संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|पञ्चर्चोनाम द्वितीयकाण्डः| २१ ते २५ पञ्चर्चोनाम द्वितीयकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ८९ द्वितीयकाण्डः - २१ ते २५ पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता २१ ते २५ Translation - भाषांतर २१आ नो अग्ने सुमतिं सम्भलो गेदिमां कुमारी सह नो भगेन । जुष्टा वरेषु समनेषु वल्गुरोषं पत्या भवतु सम्भगेयम् ॥१॥इयमग्ने नारी पतिं विदेष्ट सोमो हि राजा सुभगां कृणोतु ।सुवाना पुत्रान् महिषी भवाति गत्चा पतिं सुभगा वि राजात् ॥२॥सोमजुष्टो ब्रह्मजुष्टो अर्यम्णा सम्भृतो भगः ।धातुर्देवस्य सत्येन कृणोमि पतिवेदनम् ॥३॥यथाखरो मघवंश्चारुरेष प्रियो मृगाणां सुषदा बभूव ।एवेयं जुष्टा भगस्यास्तु संप्रिया पत्याविराधयन्ती ॥४॥भगस्य नावमा रोह पूर्णामनपदस्वतीम् ।तयोपप्रयाहि तं य: पति: प्रतिकाम्य:॥५॥इदं हिरण्यं गुल्गुल्वयमौक्षो अथो भगः ।एते पतिभ्यस्त्वामदुः प्रतिकामाय वेत्तवे ॥६॥२२युनक्त सीरा वि युगा तनोत कृते क्षेत्रे वपतेह बीजम् । विराजः श्नुष्टिः सभरा असन्नो नेदीय इत् सृण्य: पक्वमा यवम् ॥१॥सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथग् धीरा देवेषु सुम्नयौ ।अनड्वाहः पुरुषा ये कृषन्ति लाङ्गलं फालं समनज्मि स्फात्या ॥२॥शुनं कीनाशो अन्येतु वाहाञ्छुनं फालो विनुदन्नेतु भूमिम् ।शुनासीरा हविषा यो ददातै सुपिण्पला ओषधयः सन्तु तस्मै ॥३॥शुनं नरो लाङ्गलेनानडुद्भिर्भगः फालै: क्षेत्रपतिर्मरुद्भि: ।पर्यन्यो बीजमिरयेदं हिनोतु शुनासीरा कृणुतं धान्येह ॥४॥इन्द्र: सीतां नि गृह्णातु तां पूषाभि रक्षतु ।सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥५॥उदस्थाद्रथजिद् गोजिदश्वजिद्धिरण्यजित् सूनृतया परीवृत: ।एकचक्रेण सविता रथेनोर्जो भागै: पृथिवी नेत्यापृणन् ॥६॥२३गवां गृहाणां रसमोषधीनामनुज्येष्ठं वर्च आयुर्विकल्प्य ।स मा हिंसी: पितरौ वर्धमानो भद्राच्छ्रेयांसमभि लोकमेहि ॥१॥यदीदं भक्तं यदि वा विभक्तं क्षेत्रं देवानां यदि वा पितॄणाम् ।यदि सूर्य उदिते यदि वा मनुष्यवच्छिवा नो अस्तु पृथिवी उत द्यौ: ॥२॥ऊर्जा वां भागो वरया पृथिव्यां देवी द्वारौ ब्रह्मणा वां धारयामि ।शिवं शग्ममवसानं नो अस्तुं रातं देवेभिः पितृभिर्मनुष्यैः ॥३॥विश्वावसोस्त्वा सदनं कुलायं गन्धर्वासो वेधसो मह्यमूचुः ।स मा हिंसीः शेवधिं यन्त एतं शतं हिमाः परि दध्मो मनुष्यम् ॥४॥रुद्रा उत्से सदमक्षीयमाणे देवा मदन्ति पितरो मनुष्याः।अयं भागो भागपतिश्च देवा उर्वीरस्तर्या: शरदस्तरेम ॥५॥२४यो अस्मिन् यक्ष्मः पुरुषे प्रविष्ट इषितं दैव्यं सह: ।अग्निष्टं घृतबोधनो अप स्कन्दयत्वधि दूरमस्मत्सो अन्येन समृच्छतां तमस्मै प्र सुवामसि ॥१॥यस्त्वा यक्ष्मो देवेषित इषितः पितृभिश्च यः ।तस्मात् त्वा विश्वे देवा मुञ्चन्तु पर्यंहस ।ते ते यक्ष्ममपि स्कन्दयन्त्वधि दूरमस्मत्सो अन्येन समृच्छतां तमस्मै प्र सुवामसि ॥२॥यत् त्वमेनो अन्यकृतं यदात्मकृतमारिथतस्मात् त्वा विश्वा भूतानि मुञ्चन्तु पर्यंहस: ।तानि ते यक्ष्ममप स्कन्दयन्त्वधि दूरमस्मत्सो अन्येन समृच्छतां तमस्मै प्र सुवामसि ॥३॥यत् त्वा स्व आदृशा यद् वा चकार निष्ट्यः ।तस्मात् त्वा पृथिवी माता मुञ्चन्तु पर्यंहसः ।सा ते यक्ष्ममप स्कन्दयन्त्वधि दूरमस्मत्सो अन्येन समृच्छतां तमस्मै प्र सुवामसि ॥४॥अपस्कन्देन हविषा यक्ष्मं ते नाशयामसि ।तदग्निराह तदु सोम आह बृहस्पति: सविता तदिन्द्रः॥ते ते यक्ष्ममपि स्कन्दयन्त्वधि दूरमस्मत्सो अन्येन समृच्छतां तमस्मै प्र सुवामसि ॥५॥२५अग्न्यग्रा इन्द्रबला आदित्या या युधो विदुः ।युधो अधि प्रतिष्ठिता होत्रा जैत्राय जुह्वति ॥१॥अभियुक्तस्य प्रघने ऽनु योद्धारमिच्छताम् ।हवींष्यग्रे युध्यतां प्रति गृह्णीत जुह्वताम ॥२॥गह्णीतजेत्रा राज्ञा वरुणेन जेत्रा रुद्रेण केशिना ।भवेन जिष्णुना जयति पर्यन्येन सहीयसा ॥३॥अस्त्रा ताम्ब्रेण बृहता अस्त्रा सर्वेण युध्यता ।गन्धर्वेण त्विषीमता रथेनासमयोधिना ॥४॥सिनीवाल्यनुमतिर्वाहाश्वा निषङ्गिणः ।जयन्तो ऽभि प्रेतामित्रान् साकमिन्द्रेण मेदिना ॥५॥(इति पञ्चर्चोनामद्वितीयकाण्डे पञ्चमो अनुवाकः) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP