संस्कृत सूची|संस्कृत साहित्य|संहिता|पुरुषोत्तमसंहिता| सप्तविंशोध्यायः पुरुषोत्तमसंहिता प्रथमोध्यायः द्वितीयोध्यायः तृतीयोध्यायः चतुर्थोध्यायः पंचमोध्यायः षष्ठोध्यायः सप्तमोध्यायः अष्टमोध्यायः नवमोध्यायः दशमोध्यायः एकादशोध्यायः द्वादशोध्यायः त्रयोदशोध्यायः चतुर्दशोध्यायः पंचदशोध्यायः षोडशोध्यायः सप्तदशोध्यायः अष्टादशोध्यायः एकानविंशोध्यायः विंशोध्यायः एकविंशोध्यायः द्वाविंशोध्यायः त्रयोविंशोध्यायः चतुर्विंशोध्यायः पंचविंशोध्यायः षड्विंशोध्यायः सप्तविंशोध्यायः अष्टविंशोध्यायः एकानत्रिंशोध्यायः त्रिंशोथ्यायः एकत्रिंशोथ्यायः द्वात्रींशोधायः त्रयत्रिंशोध्यायः पुरुषोत्तमसंहिता - सप्तविंशोध्यायः पुरुषोत्तम Tags : purushottam samhitasamhitasanskritपुरुषोत्तम संहितासंस्कृतसंहिता संवत्सरोत्सवविधिः Translation - भाषांतर वसंतोत्सवःश्रीभगवान्[अधिकपाठाणिअधातस्सं प्रवक्ष्यौमि संवत्सर व्रतक्रमं]वसंतदेव तृप्त्यर्थं वर्षादौ पूजयेद्धरिंविधिवत्स्नपनं कृत्वा (नूतनांबरभूषणैः)नवाभरण वस्त्रकैः ॥१॥वसंतऋतु संप्राप्तैः पुष्पमाल्यैर्मनोहरैःअलंकृत्य तदोदेवं दक्षिणामुख मर्चयेत् ॥२॥मंदिरेवापि चोद्याने नदीतीरे यथारुचिदेवमभ्यर्च्य गंथाद्यैः फलादीनि निवेदयेत् ॥३॥श्रीरामनवम्युत्सवःचैत्रेमासि सितेपक्षे नवम्या च पुनर्वसौश्रीरामजन्मदिवसे देवदेवं जगत्पतिम् ॥४॥नपभिः कलशैस्स्नाप्य हविरंतं नमर्चयेत्सीतालक्ष्मण संयुक्तं हनुमत्सहितं विभुम् ॥५॥श्रीरामं डोलिकादौतु विन्यस्योत्सव माचरेत्दमनोत्सवःचैत्रमासेतु पौर्णम्यां कुर्याद्दमनिकोत्सवम् ॥६॥पुषैस्तु मंटपं कृत्वादमनीदळसंयुतैःअलंकुर्यात्ततोदेवं पुष्पैर्दमनिकादळैः ॥७॥संपूज्य विधिनाकुर्याद्धोमंद मनिकादळैःनृसिंहजयंतीचैत्रे श्रवणनक्षत्रे सायं काले नृकेसरिः ॥८॥भूमावाविरभूत्तस्माद्देवं तस्मिन् विशेषतःअर्चयित्वा विशेषेण शीतलादीन्नि वेदयेत् ॥९॥नीराजनं ततोदत्वा स्तोत्रैस्संचोषयेद्धरिम्कल्हारोत्सवःकल्हारकुसुमै रेव देवस्योत्सव माचरेत् ॥१०॥वैशाखे शुक्लपक्षेतु पौर्णमास्यां यधाविथिचतुस्थाणचननं कृत्वा ग्रामोत्सव मधाचरेत् ॥११॥दिवसे पूर्वभागे वामध्येह्नेत्सचोपं हितत्वामनजयंतीनक्षत्रे श्रवणेचैव पूर्वाह्नेतु त्रिविक्रमः ॥१२॥प्रादुराशीत्तदातस्य चोत्सवं कारयेद्द्विजःहनुमज्जयंतीहनुमज्जन्मनक्षत्रे सीताराघवसंयुतम् ॥१३॥मारुतिं विथिवत्स्नाप्य विशेषोत्सव माचरेत्स्वापोत्सवःआषाढेतु सितेपक्षे द्वादश्यां देवमर्चयेत् ॥१४॥शयनार्थं तु देवस्य मासेषु च चतुष्वपिविविक्तेभिमते देशे पर्यंकं (पर्यंकंकारयेद्गुरुः) तत्रकारयेत् ॥१५॥देवीभ्यां सहदेवेशं शाययित्वार्चतेत्ततः[अथिकपाठाणिशय्याबेरेतु कुर्वीतस्वापं देशिकसत्तवं]बोधनैकादसीयावत्ता वत्कालं प्रपूजनं ॥१६॥श्रीकृष्ण जन्मोत्सवःश्रावणे कृष्णपक्षेतु रोहिण्यामष्टमीतिथौश्रीकृष्णभगवज्जन्म (तस्मिन्)दिनेशौरिं समर्चयेत् ॥१७॥स्नपनं तु यथाशक्ति ग्रामे कुर्यान्महोत्सवम्येतद्दिवसमारभ्यमासं पक्षं नवाहकं ॥१८॥सप्ताहं वाधपंचाहं त्य्रहमेकाहमेववाश्रीकृष्णलीलानटकैः ग्रामोत्सवमधाचरेत् ॥१९॥प्रतिनित्यं विशेषार्चा माचरेत्तु यधावसुवराहजयंतीमासे भाद्रपदेचैव श्रवणर्क्षं गतेशशिः ॥२०॥आविरासीद्भूवराहो विशेषॆणार्चयेच्चतंस्नपनं चोत्सवं चैव पूर्वोक्तेन विधानतः ॥२१॥वीरलक्ष्म्यित्सवविधिःअधचाश्वयुजेमासि वीरलक्ष्म्योत्सवं चरेत्प्रतिपद्दिनमारभ्य नवाहोत्सव माचरेत् ॥२२॥संस्नाप्य कलशैर्नित्य मलंकृत्यतु देशिकःचतुस्थानार्चनं कृत्वा हविरंतं प्रपूज्यच ॥२३॥यानेदेवीं समारोप्य देवं ग्रामप्रदक्षिणंएवं प्रतिदिनंकृत्वा नवम्यां कुंभतोयतः ॥२४॥प्रोक्षयेन्नित्यपूजांते देवीं देवेनपूजयेत्विजयदशमीदशम्या मश्वमारोप्य देवं ग्रामप्रदक्षिणं ॥२५॥नीत्वाशमीं समासाद्य तन्मूलेस्थाव्ययानकंविष्वक्सेनं तु संप्रूज्य पुण्याहं वाचयेत्ततः .॥२६॥प्रोक्ष्यपुण्याहतोयेन धनुर्भाणौ प्रपूजयेत्पूर्ववद्बाणमोक्षंतु कृत्वा देवं चपूजयेत् ॥२७॥शमीपत्रधारण फलं.शमीपत्राणि संगृह्य पूजये द्देवपावयोःदेपस्य पदविन्यस्थ शमीपत्राणियेनराः ॥२८॥शिरसाधारयिष्यंति ते धृवं मुक्तकिल्बिषाःवैभवेनततो देवं नयेद्देवालयं प्रति ॥२९॥आस्थानमंटपेभ्यर्च्य स्नपनं कारयेत्ततःमंदिरे संप्रविश्यैव नित्योत्सव मधाचरेत् ॥३०॥दीपावळ्युत्सवः नरकचतुर्दशीमासिचाश्वयुजे कृष्णेचतुर्दस्यां हरिःपुरानरकं संहरत्त स्मात्तन्नाम्नेत च्चतुर्दशी ॥३१॥एतस्यां देवदेवंतु सतैलाभ्यं जनेसतुसंस्नाप्य नूतनैर्वस्रै रलंकृत्य विभूषणैः ॥३२॥चतुर्विधानि चानान्नि पानीयानि समर्पयेत्दीपावळीअमावास्यांतु सायाह्ने नित्यपूजांविधायच ॥३३॥देवालयेषु स्तंभेषु प्राकारे गोपुरेषु चदीपानां पंक्तयस्थ्साप्यनानाकारैः पृधक् पृधक् ॥३४॥ततोदेवंतु देवीभ्या मारोप्य गजवाहनेछत्रचामर वाद्यैश्च भटसंघैश्च सायुधैः ॥३५॥प्राकारेवापि ग्रामेवा कारयॆ दुत्सवं ततःदेवं प्रवेशयेद्धाम्नि महताविभवेनतु ॥३६॥बोधनोत्सवःकार्तिके शुक्लपक्षेतु द्वादस्यां बोदयेद्दरिं.उत्तिष्ठयितिमंत्रेण वाद्यघोषापुरस्सरं ॥३७॥ततो देवं तु संस्नाप्य पंचविंशतिभिर्घटैःहोमंतु विधिनाकृत्वा चा भ्यर्च्यविधिचोदितं ॥३८॥उत्सवं तुप्र कुर्वीत यधाविभविस्तरैःकृत्तिकादीपोत्सवःकार्तिक्यां वह्निनक्षत्रे रोहिण्यां वापरेहनि ॥३९॥पौर्णमास्यां वृषॆलग्ने दीपारोपण माचरेत्तदर्थं कौतुकं बद्ध्वा धान्यराशौ यथाविधि ॥४०॥देपस्यंतु पुरोभागे दीपपात्रंतु विन्यसेत्लोहजंमृण्मये वाधतत्प्रात्रेगोघृतंक्षिपेत् ॥४१॥अभावेतिलतैलं वाचान्यधादोष माप्नुयात्ऋजवर्तिंततोन्यस्य ज्वालयेद्धोमवह्निना ॥४२॥अग्निमंत्रं ततोजप्त्वा दीपमभ्यर्च्यभक्तितःतद्दीपेनैवसर्वांश्च दीपानारोपये द्द्विजैः ॥४३॥परिचारैश्च भक्तैश्च नानावाद्य पुरस्सरम्देवंयाने समारोप्य दर्शये द्दीपमालिकाः ॥४४॥महाहविर्नि वेद्याधचापूपान् पृथुकानपिनिवेद्य गमयेद्देवं मंदिराभ्यंतरं ततः ॥४५॥धनुर्मासोत्सवःधनुर्मासेतु संप्राप्ते देवदेवं प्रपूजयेत्अरुणोदयवेळायां मुद्गान्नादीन्नि वेदयेत् ॥४६॥मासांतमेवं कृत्वातु तस्मीन्विंशद्दिनेषुचमंटपे देवमास्थाप्य कुर्यादध्य यनोत्सवम् ॥४७॥ऋग्वेदं पूर्वदिग्भागे यजुर्वेदंतु दक्षिणेपश्चिमे सामवेदंतु अधर्वं चोत्तरेतथा ॥४८॥इतिहासं चाग्निदेशे नैऋत्यां स्तोत्रमुच्यतेधर्मशास्त्रंतु वायुव्ये चैशान्यां मंत्रपाठकं ॥४९॥भकैर्विरचितैस्तोत्रे र्देशभाषारुसारिभिःएवमादिभिरन्यैश्च कारयेदुत्सवं महत् ॥५०॥तिलपद्मोत्सवःमाघशुक्लेतु पंचम्यां तिलपद्मोत्सवं भवेत्देवस्य पुरतोभागेगोमयालिप्तभूतले ॥५१॥रंगवल्यादिकं कृत्वा (वस्त्रेणाच्छाद्यदेशिकः)वस्त्रेणाच्छादयेत्ततःकृष्णाजिनं ततोन्यस्य विष्णुसूक्तं जपन्गुरुः ॥५२॥पुनर्वस्त्रं समास्तीर्य तिलान् तस्योपरिन्यसेत्द्वौभारंचैक भारं वा समास्तीर्यतिलोपरि ॥५३॥धान्यपूर्णानि पात्राणि द्वेद्वे प्रतिदिशं न्यसेत्तैलघृतदध्यादिकुंभानांस्थापनंदक्षिणे प्रस्थतैलेन पूरितं कुंभ मुत्तरे ॥५४॥तत्प्रमाणाज्य सहितं कुंभमन्यं निवेशयेत्दद्नाप्रस्थचतुष्केन पूरितं कलशं न्यसेत् ॥५५॥पुरोभागेततोगंध पुष्पाद्यैः पूजयेत्ततःपद्ममध्ये श्रियोपेतं गरुडादि समन्वितम् ॥५६॥[अधिकपाठानिदेवं संपूज्यविधिवद्देशिको श्रद्धयान्वितः]तिलैस्सहस्रं जुहुयादचार्योमूलविद्ययातत्पद्मं भक्तितो दद्याद्देवाग्रे वारिपूर्वकम् ॥५७॥प्रियतां भगवान् विष्णुरितिमंत्रं समुच्चरन्एवमुक्त प्रकारेण तिलवद्मं ददातियः ॥५८॥आत्मानं च पित्रून् सर्वान् पुनाति च परावरान्श्रीमहालक्ष्मुत्सवफाल्गुणे शुक्लफल्गुण्यां महालक्ष्म्योत्सवं (चरेत्)हितम् ॥५९॥तदर्थंमंटपं कुर्या चतुर्द्वार समन्वितम्तत्रसिंहासने स्थाप्य पद्मेष्टदळसंयुते ॥६०॥नीलमेघ निभं विष्णुं सुखासीनं श्रियासहवासुदेवादिकान् दिक्षु पूजये (त्क्रमयोगतः)त्कमलासन ॥६१॥विदिक्षुहस्तिन श्चैव स्वर्णपीठस्य पार्श्वयोःपूजनीयौनिधीतत्र इंद्रादीन्परितो यजेत् ॥६२॥द्वारतोरणकुंभा दीनभ्यर्च्य विधिपूर्वकम्ततो गुरुर्महालक्ष्मीं पूजये द्विष्णुनासह ॥६३॥पद्मबिल्वदळाद्यैश्च चरुणापायसेनचद्वादशाक्षरमंत्रेण श्रीदेव्याहोममाचरेत् ॥६४॥जपेयुः ऋत्विजोदिक्षु श्रीसूक्तानि यधाक्रमम्लक्ष्मीस्तोत्रान् पठेत्तत्र भक्तियुक्तेनचेतसा ॥६५॥इत्येवं पूजयेद्देवं वत्सरांतं यथाविधिराजाराष्ट्राभिवृद्धिस्या द्दुर्भिक्षं हरतेधृवम् ॥६६॥इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तम संहितायांसंवत्सरोत्सवविधिर्नाम सप्तविंशोध्यायः N/A References : N/A Last Updated : January 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP