संस्कृत सूची|संस्कृत साहित्य|संहिता|पैप्पलादसंहिता|पञ्चर्चोनाम द्वितीयकाण्डः| २६ ते ३० पञ्चर्चोनाम द्वितीयकाण्डः १ ते ५ ६ ते १० ११ ते १५ १६ ते २० २१ ते २५ २६ ते ३० ३१ ते ३५ ३६ ते ४० ४१ ते ४५ ४६ ते ५० ५१ ते ५५ ५६ ते ६० ६१ ते ६५ ६६ ते ७० ७१ ते ७५ ७६ ते ८० ८१ ते ८५ ८६ ते ८९ द्वितीयकाण्डः - २६ ते ३० पैप्पलादसंहिता Tags : paippalad samhitasamhitaपैप्पलाद संहितासंहिता २६ ते ३० Translation - भाषांतर २६यत् स्वप्ने निजगन्थ यद्वा शेपिषे ऽनृतम् ।अग्निष्ट्वा तस्मादेनसो ब्रह्मा मुञ्चत्वंहसः ॥१॥यदक्षेषु दुद्रोहिथ यद्वा मित्रेभ्यस्त्वम् ।सोमस्त्वा तस्मादेनसो ब्रह्मा मुञ्चत्वंहसः ॥२॥यत् कुमारः कुमारेषु यद्वा ज्यायस्तरेषु च ।नीविं यत् कृत्वा शेपिषे तत् कृण्मो अगदं शिवम् ॥३॥प्रतीचीनफलो हि त्वमपामार्ग बभूविथ ।सर्वान् मच्छपथाँ अधि वरीयो यावया त्वम् ॥४॥अपामार्ग ओषधीनां विश्वासामेक इत्पति: ।तेन ते मृज्म आस्थितमथ त्वमगदश्चर ॥५॥२७शतवारो अनीनशद् यक्ष्मान् रक्षांसि तेजसा ।आरोहन् वर्चसा सह मणिर्दुर्णामचातनः ॥१॥शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः ।मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति ॥२॥ये यक्ष्मासी अर्भका महान्तो ये च शब्दिन: ।सर्वान् दुर्णामहा मणिः शतवारो अनीनशत् ॥३॥शतं वीरानजनयच्छतं यक्ष्मानपावपत् ।दुर्णाम्न: सर्वान् हत्वा अप रक्षांसि धूनुते ॥४॥हिरण्यशृङ्ग ऋषभः शतवारो अयं मणि: ।दुर्णाम्न: सर्वांस्तृड्ढ्वा अपि रक्षांस्यक्रमीत् ॥५॥शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम् ।शतं श्वन्वतीनां शतवारेण वारये ॥६॥२८विश्धं विव्यमि पृथिवीव पुष्टमादायत् प्रति गृह्णाम्यन्नम् ।वैश्वानरस्य महतो महिम्नाग्निष्टद् विश्वादगदं कृणोतु ॥१॥यदन्नमद्मि बहुधा विरूपं हिरण्यमश्वमुत गामजामविम् ।वैश्वानरस्य महतो महिम्नाग्निष्टद् विश्वादगदं कृणोतु ॥२॥यदन्नमद्म्यनृतेन देवा दास्यन्नदास्यन्नुत वाकरिष्यन् ।वैश्वानरस्य महतो महिम्नाग्निष्टद् विश्वादगदं कृणोतु ॥३॥यन्मा हुतं यदहुतमाजगाम यस्मादन्नान्मनसोद्रारजीमि ।वैश्वानरस्थ महतो महिम्नाग्निष्टद् विश्वादगदं कृणोतु ॥४॥जमदग्निः कश्यपः स्वाद्वेतद्भरद्वाजो मध्वन्नं कृणोतु !प्रतिग्रहीत्रे गोतम वसिष्ठो विश्वामित्रो नः प्र तिरात्यायुः ॥५॥२९अग्ने यज्ञस्य चक्षो ।इदं वेदाम यथेदं भविष्यति स्वाहा ॥१॥अग्ने यज्ञस्य श्रोत्र ।इदं वेदाम यथेदं भविष्यति स्वाहा ॥२॥अग्ने यज्ञस्य प्राण ।इदं वेदाम यथेदं भविष्यति स्वाहा ॥३॥अग्ने यज्ञस्यापानइदं वेदाम यथेदं भविष्यति स्वाहा ॥४॥अग्ने यज्ञस्यात्मन्।इदं वेदाम यथेदं भविष्यति स्वाहा ॥५॥अग्ने यज्ञस्य सर्व ।इदं वेदाम यथेदं भविष्यति स्वाहा ॥६॥३०देवानां भद्रा सुमतिर्ऋजूयतां देवानां रातिरभि नो नि वर्तताम् ।देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥१॥तान् पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् ।अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥२॥इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो ये परास: परेयुः ।ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु दिक्षु ॥३॥प्रत्यञ्चो अग्ने शरवः पतन्तु कृत्याकृते रिपवे मर्त्याय ।क्रव्यादे अत्रिणे मा मीमृणः क्रविष्णुमा धेहि निर्ऋतेरुपस्थे ॥४॥ज्यायसः शंसादुत वा कनीयसः सजातिशंसादुत जामिशंसात् ।अनादिष्टमन्यकृतं यदेनस्त्वं नस्तस्माज्जातवेदो मुमुग्धि ॥५॥(इति पञ्चर्चोनाम द्वितीयकाण्डे षष्ठो ऽनुवाक:) N/A References : N/A Last Updated : May 10, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP