन्ति कामिन: ।
एवा त्वा सर्वे देवरः पतयो यन्तु कामिनः ॥३॥
हिरण्याक्षि मधुवर्णे हिरण्यपरिचर्तने ।
अङ्को हिरण्ययस्तव तेनास्यै पतिमा वह ॥४॥
यदि वासि तिरोजनं यदि वा नद्यस्तिर: ।
इयं त्वा मह्यमोषधिरङ्केनेव न्यानयात् ॥५॥

८०
पुनः प्राणं पुनरपानमस्मै पुनर्व्यानमुत सोम धेहि।
आत्मायं चक्षुरुदते समानस्तमू नु पाहि तमू नु जीव जागृहि ॥१॥
त्वष्टा रूपेण सविता सवेनाहर्मित्रेण वरुणेन रात्री ।
इन्द्रो ज्यैष्ठयेन ब्रह्मणायं बृहस्पतिः पूषास्मै पुनरसुं दधातु ॥२॥
य आदित्या वसवो ये च रुद्रा विश्वे देवा अदितिर्या च रात्री ।
यज्ञो भगः सविता ये च देवा यमो ऽस्मै पुनरसुं दधातु ॥३॥
पुनस्ते राजा वरुणो दधातु सोमो राजा ऽसुमित् ते पुनर्दात् ।
इन्द्रो मरुद्भिरश्विना ते भिषज्यतामग्नी रुद्रो ऽसुमित्ते पुनर्दात् ॥४॥
पुनर्द्यौर्देवी पुनरन्तरिक्षमग्निर्वातः पवमानो भिषज्यतु ।
ग्राह्या: पाशान्निर्ऋत्याः पाशान्मृत्योः पाशाद् वाक् त्वा देवी पुनर्ददातु ॥५॥
(इति पञ्चर्चोनाम द्वितीयकाण्डे षोडशो अनुवाकः)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP