संस्कृत सूची|संस्कृत साहित्य|संहिता|पुरुषोत्तमसंहिता| चतुर्थोध्यायः पुरुषोत्तमसंहिता प्रथमोध्यायः द्वितीयोध्यायः तृतीयोध्यायः चतुर्थोध्यायः पंचमोध्यायः षष्ठोध्यायः सप्तमोध्यायः अष्टमोध्यायः नवमोध्यायः दशमोध्यायः एकादशोध्यायः द्वादशोध्यायः त्रयोदशोध्यायः चतुर्दशोध्यायः पंचदशोध्यायः षोडशोध्यायः सप्तदशोध्यायः अष्टादशोध्यायः एकानविंशोध्यायः विंशोध्यायः एकविंशोध्यायः द्वाविंशोध्यायः त्रयोविंशोध्यायः चतुर्विंशोध्यायः पंचविंशोध्यायः षड्विंशोध्यायः सप्तविंशोध्यायः अष्टविंशोध्यायः एकानत्रिंशोध्यायः त्रिंशोथ्यायः एकत्रिंशोथ्यायः द्वात्रींशोधायः त्रयत्रिंशोध्यायः पुरुषोत्तमसंहिता - चतुर्थोध्यायः श्रीमत्पांचरात्र दिव्यागमे श्रीपुरुषोत्तम संहितायां Tags : purushottam samhitasamhitasanskritपुरुषोत्तम संहितासंस्कृतसंहिता आलयलक्षण-मूर्ध्नेष्टकाविधानम् Translation - भाषांतर आलय निर्माण विधिःवसिष्ठः-देवालयप्रमाणानि श्वणुध्वंमुनिसत्तमाःउत्तमं प्रस्तरा दारूमध्यमं चेष्टकास्मृतम् ॥१॥एते ष्वेकतमे नैव कालये द्भगवद्गृहम्प्रस्धरवर्ण फल निरूपणंप्रस्थराणां च वर्णानि वक्ष्यामि मुनिपुंगवाः ॥२॥रक्तवर्णं च सौभाग्यं पीतवर्णं महाभयम्धूम्रवर्णं व्याधिरूपं गौरं च मरणं भवेत् ॥३॥श्वेतवर्णं भवे त्पुण्यं नील मायुष्यवर्धनम्माणिक्यं मृत्युनाशंच आभ्रकंमोक्षदायकम् ॥४॥चिंतामणिशिला ब्रह्मन् कर्तु रिष्टशुभं भवेत्पादेनलिंग निर्णय विधिःकुर्विंदं चतु सौभाग्यं वर्णान्येतानि निर्णयः ॥५॥पुरुषं ताळनादं च वेणुनादं नपुंसकम्घंटानादि प्रियतमा इ त्येते लिंगनिर्णयम् ॥६॥दिंणादिषुयोग्यनाद निरूपणं ब्राह्मणा दिवर्जानिघंटानादं च बिंबानां पीठानां वेणुनादकम्ताळं देवालयानां च शिलासु क्रम ईरितः ॥७॥श्वेतं द्विजातिवर्णश्च रक्तं क्षत्रियवर्णकम्पीतं वैश्य मिदंवर्ण मितरान् शूद्रवर्णकान् ॥८॥संगृह्यतु शिला सूक्ताश्शिल्पिनं पूजये त्सुधीःअंगुलादिमान विधिःमध्यमांगुळिमध्यं च अंगुष्ठवलयार्धकम् ॥९॥यवत्रयाणां मानं च अंगुळस्य प्रमाणतःअंगुळैर्द्वादशैर्युक्तस्ताल इ त्यभिधीयते ॥१०॥गर्भालयंइद मेतेन तालेन द्विगुणं हस्त मुच्यतेअष्टादशकरैः कार्यं गर्भायामं च विस्सृतिः ॥११॥मध्यमं दशभिर्हसै रधमंपंचहस्तकम्उपानहादिपंचांग मधिष्ठानं प्राकल्बयॆत् ॥१२॥पंचहस्ता चतुर्हस्ता द्विहस्तावा यथेच्छयादंडस्तदर्धं पादोनंतस्योत्स्रेधं समीरितम् ॥१३॥अधिष्ठाने कृते तस्मिन् स्तंभ मंत र्विवर्जयॆत्एकद्वित्रिचतुर्हस्तैःक्रमशोवर्धिता भवेत् ॥१४॥मंदिरस्य महानासा सक्तिसालसमुच्छ्रयःउपपीठसमायुक्तासालो दंड स्त्रीरुस्यते ॥१५॥कल्पनीयं प्रयत्नेन तदंग स्यार्ध मंटपम्ग्रीवाग्रतुलितो वास्यात् प्रतिसम्मितयेववा ॥१६॥विच्छिन्ना संतरे तेषां सालाना मुच्छ्रयं विदुःएतद्गर्भगृहंप्रोक्तं (पुरतोऽस्यार्धमंटपम्) पुरतस्स्यार्धमंटपम् ॥१७॥अर्धमंटपम्पंचहस्तं चतुर्हस्तं कारये दर्धमंटपम्हीनेऽर्थेमंटपेधाम्नःपार्श्वाभ्यांनिर्गमस्ततः ॥१८॥आग्रतः पृष्टतो वापि भवेतां पार्श्ववर्त्मनिसमुच्छ्रितं प्रतिसमं अधिकं वायधेच्छया ॥१९॥ताव द्विस्तारयुक्ता श्च दिगुणं चोभयो र्भवेत्सोपानं स्यात्समुद्दिष्टमंतश्चांतश्चनिर्गमः ॥२०॥सोपानपङ्त्कयः कार्या ष्षडंगुळसमुच्छ्रयाःचंडश्चैव प्रचंडश्च कल्पयेद्द्वारपार्म्वयोः ॥२१॥नृत्त मंटपम्तदग्रे मंटपं कुर्यात् नृत्यार्थं द्विजसत्तमाःषट्ट्रिंशस्तंभसंयुक्तं षोडशस्तंभ मेववा ॥२२॥समुच्छ्रितं प्रतिसमं अधिकं वा यथेच्छयाएकद्वित्रिचतुःपंचहस्तै र्मुत्तार्धमंटपम् ॥२३॥सांतराळं समुद्दिष्टं पार्श्वाभ्या मध निर्गमःसोपानपङ्तयः कार्याः पार्श्वयोरुभयोरपि ॥२४॥ताव द्विस्तारयुक्ता श्च द्विगुण श्चोभयं भवेत्सोपानपङ्त्कयोहस्ति हस्तं कुर्यास्थवियसः ॥२५॥यद्वा रथांगं कुर्वीत सिंहव्याळ म थापिवअंतरावरणं कुर्यात् नृत्तमंटपमध्यतः ॥२६॥द्वारं वा तायनं वापि भित्तिबंधं न जातुवाकुलक्षयो विनाशंच व्याथि र्वा भित्तिबंधने ॥२७॥यद्वार्धमंटपा दर्ध सपादं पाद मेव वातत्तुल्यावांतराळं तु अंतराळाय तं भवेत् ॥२८॥विस्तारं ह्रासयेत्तत्त अंतराळस्य पार्श्वयोःहस्तं ताळंतधर्धंवाह्रासयेत्पार्श्वयोरपि ॥२९॥युग्मस्तंभसमायुक्त स्तथाबंध मथापि वालांगलं वा प्रकुर्वीत उभयं वा विना भवेत् ॥३०॥चतुरश्रं वा यतं वा चतुर्द्वारं चतुर्दिशम्वातायनं सयुग्मंतुनकुर्याद्भित्तिबंधनम् ॥३१॥अंतरावरणस्यांत र्भहि र्योभयपार्श्वयोःकल्पये च्छिल्पशास्त्रज्ञो गरुडाः क्कोणभूमिषु ॥३२॥ह स्तबंधं तदूर्ध्वंतु अग्रेनैकंप्रकल्पयेत्प्राकार मंटपानिप्राकारेषु च सर्वेषु मंटपानि समंततः ॥३३॥द्वाविंशतिधनुर्मानं मंटपं चोत्तमं भवेत्अष्टादशधनुर्मानं मंटपं मध्यमं भवेत् ॥३४॥अधमं द्वादशधनु र्मंटपं परिचक्षतेआस्थानी मंटपंपूर्वोक्तसप्तसंख्या वाभवेदास्थान मंटपम् ॥३५॥उत्तमं दशभिर्हस्तैर्मध्यमं चाष्ट हस्तकैःषड्भिस्तमधमंविंद्यात् क्षुत्रंहस्तत्रयायुतम् ॥३६॥दक्षिणोत्तरयोःपृष्ठे भित्तियस्युः प्रकल्पिताःस्तंभाष्टकयुतं तत्रसोपानं परिकल्पयेत् ॥३७॥दीर्घशाला मधःकुर्यात् मंटपं चैव कारयेत्मंटपाः प्राङ्मुखास्सर्वे सर्वावरण संस्थिताः ॥३८॥आस्थान मंटपान्सर्वान् प्रकुर्यात्सर्वतोमुखान्सोमसूत्रंशूद्रःप्रतिष्ठितं कुर्यात् सोमसूत्रस्यलक्षणम् ॥३९॥पादवेद्यां शिलायां च मकरासन माचरेत्वैश्यःकपोत वेद्यांच कुर्याद्गजमुखाकृतिः ॥४०॥क्षत्रियः पट्टिकायांच मृगाधिपशिराकृतिःद्विजोद्विपट्टिकायांच कुर्याद्गोमुखवद्द्विजाः ॥४१॥गर्भालय द्वारभेदेन फलभेद निरूपणंएवं गर्भगृहायामं तस्य द्वारं विधीयतेप्राग्द्वारं शुभदं प्रोक्तं दक्षिणे पुष्टिवर्धनम् ॥४२॥पश्चिमे विजयं चैव धनदं चोत्तरं भवेत्उत्तुंगं नवतालैश्च विस्तृतिः पंचभिर्भवेत् ॥४३॥विमानानि च भिद्यंते तलाधिष्ठानभेदतःप्रासाद लक्षणंप्रासादं पंचधा भेदं नागरं द्राविडं तथा ॥४४॥वृत्तं वृत्तायतं चैव वेसरंच प्रकीर्तिताःनागरंसर्वदिङ्नासिकाकारं कूटशालासमन्वितम् ॥४५॥आद्येच चतुरश्रंतु चाग्रे वृत्तायतं यदिनागलं तत्समाख्यातं द्राविडं चाधुनोच्यते ॥४६॥द्राविडंपादादिस्थूपिपर्यंतं चतुरश्रं प्रकल्पयेत्षडश्रमधवाकुर्यात्युक्तंतद्द्राविडंभवेत् ॥४७॥वेसरंपादादिच शिरोंतं तु वृत्तं वृत्तायतं तु वावेसराख्यमिति प्राक्तं मंदिरेषु यथाक्रमम् ॥४८॥कूटशालासमायुक्तं सर्वदिङ्मासिकायुतम्कंठोर्ध्वतलविस्तीर्णं वेसरं मंदिरं स्मृतम् ॥४९॥सर्वतो निर्गमंपोदप्रभृतिस्थूप्यंतं अष्टाश्रं द्वावशाश्रकम्यत्कूटशालारहितं सर्वतो निर्गम स्स्मृतः ॥५०॥मूर्धेष्टकाविधिःमूर्धेष्टकाविधिं ब्रह्मन् शृणुवक्ष्यामि सांप्रतम्आलयस्य पुरोभागे कारये द्यागमंटपम् ॥५१॥वेदिकां कारये न्मध्ये एकद्वित्रिसुहस्तकम्सर्वालंकार संयुक्तं तोरणैरुपशोभितम् ॥५२॥साधिताःपूर्वरात्रौ चचत्वारः प्रस्तरेष्टकाःशिलादोषविमुक्तास्युः सुपक्वामृण्मया धवा ॥५३॥पंचगव्येन संप्रोक्ष्य परिस्तीर्य कुशै स्तथापुण्याहंवाचयि त्वाधप्रोक्षयेच्चकुशांबुभिः ॥५४॥कौतुकं बंधये त्तत्र मूलमंत्रेण मंत्रवित्प्रत्येकं वस्त्रमासाद्य स्थापयेत्तु तदग्रतः ॥५५॥सादयेत्कलशान्पश्चात् सवस्त्रान् सासिधानकान्पंचकुंभा न्विनिक्षिष्य मध्ये कंभंतु विन्यनेत ॥५६॥गंधोदकेन संपूर्णंकुशै रश्वद्धपल्लवैःमूलमंत्रेण कुंभास्तुसादयेत्साधकोत्तमः ॥५७॥कुमुदः कुमुदाक्षश्च पुंडरी कोध वामनःशंखुकर्ण स्सर्पनेत्र स्सुमुखः स्सुप्रतिष्ठितः ॥५८॥परितः कलशा न्यष्टौ पूजये द्देशिकोत्तमःवाराहंनारसिंहंच श्रीधरंहयशीर्षकम् ॥५९॥जामदग्न्यं च रामंच वामनं वासुदेवकम्एवं विद्येश्वराःप्रोक्ताःक्रमात्कुंभेषु पूजयेत् ॥६०॥सकूर्चंसाधये द्विद्वान् सर्वालंकारसंयुतम्आरभेत ततो होमं वेदीपार्श्वेतु देशिकः ॥६१॥दिक्ष्वष्टासु तथाधाम्मि शांतिहोमं प्रवर्तयेत्वेदपारायणै स्सार्थं पठद्भिश्शाकुनं प्रति ॥६२॥ऋग्वेदं पूर्वदिग्भागे यजुर्वेदं तु दक्षिणेपश्चिमे सामवेदं तु अधर्वंचोत्तरे तथा ॥६३॥जूहुया त्समिधाज्येन चरुणा पयसा तधाअष्टोत्तरशतं हुत्वा समिधाज्यैः पृथक्पृथक् ॥६४॥संपाताद्यंगृहीत्वातुपूर्णाहुति मथाचरेत्रात्रिशेषं व्यतिकम्य कृतस्नानः कृताह्निकः ॥६५॥पूर्वव त्पूजये त्कुंभान् गंधपुष्पाधिभिस्ततःप्रदीपये द्धूपदीपै रर्चये द्देशिकात्तमः ॥६६॥बलिदानं प्रकुर्वीत यथाव दनुपूर्वशःआचार्यो तक्षकै स्सार्धं यजमानसमन्वितः ॥६७॥(वेदघोष पुरस्सरम्)धामप्रदक्षिणं कुर्याद्वेदघोषसमन्वितःआरोपयेच्छ तास्सर्वाः विमानस्योपरिस्थले ॥६८॥पुण्याहं वाचये त्तत्र ऋत्विग्भिस्सह देशिकःमुर्थेष्टकानामाधाताप्राङ्मुखस्तुनमाहितः ॥६९॥ध्यायन्नारायणं देवं हृत्पद्मेप्रणवंजपेत्अदद्यादिष्टका स्सर्वाः पूर्वादिक्रममाश्रितः ॥७०॥प्रणम्य दंडव ध्भूमौ यजमानो गुरुं पुनःवस्त्रैश्च धनधान्यैश्च गोभूमिकनकैस्तधा ॥७१॥पंचांग भूषणं दद्याद्दासीदासां स्तधैव चतोषये द्रथकारांश्च वस्त्रान्न धनधान्यकैः ॥७२॥स्थूपिकाकीलविधिःस्तूपिकाकील मधुना वक्ष्यामि कमलाननलोहजं दारुजं दा पि स्थूपिकाकील मिष्यते ॥७३॥विमानकंठतुलित मत्यर्थं द्विगुणं तु वायुग्मं स्यास्थूपिकाकील मपुनर्भव कांक्षिणः ॥७४॥इत रेषा मयुग्मं स्यात् स्थूपिकाकीलाल्पनम्प्रदोषे समरुप्राप्ते गर्तं कुर्यात्तु स्थूपिके ॥७५॥वृत्तं वा चतुरश्रं दा कारयेद्गर्त मुत्तमम्पुण्याहं वांचयेद्गर्ते नवरत्नानि विन्यसेत् ॥७६॥क्षिप्त्वागर्ते तत स्थूपिं पाङ्मुखो मूलविद्ययाआचार्य स्थ्सापये स्थूपीं पंचागाकल्पभूषितम् ॥७७॥सुधया स्थूपिकाकीलं दृढं कुर्या दनंतरम्शिखाकुंभस्थापनंशिखाकुंभं सुवर्णं वा राजितं ताम्रमे ववा ॥७८॥पैत्तळं मृण्मयं वापि स्थापये त्तक्षणेशुभेशिखाकुंभस्य शिरसि स्थापये द्विष्णुचक्रकम् ॥७९॥इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तम संहितायांआलयलक्षण मूर्थेष्टका विधानं नामचतुर्थोध्यायः N/A References : N/A Last Updated : January 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP