द्वितीयकाण्डः - १ ते ५

पैप्पलादसंहिता



अरसं प्राच्यं विषमरसं यदुदीच्यम् ।
अथेदमधराच्यं करम्भेण वि कल्पते ॥१॥
करम्भं कृत्वा तिर्यं पीवस्याकमुदारथिम् ।
क्षुधा किल त्वा दुष्टनो यक्षिवां स न रूरुप: ॥२॥
वि ते मदं मदवति शरुमिव पातयामसि ।
प्र त्वा चरुमिव येषन्तं वचसा स्थापयामसि ॥३॥
परि ग्राममिवाचितं परेि त्वा स्थापयामसि ।
तिष्ठा वृक्ष इव स्थामन्नभ्रिखाते न रूरुप: ॥४॥
पवस्तैस्त्वा पर्यक्रीणं दूर्शभिरजिनैरुत
प्रक्रीरसि त्वमोषधेभ्रिखाते न रूरुप: ॥५॥


आविद्य द्यावापृथिवी आविद्य भगमश्विना ।
आविद्य ब्रह्मणस्पतिं कृणोम्यरसं विषम् ॥१॥
अरसं हेदिदं विषं यथैनदहमाशिषम् ।
उतैनदद्यात् पुरुषो भवादिदगदः पुनः ॥२॥
मा बिभेर्न मरिष्यसि परि त्वा पामि विश्वत: ।
रसं विषस्य नाविदमुद् न: फेनमदन्निव ॥३॥
अपावोचदपवक्ता प्रथमो दैव्यो भिषक् ।
समक्षमिन्द्र गा इव या वाचो विषदूषणीः ॥४॥
यच्च पिष्टं यच्चापिष्टं यद् दिग्धं यच्च देह्यम् ।
देवाः सर्वस्य विद्वांसोरसं कृणुता विषम् ॥५॥


क्षेत्रियात्त्वा निर्ऋत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात्।
अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी अभूताम् ॥१॥
शं ते अग्नि: सहाद्भिरस्तु शं गाव: सहौषधीभिः ।
शमन्तरिक्षं सह वातमस्तु ते शं ते भवन्तु प्रदिशश्चतस्त्रः ॥२॥
या देवी: प्रदिशश्चतस्रो वातपत्नीरभि सूर्यो विचष्टे ।
तास्वेतं जरस आा दधामि प्र यक्ष्म एतु निर्ऋतिः पराचैः ॥३॥
सूर्यमृतं तमसो ग्राह्या यथा देवा मुञ्चन्तो असृजन्निरेनस: ।
एवा त्वा क्षेत्रियान्निर्ऋत्या जामिशंसाद् द्रुहो मुञ्चामि वरुणस्य पाशात् ॥४॥
अमोचि यक्ष्माद् दुरितादवद्याद् द्रुहः पाशाद् ग्राह्याश्चोदमोचि ।
जहदवर्तिमविदत् स्योनामप्यभूद्भद्रे सुकृतस्य लोके ॥५॥


नि: सालां धृष्णुं धिषणमेकावाद्यां जिघत्स्वम् ।
सर्वाश्चण्डस्य नप्त्यो नाशयाम: सदान्वा: ॥१॥
यदि वा घ क्षेत्रिया यदि वा पुरुषेषितात् !
यदि स्थ दस्युभ्यो जाता नश्यतेत: सदान्वाः ॥२॥
परि धामान्यासामाशुर्गाष्ठामिवासरम् ।
अजैषं सर्वानाजीन् वो नश्यतेतः सदान्वाः ॥३॥
निर्वो गोष्ठादजामसि निर्योनेर्निरुपानसात् ।
निर्वो मुगुन्द्या दुहितरो गृहेभ्यश्चातयामसि ॥४॥
अमुष्मिन्नधरे गृहे सर्वा: सन्त्वराय्यः ।
तत्र पाप्मा न्यच्यतु सर्वाश्च यातुधान्यः ॥५॥


द्यावापृथिवी उर्वन्तरिक्षं क्षेत्रस्य पत्न्युरुगायो अद्भुतः ।
उतान्तरिक्षमुरु वातगोपं ते घ तप्यन्तां मयि तप्यमाने ॥१॥
इदमिन्द्र शृणुहि सोमप यत् त्वा हृदा शोचता जोहवीमि ।
वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥२॥
इदं देवाः शृणुत ये च यज्ञिया स्थ भरद्वाजो मह्यमुक्थानि शंसतु।
पाशे स बद्धो दुरिते न्यच्यतां यो अस्माकं मन इदं हिनस्ति ॥३॥
अशीतिभिस्तिसृभिः सामगेभिरादित्येभिर्वसुभिरङ्गिरोभिः।
इष्टापूर्तमवतु नः पितॄणामामुं ददे हरसा दैव्येन ॥४॥
द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम् ।
अङ्गिरसः पितरः सोम्यासः पापमार्च्छत्वपकामस्य कर्ता ॥५॥
अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत् क्रियमाणम् ।
तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषमभि तं शोचतु द्यौ: ॥६॥
आ दधामि ते पदं समिद्धे जातवेदसि ।
अग्नि: शरीरं वेवेष्टु यमं गच्छतु ते असुः ॥७॥
सप्त प्राणानष्टौ मज्ज्ञस्तांस्ते वृश्चामि ब्रह्मणा ।
यमस्य गच्छ सादनमग्निदूतो अरंकृतः ॥८॥
(इति पञ्चर्चोनाम द्वितीयकाण्डे प्रथमो अनुवाक:)

N/A

References : N/A
Last Updated : May 10, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP