संस्कृत सूची|संस्कृत साहित्य|संहिता|पुरुषोत्तमसंहिता|

पुरुषोत्तमसंहिता - चतुर्दशोध्यायः

पुरुषोत्तम

वास्तु पूजावसर नीरूपणं
वास्तुयागं ततः कुर्या द्वास्तुनाधस्य प्रीतये
अनर्चते वास्तुनाधे कृतं कर्मासुरंभवेत् ॥१॥
तस्मा दारभ्य माणेषु देवयागादिकर्मसु
प्रागेव पूजये द्वास्तुं तद्विधानं ब्रवीमिते ॥२॥
वास्तु मंडल रचना
भूसूक्तेन भुवं तत्र गोवयेन्म विलेपयेत्
रक्तपीतसितै श्छूर्णैः रंगवल्लीः प्रकल्पयेत् ॥३॥
तस्मि न्नूतनवस्त्रेण मंडले तंडुलैःकृते
कर्षमात्रसुवर्णेन तदर्धार्थेन वै पुनः ॥४॥
वित्तशाठ्यं विना कुर्या द्वास्तोः प्रतिकृतिं बुधाः
ऊर्ध्वगा दशरेखास्यु स्तिर्यग्रेखास्तथादश ॥५॥
विलिखेन्मंडले तस्मिन् एकाशीतिपदं भवेत्
प्रतिमाशोधनविधिः
प्रतिमाशोधनं कुर्या त्पंचामृतरसैः वृधक् ॥६॥
तस्मीन्मध्यपदे वास्तुप्रतिमापूजनं चरेत्
वास्तोष्पतेतिमंत्रौद्वौ (यधाशक्ति जपेत्तदा) यथाशक्तिजपंचरेत् ॥७॥
आयुतं वासहस्रं वा शत मष्पोत्तरंतु वा
कुंभस्थापनं
तस्मि न्नेव पदे पंचत्वक्सल्लवसमन्वितम् ॥८॥
सूत्रेण वेष्टितं कूर्चं गंधादिभि रलंकृतम्
(वास्तुकुंभं तु संस्थाप्यः) वास्तुकुंभं समावाह्यकुंभेतुप्रतिमांन्यसेत् ॥९॥
वास्तुपूजा
प्राणप्रतिष्ठां कुर्वीत पूजये द्वास्तु पूरुषम्
षोडशै रुपचारैश्च द्पात्रिंशैर्वा यथाक्रमम् ॥१०॥
सोममंटप निर्माणं मंडल रचना
तत्प्राच्या मुत्तरश्यां वा विधिव त्सो ममंटपम्
संस्थाप्य धान्यवस्त्राद्यै स्तंडुलैश्च यथाक्रमम् ॥११॥
तन्मध्ये षोडचशदळं पद्मं चैव सकर्णिकम्
लिखित्वा पद्म मभ्यर्च षोडशै रुपचारकैः ॥१२॥
कुंभस्थापनं प्रतिमाशोधनं
कर्णिकायां सोमकुंभं सहेतुमणिकूर्चकम्
रजितप्रतिमां कृत्वा सोमं कर्षप्रमाणतः ॥१३॥
पंचगव्येन संशोध्य कुंभे विन्यस्य शास्त्रतः
प्राणप्रतिष्ठा अर्चनंच
प्राणप्रतिष्ठां कुर्वीत सोममंत्रं समुच्चरन् ॥१४॥
षोडशै रुपचारैश्च सोमं संपूजयेद्गुरुः
ब्रह्माद्यष्ट दिक्पालकार्चन विथिः
वास्तु मंडलमध्यस्थ पद मारभ्य बाह्यतः ॥१५॥
इंद्राद्यष्टपदे ब्रह्मन् विरिंचीन्‌ नव चार्चयेत्
ब्रह्मजिज्ञानमितिवै मंत्रं जप्त्या गुरु स्स्वयम् ॥१६॥
प्रजापतिं विथातारं ब्रह्माणं कमलासनम्
अजं विधिं शतानंदं द्रुहिणं विश्वरेतनम् ॥१७॥
आवाहया मीत्युच्चार्यपूजयेत्परमेष्ठिनम्
तत्पूर्वपदषट्केतु माहेंद्रंतु समर्चयेत् ॥१८॥
आसत्येनेति मंत्रेण चार्यम्णं भास्करं तधा
अदित्यं चैव सप्ताश्वं मार्तांडं लोकबांधवम्.॥१९॥
तद्याम्यबदषट्केतु धर्मराजं समर्चयेत्
यमायसोम मित्येत न्मंत्रंसम्यक्समुच्चरन् ॥२०॥
यमं दंडधरं कालं कालांशं रविनंदनम्
लुलायवाहनं चैव पदषट्के समर्चयेत् ॥२१॥
तत्पश्चा त्पदषट्केतु यादसां पति मर्चयेत्
इमम्मेवरुणेत्येत न्मंत्रेण विधि वत्ततः ॥२२॥
वरुणं मकरारूढं पाशपाणिं प्रचेतसम्
सुरूपिण मपांन्नाधं प्रादक्षिण्येन पूजयेत् ॥२३॥
कुबेरं पूजयेत्षट्के चाप्याय श्वेतिचोच्चरन्
कुबेरं यक्षराजंच धनेशं गुह्यकेश्वरम्, ॥२४॥
गदापाणिं धनाधीशे पदषट्के समर्चयेत्
अग्निं दूतं जपित्वाध धूमकेतुं हुताशनम् ॥२५॥
सप्तजिह्वं हव्यवाहं आग्नेयांतु चतुष्टके
मोक्षणुं मंत्र मुच्चार्यनिरुतिं नरवाहनम् ॥२६॥
कर्बुरं खड्गहस्तंच नैरुत्यां तु चतुष्टके
ततो वायुं समुच्चार्य जगत्प्राणंसमीरणम् ॥२७॥
मारुतं पदमानं च वायुव्यां च चतुष्टके
तमीशानं समुच्चार्य गौरीनाधं महेश्वरम् ॥२८॥
ईशानं वृषभारूढं ईशान्यांतु चतुष्टके
देवतावाहनं
ईशानकोणा दारभ्य तद्वहि श्चार्चयेत्सुधीः ॥२९॥
यस्य नामादिभि र्मंत्रै स्समंत्रप्रणवादिकैः
प्रादक्षिण्येन विधिव द्द्वात्रिंशत्सु पदेष्वपि ॥३०॥
ईशानं चैव पर्जन्यं जयंतादित्य मेवच
इंद्रंच सत्यसंबाधं भृशं चैवांतरिक्षकम् ॥३१॥
अग्निं च तत्र चोष्णांशुं पूषाणं वितधं तथा
यमं ग्रहक्षतं पश्चात् गंधर्वं भृंगराजकम् ॥३२॥
ऋषिं च निऋरुतिं चैवा दौवारिक मतःपरम्
सुग्रीवं पुष्पदंतं च सरिक्ष्नत्यसुरं तधा ॥३३॥
पोषणं नागजपनं नागमुख्य मतः परम्
गुह्यकं चैव भल्लाटु सोमं चानर्गळं तथा ॥३४॥
द्वात्रिंशत्कल शावाहनं
अदितिं सौरदेवंच तद्बाह्येषु च पूजयेत्
एवं पूजांच निर्वृत्य सौवर्णा नध राजितान् ॥३५॥
ताम्रजा न्वाधकलशा स्यते दाकलशे ष्विति
पंचामृत समायुक्तान् पंचत्वक्पंचपल्लवैः ॥३६॥
सप्तमृद्भिस्समायुक्तान्नवरत्न समन्वितान्
चतुर्दशौवधीयुक्ता न्नवरत्न समन्वितान् ॥३७॥
द्वात्रिंश त्परित स्थ्साप्य तंतुना वेष्टये त्ततः
अष्टदि ष्वष्टकलशा न्विन्यस्य विधिवत्क्रमात् ॥३८॥
प्राच्यां बहिः कुमारंचदक्षिणस्यांतुभास्करम्
प्रतिच्यां जंबुकं देव मुदीच्यां पिलिपिंचकम् ॥३९॥
ईशान्यांदि ग्विश्रवसं आग्नेयां च बिडालकम्
नैरुत्यां पूतनांचैव वायुव्यांपापराक्षसीम् ॥४०॥
पूजयेत्कलशेष्वेवं (तत्तन्मत्रै ॥पृथक् पृथक्)न्नाममंत्रैःपृधक् पृधक्
वास्तुहोमं
कुंडेवा स्थंडिले चैव संस्था प्याग्निं तु देशिकः ॥४१॥
इथ्माधानाज्यभागंतु कृत्वा शास्त्रोक्तवर्त्मना
वास्तुनाधं ततो ध्यात्वा कुंडमध्ये यधाविधि ॥४२॥
आयुतंवा सहस्रंवा शत मष्टोत्तरं तु वा
जपाद्दशांशमधवा समिधाज्यचरून्‌ हुनेत् ॥४३॥
सोममंत्रंततो हुत्वा शत मष्टोत्तरं तुवा
मंटपस्थित देवानां त्तत्तत्पदसुसंख्यया ॥४४॥
समिच्चरुघृतै र्होमं कारये त्सर्वसिद्धये
शम्यपामार्गखधिर समिद्भिर्होममाचरेत् ॥४५॥
परिवारान् ततो सर्वदेवतान् स्सस्वमंत्रकौः
समिधाज्यचरून्‌हुत्वापूर्णाहुत्यंतमाचरेत्
वास्तुनाधाधिदेवानां बलिं दद्या द्विधानतः ॥४६॥
वास्तुकुंभ स्ततोयेव यागमंटपभूमिषु
अघमर्षणसूक्तेन शेचये द्वास्तुखुद्धये ॥४७॥
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तम संहितायां
चतुर्दशोध्यायः
श्रीश्रीश्री

N/A

References : N/A
Last Updated : January 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP