संस्कृत सूची|संस्कृत साहित्य|संहिता|पुरुषोत्तमसंहिता|

पुरुषोत्तमसंहिता - चतुर्विंशोध्यायः

पुरुषोत्तम

श्रीभगवान्-
कुंभार्चनाविधिः
कुंभार्चना विधानंतु वक्ष्यामि शृणु पद्मज
षोडशस्तंभसंयुक्ते अलंकारै रलंकृते ॥१॥
मंटपे मध्यमेभागे कुंभावाहन माचरेत्
तदर्थं मंडलं कुर्या च्चक्राब्जं पंचवर्णकैः ॥२॥
चक्राब्जमंडल रचनाक्रमः
चतुरं क्षेत्रविस्तारं शतद्वययुतेनच
षट्पंचाशत्समधिकं कोष्ठानिविभजेत्ततः ॥३॥
षट्त्रिंशत्कोष्ठमध्येतु पंचवृत्तानि कारयेत्
प्रथमं कर्णिकाक्षेत्रं दळस्थानं द्वितीयकम् ॥४॥
नाभिस्थानं तृतीयंतु अरक्षेत्रं चतुर्थकम्
पंचमं नेमि भूमिस्तु चाष्टाविंशतिकोणकैः ॥५॥
बहिःपीठं प्रकल्प्याध बहिःपंक्ति द्वयेनतु॥
लताविधीं प्रकुर्वीत (चतुर्द्वाराणिकारये)चतुर्द्वारं प्रकल्पयेत् ॥६॥
प्रत्येकं च चतुःकोष्ठै श्शंखानां शुद्धयेपुनः
कोणे कोणे द्विकोष्ठंतु सम्मार्जविधिना ततः ॥७॥
अर्थशोभाः प्रशिध्यर्थं त्रीणि त्रीणि च मार्जयेत्
चत्वारिचोपशोभार्थं मार्जनीयं पृधक्‌ पृधक्‌ ॥८॥
वर्णचनाविधिः
शोभयेन्मंडलं तत्र पंचवर्णैस्सितादिभिः
रत्नजैर्थातु जैश्चूर्णैर्गंधचूर्णै रथापिवा ॥९॥
शालिपिष्ठै श्शितैश्चित्रैश्चित्रयेन्मंडलं ततः
कर्णिकां पीतवर्णेन शुक्लैर्बिंदून्विभूषयेत् ॥१०॥
कर्णिकां पाटलेनैव कृष्णैर्वा केसरावनिम्
श्यामैः पीतैश्च रक्तैश्च नाभिरेखात्रयं (क्रमात्)लिखेत् ॥११॥
दळानिस्वेत वर्णैश्च रक्तवर्णैग राणिच
कृष्णैर्नेम्यंत भूमिंच पीठं पीतैश्च शोभयेत् ॥१२॥
चित्रैर्लता वितानैश्च वीथिकां शोभयेत्ततः
रक्तैश्शोभां तथापीतैरुवशोभांच कल्पयेत् ॥१३
शुक्लं रक्तं तधापीतं कृष्णं द्वार चतुष्टयम्
मंडलं चित्रयित्त्वेव (मारभेन्मंडलार्चनम्)मारभेतसमर्चनम् ॥१४॥
मंडलार्चनम्
मंत्राध्वानं कर्णिकायां वर्णाध्वानं दळेषुच
तत्वाध्वानं केसरेषु कळाध्वान मरेषुच ॥१५॥
पदाध्वानं नाभिभागे भुवनाध्वान मर्चयेत्
नेमिभागे कर्णिकायां समावाह्याक्षराणिवै ॥१६॥
परमात्मान मावाह्य सकळीकृत्य पूजयेत्
दळद्वावशके शक्तीं केसरेषु यजेत्ततः ॥१७॥
श्रियादीं श्चततः पूज्योदळांतपलयेहरिः
द्वितीयवलये ब्रह्मान्‌ त्रिनेत्रस्तु तृतीयके ॥१८॥
विष्ण्वादयः पूजनीया अरेषु द्वादशस्वपि
मत्स्याद्पीलये पूज्यनेम्यामायुधपूजनम् ॥१९॥
पीठ्यच चतुर्दिक्षु वराहो नरकेसरी
आनंतश्चहयग्रीवोतंथेंद्राग्न्यादयःक्रमात् ॥२०॥
द्वारपालाः पूजनीयाः छंडादीश्च ततोयजेत्
विष्वक्येन मधैशान्ये गरुडं पुरतोर्चयेत् ॥२१॥
दक्षिणे हेतिराजंच गदांच द्वारिपश्चिमे
अनंतरदळेष्वेवं पूजयेत्क्रमयोगतः ॥२२॥
वासुदेवादिकृष्णांतं द्वादशादित्यपूजनम्
अष्टाक्षराणां स्यसन मष्टबिंदुषु कारयेत् ॥२३॥
चतुर्विंशति पद्मेषु चतुर्विंशति मूर्तयः
इद्धंदेवान्‌ समानाह्य(कुंभस्थापनमाचरेत्) महाकुंभंतुविन्यसेत् ॥२४॥
कुंभस्थापनं
सोवकुंभं सकरकं मध्ये चक्राब्जमंडले
कृत्वामानसयागंतु (कुंभमध्ये यजेत्प्रभुम्)बहिःकुंभे यजेत्प्रभाम् ॥२५॥
महाहविर्नि वेद्याध होमं कुर्या द्यधाविधि
समिद्भिराज्यैश्चरुभि र्मूलमंत्रेणदेशिकः ॥२६॥
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तुवा
अष्टोत्तरशताभिश्च गायत्रीभि स्समावृतम् ॥२७॥
वैकुंठपार्षद होमक्रमः
वैकुंठपार्षदं होमं कुर्यात्तंत्रविचक्षणः
आदोनारायणं देवं श्रीफूनीळासमन्वितम् ॥२८॥
नित्यसूरित्रयं पंचचायुधा न्पुरुषान्‌ तथा
श्रीवत्सं कौस्तुभं चैव वनमालां किरीटकम् ॥२९
रत्न कुंडलयुग्मंच श्रीवैकुंठविमानकम्
धातारंच विधातारं भुवंगंच पतंगकम् ॥३०॥
मणिकं तापसंचैव सिद्धं साध्यमतःपरम्
मत्स्यंच हंसरूपंच हयग्रीवंच कूर्मकम् ॥३१॥
वराहं नारसिंहंच वामनं भृगुरामकम्
श्रीराम जानकीं चैव लक्ष्मणं भरतं तथा ॥३२॥
शतृघ्नंच हनूमंतं बलरामं चरेवतीं
श्रीकृष्णं रुक्मिणीं चैव सत्यभामां तधैवच ॥३३॥
बुद्धं च कल्किरूपंच द्वारलक्ष्मीं ध्वजं तथा
ब्रह्माणं सृष्टिकर्तारं वाणींच सनकावयः ॥३४॥
नारदंच भृगुंचैव मार्कंडेय मतःपरम्
वेदव्यासं शुकंचैव अगस्त्यं काश्यपं तथा ॥३५॥
अदितिं चैव चात्रिंच अनसूया(तधैवच) समन्वितम्
भारद्वाजं कौशिकंच गौतमंच वशिष्ठकम् ॥३६॥
अरुंधतीं जामदग्निं रेणुकांच ततःपरम्
इंद्रादिचाष्टदिक्पालान्‌ गायत्रीद्वितयेनच ॥३७॥
पार्वतीचैव गंगाच द्वयोर्गायत्य्रनंतरम्
उषापद्मिनि छायाभि स्सहितादित्य पूर्वकम् ॥३८॥
नवग्रहश्सोदधीं श्च गायत्य्राष्टोत्तरंशतम्
अनेन विधिना होमं कृत्वा देशिकसत्तमः ॥३९॥
चतुरश्रे वासुदेवं चापेसंकर्षणं तथा
पश्चिमेचैव प्रद्युम्नमुत्तरेचा निरुद्धकम् ॥४०॥
पायसैः कृसरैर्गौडैर्हरिद्रान्नैश्च मौद्गलैः
पौरुषेणैव सूक्तेन होतव्यं पृधगग्निषु ॥४१॥
चतुरश्रेतु कुंडेतु (ब्रह्मरुद्राष्टदिक्पतीः)ब्रह्मरुद्रादिदेवताः
तत्तन्नाम चतुर्ध्यंतं परिवारपदेनच ॥४२॥
स्वाहांतं मंत्रमुच्चार्यहोतव्यंतुयथाक्रमं
ब्रह्मप्रजापती रुद्रा स्सर्वेदेवा यथाक्रमं ॥४३॥
छंदासि वेदाऋषयः गंधर्वाश्च सलीसृसाः
यक्षाश्चाप्सरश्चैव मासाद्यै स्सहवत्सराः ॥४४॥
सरितश्च समुद्राश्च पर्वताश्च तथापगाः
भूतानिपशवो वृङाःतधैवोषधयस्मृताः ॥४५॥
वनस्पतिश्चो र्भिजाश्च स्वेदजाश्चं डजास्तदा
जरायजाश्च भूरादिसप्तलोकास्तधैवच ॥४६॥
अतलाद्यास्तधालोका स्सप्तछंडादि देवताः
इत्येतेभ्योबलिद्रव्यं जुहुयन्मूलविद्यया ॥४७॥
पूर्णाहुतिः
इदं विष्णुरिति प्रोक्ष्यपूर्णाहुति मधाचरेत्
एवं प्रतिदिनं कुर्यात्सायं प्रातर्विशेषतः ॥४८॥
उत्सवे बलि प्रदान विधिः
ततो बलिप्रदानंतु कुर्याद्यागस्यमंटपे
बलि बिंबं च चक्रंवा शिबिकादौनि वेस्यच ॥४९॥
आलयाच्च विनिष्क्रम्यतद्द्वारे कुमुदादिकम्
समभ्यर्च्यबलिंदद्यात् शुचौ भूमितले पुनः ॥५०॥
प्रधमादिदिवस देवबलि द्रव्यभेदः
नित्योत्सव प्रक्रियया बलिं कुर्या द्यधाविधि
तिलजं रजनीचूर्णं करंभान् लाजसंयुतान्‌ ॥५१॥
चरुणासहसंयोज्य प्रधमेह्नि बलिं क्षिवेत्
द्वितीयेहनिसंयोज्य (चरुंच तिलतंडुलं) चरुणातिलतंडुलम् ॥५२॥
मिश्रितां श्चारुणान्लाज थान्यानापूपकांस्तथा
तृतीयेच चतुर्थेच नारिकेळजलैस्सह ॥५३॥
सक्तूंश्च शालिपिष्टंच संयोज्यचरुणासह
पंचमे पद्मबीजानि पायसं शालितंडुलम् ॥५४॥
षष्ठॆत्वपूपान् संयोज्य चरुणाच बलिं क्षिपेत्
सप्तमेहनि सर्वत्र (बलिरन्नै श्चतुर्विधैः)सार्धमन्नैश्चतुर्विधैः ॥५५॥
नक्तू पूपान्‌ संयोज्य स्थानेष्वष्ट सुपूर्ववत्
अष्टमे नवमे चैव बलिदानं समं स्मृतम् ॥५६॥
अपूर्वाभरणै र्माल्यै रपूर्वै श्चांबरै स्सह
उत्सवं प्रत्यहंकुर्याद्यव त्तीर्थदिनांतिकम् ॥५७॥
ग्रामोत्सव विधिः
ग्रामोत्सव विधानंतु शृणुष्व कमलासन
नित्यपूजावसानेतु विशेषोत्सव माचरेत् ॥५८॥
तदर्थं चौत्सवं बिंबं भद्रपीठे निवेश्यच
नृत्तगीतैश्च वाद्यैश्च छत्रचामरकेतुभिः ॥५९॥
स्वस्तिसूक्तादिकं सर्वं पठद्भिर्ब्राह्मणैस्सह
स्नपनविधिः
धामप्रदक्षिणं (नीत्वा)कृत्वाप्रापयेत्स्नान मंटपम् ॥६०॥
देवस्यतु पुरोभागे स्नपनार्धंतु मंडलम्
तिलतंडूलथान्यैश्च कारयित्वा (तु देशिकः)ततःपरम् ॥६१॥
कलशान्ल क्षणोपेतान् नववा पंचवा क्रमात्
विन्यस्य पूरयेत्सर्वान् कलशान् गाळितांभसा ॥६२॥
तत्तद्द्रव्याणिनिक्षिप्य तत्तद्देवान् समर्चयेत्
विधिन त्स्नपनंकृत्वा श्रीसूक्तेन हरिद्रया ॥६३॥
सहस्रथार याकुर्यात्सस्नपनं च नृसूक्ततः
प्लोतशाट्यातु संमृज्य वस्त्राभरण माल्यकैः ॥६४॥
भगवंत मलंकृत्य धूपदीपान् समर्प्य च
भक्ष्यभोज्यादिकं सर्वं विनिवेद्य (यधाविथि)ततः परम् ॥६५॥
तांबूलवीटिकां दत्वा नीरजन मथाचरेत्
निवेदितान्नभक्ष्यादीन् भक्तेभ्य स्संप्रदायच ॥६६॥
उत्सवे वाहन क्रमः
ततो देवंतु संस्थाप्य पूर्वोक्तै भद्रपीठके
वाहनस्तु समीपोर्वीं गमये त्सर्ववाद्यकैः ॥६७॥
विभवानुकुणंस्थाप्य मंत्रन्यासं यथाविधि
कृत्वा देवस्य चार्घ्याद्यै रुपचारैस्तु पूजयेत् ॥६८॥
देवस्यवाहनारूढाः छत्रचामरथारिणः
अर्चकादेव पार्श्वेतु स्थातव्यं भक्तितत्बराः ॥६९॥
ततो भगवत स्सम्यग्ग्रामोत्सव मथाचरेत्
नृत्तवादित्र गीतैश्च वेदघोषै र्महाजनैः ॥७०॥
छत्रध्वजपताकाभिर्वितानै श्चामरैश्शुभैः
वीणावेणुरवैश्चापि शंखदुंदुभिविस्वनैः ॥७१॥
आकाशे संचर द्भिश्च सिद्धगंधर्वविग्रहैः
द्रष्टूनां प्रीतिजनकै र्विनोदै (र्विविधै स्सह) र्विभवैस्सह ॥७२॥
एवमादिभि रन्यैश्च देवस्योत्सव माचरेत्
तत्काले भगवद्भक्ता दद्युः पुष्पफलादिकम् ॥७३
तत्सर्वंतु समादाय प्रोक्षये त्पूजकस्स्वयम्
निवेद्य देवदेवाय पुष्पादीन् विकिरे द्गुरुः ॥७४॥
वाहनक्रमः
प्रधमेह निदेवस्य हंसवाहन मिष्यते
(द्वितीयेहनि सिंहंच)द्वितीयदिवसे सिंहं तृतीये तु खगेश्वरः ॥७५॥
चतुर्थेहनि शेषश्च पंचमेचांजनीसुतः
षष्टेतुसूर्यचंद्रौच रथारोहंतु सप्तमे ॥७६॥
अष्टमेतु तुरंगं स्यान्नवमे गजमेवच
[अधिकपाठाणि
याळीपुष्प कयानादि वाहनानि यधॆच्छया]
एवं क्रमेण देवस्य नवाहोत्सवमीरितम् ॥७७॥
(उत्सवांतेतु देवेशंपुन स्स्नपन पूर्वकम्)उत्सवानंतरं देवं पुनस्स्नपन माचरेत्
(यधाविधिसमभ्यर्च्य नैवेद्यांतं प्रपूजयेत्) भगवंतं समभ्यर्च अपूपादीन् निवेदयेत् ॥७८॥
श्रीभूमिभ्यांततो देवमालयेनं प्रवेशयेत्
विशेषोत्सव क्रमः ननाह्निरोत्सवः
प्रधमेहनि कल्याणं वनविहार मनंतरे ॥७९॥
प्लवोत्सवं तृतीयेह्नि चतुर्थे डोलिकोत्सवं
पंचमे पूरणं प्रोक्तं जलद्रोणीतु षष्ठके ॥८०॥
सप्तमेदिवसेप्राप्ते रथारोहण माचरेत्
अष्टमे मृगयात्राच नवमेव बृधंस्मृतम् ॥८१॥
इत्येवं कधितं ब्रह्मन् नवाहोत्सवपद्धतिः
ब्रह्मौवाच.
कल्याणोत्सव विथिः
भगवन्‌ देवदेवेश भक्ताभीष्टफलप्रदा ॥८२॥
श्रवणे ब्रह्म प्रश्नः
श्रियादीनां विवाहंतु ब्रूहितेमग्रहोयदि
विस्तरेणैव तत्सर्वं वदतां वदतांवर ॥८३॥
भगवत्प्रति वचनं.
श्रीभगवानुवाच.
कल्याणोत्सव विधिः
अधश्रियादि देवीनां पाणिग्रहण मुत्तमम्
कध्यते श्रुणु तत्सर्वं सावधानेन चेतसा ॥८४॥
यस्य श्रवणमात्रेण जन्मसाफल्य माप्नुयात्
कल्याणोत्सव दिवस निर्णयः
यस्यावतारदिवसे तस्य कल्याण माचरेत् ॥८५॥
अवतारेषु सर्वेषु अनुकै जन्मतारके
चैकादश्यां प्रकुर्वीत कन्याणं भक्तिभावतः ॥८६॥
जगत्काल्याणशिद्ध्यर्थं प्रत्यब्दं कारयेत्सवम्
कल्याणोत्सव क्रमः
विष्वक्सेनं प्रपूज्यादो पुण्याहन्य जलेनतु ॥८७॥
संप्रोक्ष्य सर्वसंभारान् रक्षासूत्राणिधारयेत्
धृवादिमूलबिंबानां श्रियादीनां तधैवच ॥८८॥
आचार्याणांच सर्वेषां ऋत्विजांश्च यधाविधि
रक्षासूत्रबंधनावसर निरूपणं.
उत्सवेतु प्रवर्तेतु सृष्टिदोषस्य नाशने ॥८९॥
आशौच परिहारार्थं योग्यतापादरायच
स्वर्णेकृत सूत्राणि धारयेयुः पृधक् पृधक् ॥९०॥
होमादिः
अग्नि प्रतिष्ठां कुर्वीत अश्रेवृत्तेयधातथम्
संस्काराणि ततः कृत्वा चाघारातंहुनेत्ततः ॥९१॥
अग्ने र्वैष्णवसिद्थ्यर्थं पंचसूक्तैर्हुनेत्क्रमात्
मूर्तिमंत्रेण जुहुया त्षोडशाहुतयस्तथा ॥९२॥
द्वादशाक्षर मंत्रेण चाष्टाविंशति संख्यया
समिधाज्यवरून्‌ हुत्वा होमशेषं समापयेत् ॥९३॥
कल्याणमंटप प्रवेशः
तद्रात्रौ वादिवादेवं विवाहागार मुत्तमं
प्रवेशयित्वातं देवं नगरोत्सवपूर्वकम् ॥९४॥
पाणिग्रहणविधिः
विष्वक्सेनं प्रपूज्याध पुण्याहं वाचयेत्ततः
विज्ञाप्य पाणिग्रहण कर्मदेवायभक्तितः ॥९५॥
पाणिग्रहणोत्सव कारण निरूपणं
कदाचिन्नपरित्याद्यं वर्षे वर्षेतु निश्चितं
नित्योत्सवविहीनेतु प्रायश्चित्तं विधीयते ॥९६॥
अक्षतारोपणं नामह्युत्सवं प्रतिवार्षिकं
भक्तिश्रद्थान्वितो देवं पाणिग्रहण माचरेत् ॥९७॥
पाणिग्रहणविध्युक्तं कर्मसर्वं समाचरेत्
प्रधानहोमादि
कुंडस्य चतुरश्रस्य समीपे प्राङ्मुखंहरिम् ॥९८॥
देवीभ्यां सहदेवेशं निवेश्य सुसमाहितः
इध्माधानादिषुस्कारा नाघानांतं यधाविधि ॥९९॥
प्रधानहोमं कुर्वीत प्रवेशाख्य मत- परम्
लाजहोमं प्रकुर्वीत तांत्रिकं होममेवच ॥१००॥
सप्तावरण होमा कृत्वावैकुंठ पार्षदान्
श्रीसूक्तहोमंकुर्वीत तिधिवाराधिदेवतान् ॥१०१॥
नक्षत्राणामधिपतीन्‌ च जयादींश्चहुनेत्क्रमात्
प्रणीतिमार्चनांतंतु कृत्वाकर्म यधाविधि ॥१०२॥
यानेदेवं समारोप्य नृत्तवाद्यपुरस्सरं
(धामप्रदक्षणंनीत्वा, आलयंतु समाविशेत्)ग्रामं प्रदक्षिणीकृत्य देवागारं प्रवेशयेत् ॥१०३॥
इतिसम्यक्समाभ्यातं पाणिग्रहणमुत्सवं
वनविहारोत्सवविधिः
ततो वन विहाराख्य मुत्सवं तूच्यतेधुवा ॥१०४॥
द्वितीयदिवसे देवं नित्यपूजापसानिके
श्रियावसुधयासार्थं वाहनेतु निवेशयेत् ॥१०५॥
भद्रं कर्णेतिमंत्रेण सवर्णप्रभयासह
पुष्पमाल्यै रलंकृत्य पूर्वत्तूर्यमंगळैः १०६॥
उद्यान वनमासाद्य तन्मध्यस्थितमंटपे
देवीभ्यां सहदेदेशं भद्रपीवे निवेशयेत् ॥१०७॥
स्नापयेद्गाळितांभोभिः पंचविंशतिभिर्घटैः
[अधिकपाठाणि
कुंडेवा स्थंडिलेवापि होमकृत्या यधोदितं]
अलंकारासनेभर्च वन्यमू फरादिकम् ॥१०८॥
शीतलंतर्पण जलं मुद्गसूपं गुडून्वितं
तांबूलं च निवेद्याध नीराजन मधाचरेत् ॥१०९॥
स्तोत्रैस्तुत्वातु देवेशं साष्ठांगं प्रणिपत्यच
देवस्यपादयोर्दद्यात् पुष्पांजलि मतःपरम् ॥११०॥
देवस्य पुरतोनृत्तगीत वाद्यविशारदैः
वाद्यं बहुविधं नाट्यं दर्शये युर्मुहुर्मुहुः ॥१११॥
वेदपाठावसानेतु पूर्वव न्मंगळैस्सह
यानेदेवं समारोप्य मंदिरांतं प्रवेशयेत् ॥११२॥
एवं वनोत्सवंकृत्वा प्लवोत्सव मथाचरेत्
प्लवोत्सवविथिः
तृतीये दिवसे प्राप्ते देवं देवी समन्वितम् ॥११३॥
शीबिकायां समारोप्य चालंकृत्यविभूषणैः
प्रदक्षिण क्रमेणैव सरस्तीरं समानयेत् ॥११४॥
तत्सरोवरमध्यस्थ मंटपे सुमनोहरे
सिंहानने समारोप्य नैवेद्यांतं सुपूजयेत् ॥११५॥
दिव्यंप्लवं समादाय फलकाभिद्दृढीकृतं
अलंकृतं नितानाद्यैः पुष्पमाल्योपशोभितं ॥११६॥
ध्वजैश्च विविधाकारैर्दर्पणैश्चामरैस्तथा
नारिकेळस्य पूगस्य कदळ्याः फलसंचयैः ॥११७॥
घंटाभिः किंकिणीभिश्च सर्वत स्समलंकृतं
पुण्याहं वाचयित्वाध प्लवंसंप्रोक्ष्यदेशिकः ॥११८॥
तस्मिन्‌ खगेशमावाह्य पूजयित्वा यथाविधि
नैवेद्यं भक्तितोदत्वा संप्रार्थ्यविहगेश्वरं ॥११९॥
नरस्तोयंतु संस्कृत्य दहनाप्यायनादिभिः
तस्मिन्‌दुग्धाब्धिमावाह्य इंद्रादीन्‌न्परितोषयेत् ॥१२०॥
कुंडेवा स्तंडिलेवाग्निं प्रतिष्ठाप्य यथाविधि
आज्यभागांतिमंकृत्वा शेषमंत्रेणदेशिकः ॥१२१॥
अष्टोत्तरसहस्रंवा शतमष्टोत्तरंतुवा
चरुं पुरुषसूक्तॆन जुहुयात्षोडशाहुतीः ॥१२२॥
संपाताज्यं समादाय (सेचयेत्ल्पवमथ्यतः)सेचयित्वाप्लवं ततः
तत्ल्पवे देवदेवेशं नम्यगारोपये द्गुरुः ॥१२३॥
[अधिकपाठाणि
भद्रं कर्णेतिमंत्रेण धृवाद्यौरितिमंत्रतः]
आर्चकादीक्षिताश्चैव तधैव परिचारिकाः
देवस्य परित स्सर्वे तिष्ठॆयुर्भक्ति संयुताः ॥१२४॥
देवस्याग्रे प्लवेन्यक्मिन्‌ नृत्तगीतादिकं चरेतु
मंटपंत्रिः परिक्रम्य तस्मि न्नारोपये त्प्रभुं ॥१२५॥
देवं तत्र समभ्यर्य चार्हणं पृधुकादिकं
नारिकेळमपूपादीन् निवेद्यतदनंतरं ॥१२६॥
यानेदेवं समारोप्य पूर्वोकॆनैववर्त्मना
ग्रामंप्रदक्षिणंनीत्वा मंदिरं संप्रवेशयेत् ॥१२७॥
एवं प्लवोत्सवंकृत्वा नित्यपूजां समाचरेत्
डोलोत्सवविथिः
चतुर्थ दिवसे कुर्या ड्डोलोत्सव मसुत्तमं ॥१२८॥
डोलासंस्थापनार्थाय निर्मिते मंटपे गुरुः
सुरम्यं समलंकृत्य विष्वक्सेनंतु पूजयेत् ॥१२९॥
पुण्याहं वाचयित्वातु प्रोक्षयेड्डोलिकां ततः
डोलिकायामनंतंच वेदान्‌रज्जुषुपूजयेत् ॥१३०॥
इंद्रादिभ्यो बलिंदत्वा देवंयाने निवेश्यच
शंखभेरीनिनादैश्च डोलायां स्थापये द्गुरुः ॥१३१॥
[अधिकपाठाणि
नृत्तगीतविनोदानि कारये द्देवसन्निधौ.]
तत्रदेवं समभ्यर्च चित्रान्नानिफलोदकं
निवेद्य पानकंचैव तांबूलंतु समर्पयेत् ॥१३२॥
ततो पुरुषसूक्तादि पठद्भिद्ब्राह्मणैस्सह
डोलारज्जून्‌ गृहीत्वातु चालयेत्तु शनैश्शनैः ॥१३३॥
ततस्तु देवदेवेशं शिबिकायां निवेश्यच
थाम प्रदक्षिणीकृत्य देवागारं नमाविशेत् ॥१३४॥
पूरणोत्सवविथिः
पंचमे दिवसे प्राप्ते पूरणोत्सवमाचरेत्
सौवर्णंराजितं वाध ताम्रजं नेत्र जंतुवा ॥१३५॥
वैणजं वाध कुर्वीत पूरणार्थंतु पंजरम्
प्रतिमानुगुणेनैव पंजरं परिकर्वयेत् ॥१३६॥
उत्स्येधः प्रतिमायाश्च चतुरंगुल मुच्यते
प्रतिमापरितः कार्या वैपुल्यंतु दशांगुलम् ॥१३७॥
एतल्लक्षण संयुक्तं पंजरं प्रोक्ष्यवारिणा
(धान्यराश्यौतु संस्थाप्य पंजरं देशिकोत्तमः)धान्यादिकृतपीठे तत्पंजरं सन्निवेशयेत् ॥१३८॥
योगपीठं समभ्यर्च बिंबमुत्तिष्ठ मंत्रतः
देशिक स्स्वयमादाय पंजरे (सन्नि वेशयेत्)विनि वेशयेत् ॥१३९॥
भद्रं कर्णेति मंत्रेण रक्षाबंधन माचरेत्
तूर्यादिवेदघोषेषुप्रवृत्तेषुहरिंस्मरन्‌ ॥१४०॥
पूरण द्रव्य भेदेन फल भेद निरूपणं
रत्नैश्च पूरणं कुर्यात्सर्वदोष प्रशांतये
रत्न पूरेणयोभक्त्या पूजये त्प्रतिमांहरेः ॥१४१॥
सर्वक्रतुफलं प्राप्य विष्णुसायुज्यतां व्रजेत्
स्वर्णादिलोहवूरेण योभक्त्यापूजयेद्धरिम् ॥१४२॥
अग्निष्ठोमफलं प्राप्य विष्णुलोके महीयते
फलैश्चपूरये द्यसुप्रतिमां भक्तितोहरेः ॥१४३॥
अश्वमेधफलं प्राप्यमोदते विष्णुमंदिरे
घृतपूरेण योभक्त्या पूरयेद्देव मव्ययं ॥१४४॥
चातुर्मास्याफलंप्राप्य विष्णुलोके महियते
मधुरापूरये द्यस्तु भक्त्यादेवं जनार्दनम् ॥१४५॥
सद्यःक्रतुफलं प्राप्य विष्णुसायुज्यमाप्नुयात्
[अधिकपाठाणि
पूरण द्रव्यभेवेन मंत्रभेदः प्रवक्ष्यते
सहिरत्ना नीतिरत्नै स्स्वर्णादीनि हिरण्यतः
याः फलेत्यादि च फलैः मृतं तन्मंत्र मुच्चरन्‌
मधुवा तेतिमधुना पूरणं कुरुतां गुरुः]
इति सम्यक्समाख्यातं पूरणोत्सव मुत्तमम् ॥१४६॥
जलद्रोण्युत्सवं पक्ष्ये यधावदव धारय
जलद्रोणींच सौवर्णंराजितं वाधताम्रजाम् ॥१४७॥
बिंबमानानुसारेण कारये द्विभवं यथा
कर्पूरैः कुंकुमैःपुष्पै स्सुगंध द्रव्यसंचयैः ॥१४८॥
सुरभीकृतेनतोयेन जलद्रोणीं प्रपूरयेत्
शोषणादि ततःकृत्या गंगाद्यास्ताश्च पूजयेत् ॥१४९॥
ततोदेवं समानीय प्रवृत्ते वेदपाठके
वाद्यघोषे प्रवृत्तेतु स्वस्तिसूक्तं जप न्गुरुः ॥१५०॥
निमज्जयेत्ततोदेवं देवीभ्यां सहदेशिकः
स्नानार्द्रवाससादेव मारोप्य शिबिकादिषु ॥१५१॥
आपादमस्तकं लिंपे त्कुंकुमेन सुगंधिना
ततो ग्रामेपरिभ्राम्य स ये दास्थानमंटपम् ॥१५२॥
उत्सवांतो चितस्नानं कृत्वा (देशिकसत्तमः)देवस्य भक्तितः
द्वात्रिंश दुपचारैस्तु पूजयित्वा यथाविधि ॥१५३॥
आलये संप्रविश्यैव कुर्यान्नि त्यार्चनं विभोः
एवमुक्तप्रकारेण षष्टॆहम्यत्सवं चरेत् ॥१५४॥
रथोत्सवविधिः
रथोत्सवं प्रकुर्वीत सप्तमेह्नि यथाक्रमम्
छत्रध्वजपताकाद्यैः पुष्बदामैर्वितानकैः ॥१५५॥
मुक्तादामैश्च सौवर्णैर्मंजीराणांगणै स्सह
घंटाभिश्सामरैश्चैव स्वर्णकुंभै रलंकृतम् ॥१५६॥
बर्हिबर्हावतंसैश्च संयुतं सुमनोहरम्
नानाचित्लैस्तु संयुक्तं दीपमालादिभिर्युतम् ॥१५७॥
रथं संप्रोक्ष्यतोयेन (पंचगैन्यैश्च शिकः)पंचगव्येन प्रोक्षयेत्
रथादि देवता पूजा
पादादि शिखरांतस्थान्‌ तत्तद्देवान्‌ समर्चयेत् ॥१५८॥
सत्यं सुसर्णं गरुडं तार्ख्यं चक्रेषु पूजयेत्
चक्रदंडद्वयेमायां (मनंतंच समर्चयेत्) समर्चयेत् ॥१५९॥
केशवादीन्‌ तलेभ्यर्च्य धर्मादीन्पादभागके
स्थंभेषु चायुधान्‌ पूज्यस्थूपिकायांसदाहरिं ॥१६०॥
शालासु वासुदेवादीन्‌ कूर्मादीन्वेदिकानुव
अनंतं शिखरेचैव पद्मनाभं तदूर्ध्वके ॥१६१॥
छंडादिद्वारपालांश्च कुमुदादिगणान्यजेत्
दिक्पालांच समभ्यर्च अष्टरिक्षु यथाक्रमम् ॥१६२॥
कोणेषु च समभ्यर्च्य पुरुषं सत्यमच्युतम्
अनंतं च ततःपूज्य तुरगेषु खगाधिपम् ॥१६३॥
अतलादीनि लोकानि चांतरेषु ततो यजेत्
हेतिराजं समभ्यर्च्यरधस्यांत र्बहिस्थरे ॥१६४॥
विष्वक्सेनंतु संपूज्य (रथसारथि विग्रहे)सारध्यां विग्रहै गुरुः
बलिदानं ततः कुर्यात्‌ रधस्य परितः क्रमात् ॥१६५॥
[अधिकपाठाणि
तिललाजाक्षतयुत चरुणा बलि माचरेत्]
ततो देवं च देवीभ्यां यानमारोस्यदेशिकः
रथ मध्ये भगवन्निवेशन विधिः
जयघोषैर्नृत्तगीत भेरीपटहनिस्वनैः ॥१६६॥
शंखतूर्यमृदंगाद्यै र्वीणावेणुरवै स्सह
रथं प्रदक्षीणि कृत्य शाकुनं सूक्त मुच्चरन्‌ ॥१६७॥
धृवंत इतिमंत्रेण देवमारोपये त्ततः
तत्रदेवं समभ्यर्च्य नैवेद्यांतं यथाविधि ॥१६८॥
रथस्थभगवन्निवेदित प्रसादे स्त्रीणां संतान प्राप्तिः
नैवेद्यान्नं ततो दद्यात् स्त्रीणां संतानसिद्धये
तद्रधं भ्रामयेद्ग्रामे सुगरं तु यधाभवेत् ॥१६९॥
रधस्थं देवदेवेशं दृष्ट्वापापैः प्रमुच्यते
रथस्थ भगवद्दर्शने पूजनेच विशेषः
लोकोयं निश्चयं चै तत् ज्ञातव्यं कमलासन ॥१७०॥
यस्तुगत्वारधस्थंमां तृप्त्यते भक्तिभावतः
धनाश्वनगरग्राम गजपुष्पफलादिकै ॥१७१॥
उपाहारैरनेकैश्च बहुमानपुरस्सरम्
सोस्तुभुक्त्वाखिलान्भोगानंते मत्साम्यमाप्नु यात् ॥१७२॥
ततो देवं रथाद्याने स्थापयित्वा यधापुरम्
(धामप्रदक्षिणेनैव)प्रदक्षिण क्रमेणैव चा तःप्रवेशयेत् ॥१७३॥
एवं रथोत्सवं प्राक्त वदेवस्यशार्जिणः
मृगयोत्सवविधिः
अधवक्ष्ये विशेषेण मृगयोत्सव मुत्तमम् ॥१७४॥
भगवत्प्रीतिजनकं सर्पारिष्ट विनाशकं
मृगयोत्सवयात्रायै चाष्टमे दिवसेविभुम् ॥१७५॥
यात्रोपकरणै स्सार्थ मलंकृत्यविशेषतः
अश्वरत्ने समारोप्य नानालंकारशोभिते ॥१७६॥
महताजन संघेन गमये द्विपिलं महत्
तत्राभ्यर्च्यविशेषेण मृगयांकारयेत्ततः ॥१७७॥
मृगबंधन धनुः पूजादि.
सेनांविन्यस्यपरितः मध्येक्रूरमृगस्थितिं
तथाकृत्वा भटा स्तत्र मृगान्‌वथ्वाहरेःपुरः ॥१७८॥
दर्शयेयुर्मृगांस्तान्‌ तान्‌ मोचयेयुःक्रमाद्बहिः
हतानां क्रूरजंतूनां भवेत्पुण्य मनंतकं ॥१७९॥
देवस्य तु पुरोभागे धनुर्बणौ प्रपूजयेत्
चतुर्दिक्षु चतुर्बाणा नूर्ध्वेचैकं विसर्जयेत् ॥१८०॥
ततो देवं तु संपूज्य यथाविभवविस्तरम्
ग्रामप्रदक्षिणेनैन चालयं संप्रवेशयेत् ॥१८१॥
अवबृधोत्सवविधिः
तस्यामपररात्रौतु तीर्थबिंबाधिवासनम्
बिंबस्य दक्षिणकरे कौतुकं बंधये द्गुरुः ॥१८२॥
थान्यराश्स्यौतु विन्यस्य यथाविधि समर्चयेत्
निशाचूर्ण घट्टनादयः
देवस्य तु पुरोभागे धान्यराशावुलूखलं ॥१८३॥
स्थापयित्वा ततोलक्ष्मींथ्याये च्छ्रीसूक्तवर्त्मना
क्षाळितं मूलमंत्रेण मंत्रितं मुनलंगुरुः ॥१८४॥
मूर्तिपैश्च समादाय निशाचूर्णंतु घट्टयेत्
चतुर्भि र्वैष्णवै श्चापि वैष्णवीभिस्तुवायथा ॥१८५॥
घट्टयेच्च निशाचूर्णं तथासूक्ष्मतरं भवेत्
कुंभे निक्षिप्य तच्चूर्णं वेष्टये न्नववाससा ॥१८६
तत्कुंभं तंडुलेपीठे स्थापये न्मूलविद्यया
गंधैरभ्यर्च्य तच्चूर्णै श्श्रीसूक्तेनाभिषेचये ॥१८७॥
वाहनेदेव मारोप्य तीर्थबिंबपुरस्सरम्
नद्यादिपुणतीर्थंवा नरस्तीर मथापिवा ॥१८८॥
पौर्णमास्यां, दर्शेच कर्तव्य विशेषः (समुद्रस्नानं)
पौर्णमास्यां च दर्शेच स्थितं चेद्यो जनांतरं
समुद्रतीर मधवा नीत्वा तत्रस्थ मंटपे ॥१८९॥
प्रपायां भद्रपीठेवा प्रांङ्मुखोवाप्युदङ्मुखः
वाहनाद्य पलोप्याध देवं तत्र निवेशयेत् ॥१९०॥
अग्रतः कलशान् पंचविंशति र्दशसप्तवा
अवभृधस्नपनविथिः
नववा पंचवा (स्थाप्य तैर्देवमभिषेचये)न्यस्य कलशैरभिषेचये ॥१९१॥
चक्रस्नानविथिः
तीर्थेषु तेषु गंगाद्याश्चावाह्यविधिवत्ततः
चक्रबिंबं समादाय देशिकेंद्रस्समूहितः ॥१९२॥
तीर्थेनिमज्जयेत्तत्र त्रिवारंतु यथाविधि
अब्लिंग पवमानादि सूक्तोच्चारणपूर्वकम् ॥१९३॥
चक्रेण सहास्नानां फल विशेष कधनं
तातत्काले सहदेवेन निमज्जंति च ये सराः
ते निर्धूया शुभं सर्वं महापातक संचयं ॥१९४॥
धृवंयांति मदुष्प्रापं स्थानमाचंद्रतारकं
ततो देवं समानिय मंटपे विनिवेश्यच ॥१९५॥
अर्घ्याद्यैः पूजयेत्तत्र पौरुषेणैवसूक्ततः
निवेद्यान्नादिकं तत्र भोजये द्ब्राह्मणान् ततः ॥१९६॥
यानेदेवं समारोप्य प्रापये दालयांतरम्
तद्रात्रौ पूजये द्देवं पुष्पयाशाख्यमंडले ॥१९७॥
महोत्सवे अचार्योस्वेच्छया उत्ववादिकंकार्यं.
महोत्सवे प्रवर्तेतु देशिकेंद्रेष्टवर्त्मना
ऊहापोहविथानेन कर्तव्यं सुनोहरम् ॥१९८॥
नवाहोत्सवमध्येपि देशिकस्तु यधोचितं
महदाशीर्वाद, आस्थानाद्यनुक्तोत्सव विषयः
महादाशिर्वचाख्यंच आस्थानोत्सवनामकः ॥१९९॥
पुष्पदामविलासंच यथाविभपविस्तरम्
कवाट बंधनं देवदेवी संभाषणं तुवा ॥२००॥
अन्यान्यनेक चित्राणि विनोदानि च कल्पयेत्
इति श्रीपांचरात्रेमहोपनिषदि श्रीपुरुषोत्तम संहितायां
ब्रह्मोत्सव विधिर्नाम चतुर्विंशोध्यायः
श्रीश्रीश्री

N/A

References : N/A
Last Updated : January 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP