संस्कृत सूची|संस्कृत साहित्य|संहिता|पुरुषोत्तमसंहिता|

पुरुषोत्तमसंहिता - द्वात्रींशोधायः

पुरुषोत्तमसंहिता


नित्योत्सवविधान
ब्रह्म-
श्रवणेब्रह्मप्रश्नः
भगवन् देवदेवेश सर्वेश्वर जगन्मय
नित्योत्सवविधिः कीदृक्कदा कार्यं हि किं फलं ॥१॥
तत्सर्वं विस्तरेणैव संप्रकाशयमेप्रभो
भगवत्प्रतिवचनं
श्रीभगवान्-
उत्सवशब्दनिर्वचनं
उदित्युत्कृष्टवचनं सवोयज्ञमितिस्मृतम् ॥२॥
उत्कृष्टस्सनवोयस्मा दुत्सवः परिचक्ष्यते
नित्यं तत्क्रियमाणत्वान्नित्योत्सनमितीर्यते ॥३॥
नित्योत्सव महिमा
पावनं सर्वभूतानां तोषणं शांतिकारणम्
नित्योत्सवभेधाः
नित्योत्सवं तु त्रिविधमुत्तमादि विभेदतः ॥४॥
उत्तमं
त्रिसंध्यासुकृतं यत्त दुत्तमं समुदाहृतम्
मध्यमं
द्विकालानुष्ठितं यत्तन्मध्यमं परिकीर्तितं ॥५॥
अधमं
एककालेतु मध्याह्ने कृतं तदधमं भवेत्
बलिप्रदानावसरः
बलिदान विहीनेन नोत्सवोऽभ्युदयावहः ॥६॥
(तस्माद्बलिप्रदानंतु प्रत्यहं कारयेद्ध्विज)तस्माद्बलि प्रदानेन कारये दुत्सवं परम्
बलिद्रव्यभेदः
प्रातस्तु तंडुलै रेव बलिं दद्याद्यथा क्रमम् ॥७॥
अन्नेनैवतु मथ्याह्ने सायाह्नेकुसुमैश्सुभैः
बलिप्रदानविधिः
तदर्थं बलिपात्रंतु स्वर्णादिद्रव्य निर्मितम् ॥८॥
समादाय बलिद्रव्यैः पूरयेद्देशिकोत्तमः
देवस्याग्रेतु तत्पात्रं (चालयं संप्रवेशयेत्)विन्यस्यावाहयेच्छुचिः ॥९॥
पात्रस्थं देवमर्घ्याद्वैः पूजयित्वा यधोदितैः
पात्रस्थ दळमध्येतु विष्ण्वादीनर्चये त्क्रमात् ॥१०॥
परिचारकस्य शिरसि तत्पात्रं न्यस्यमंगळैः
भद्रंकर्णेति मंत्रेण बलिबेरं गुरुस्स्वयम् ॥११॥
शिभिकायां समारोप्यवेद घोषपुरस्सरम्
छत्रचामरभेर्यादि नृत्तवादित्रनिस्वनैः ॥१२॥
प्रदक्षिणक्रमेणैव आलयं तु परिभ्रमेत्
बलिं दत्वातोयपूर्वं तोयोत्तरमपिक्रमात् ॥१३॥
तत्पीठं तु परिक्रम्य दर्शये दष्टमं गळान्.
एवमुक्तप्रकारेण सर्वेष्वावरणेष्वपि ॥१४॥
यथाक्रमं बलिं दत्वा(विन्यस्या वाहयेद्धरिं)प्रविशेद्गर्भमंदिरम् ॥१५॥
मूलमंत्रेण दत्वार्घ्यं मूलबेरेनियोजयेत्
विष्वक्चेनस्य शिरसि बलिशेषं क्षिपेत्ततः ॥१६॥
बलिप्रदानकाले नृत्तगीतादिभेदाः
नृत्तं तु बहुधाज्ञेयं परिवारादि तोषणम्
गीतं मध्यमसंयुक्तं गरुडन्य तु शस्यते ॥१७॥
गौडरागं तधानृत्तं विष्णुक्रांतमिति स्मृतम्
नृत्तमब्जभवस्यापि स्वस्तिकाह्वय मुच्यते ॥१८॥
स्वरं गांथारमित्युक्तं मुखारी रागमेवच
इंद्रस्य सर्वतोभद्रं आग्नेः खेटकमुच्यतेः ॥१९॥
कुट्टिमं वरुणस्यापि वायोश्च पृष्ठ कुट्टिमम्.
यमस्य चक्रनृत्तंस्यात् कांतारं नैरुतेस्तथा ॥२०॥
वामजानुः कुबेरस्य ईशानस्योर्थ्वनृत्तकम्
स्वरभेदः
षड्जमस्वर मिंद्रस्य आग्नेऋषभविष्यतॆ ॥२१॥
गांधारं यमदेस नैरुतेर्मध्य मन्मृतः
पंचमं वरुणस्यापि मारुतस्य तु दैवतः ॥२२॥
कुबेरस्य निषादस्या दीशानस्य त देवतु
ताळभेदः
इंद्रस्य समताळंस्या (द्रविविक्रममग्नये)दग्नेर्बं थावताळकं ॥२३॥
यमस्य भृंगीणी ताळं नैरुतेर्मल्लताळकम्
मंगळं वरुणस्यापि वायोश्च जयताळकम् ॥२४॥
भद्रताळं कुबेरस्य (रौद्रेस्यान्नंति ताळकं) ढक्करी शूलिनोभवेत्
रागभॆदः
इंद्रस्य नादनामातु वह्नेस्तु ललितंभवेत् ॥२५॥
यमस्य मलयं रागं नैरुतेर्भैरवीस्मृता
मेघरं जी च वारुण्यां वायोश्चैव वसंतकम् ॥२६॥
कुबेरस्य तु श्रीरागं शंकरस्यतु शांकरम्
एवमुक्त प्रकारेण नृत्तगीतादिकं चरेत् ॥२७॥
[अधिकपाठाणि
अन्येषां देवतानां तुभद्रताळं प्रशस्त्यते
गांधौररागमिति च विष्णुक्रांतं च वृत्तकं
मध्यमं स्वरमित्याहु रितिशास्त्रविनिश्चयः]
बलिप्रदानफलं
एवं बलिप्रदानंतु कारयेद्देशिकोत्तमः
रक्षणार्थायग्रामस्य देवानां तोषणायच ॥२८॥
राक्षसानां विनाशाय शतॄणां हननायच
सर्वसंपत्समृद्ध्यर्थं बलिदानं समाचरेत् ॥२९॥
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तम संहितायां
नित्योत्सव विथिर्नाम द्वात्रिंशोध्यायः
श्री श्री श्री

N/A

References : N/A
Last Updated : January 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP