संस्कृत सूची|संस्कृत साहित्य|संहिता|पुरुषोत्तमसंहिता|

पुरुषोत्तमसंहिता - विंशोध्यायः

पुरुषोत्तम

ततःप्रभाते पुण्यर्क्षेवारे निर्णीतलग्नके
द्वारवास्तु होमं गर्तस्थापनक्रमः
(प्रतिष्ठां देव देवस्य प्रकुर्वी तद्विजोत्तमः) देवप्रतिष्ठां कुर्वीत यजमानेनदेशिकः ॥१॥
तत्पूर्वेवास्तु होमं तु कुर्याद्द्वारन्य दक्षिणे
गर्भमंदिर मध्यस्थ पीठगर्तेषु शास्त्रतः ॥२॥
रत्नन्यासं प्रकुर्वीत प्रथमावरणेष्टसु
गर्तेषु बीजान्यष्टौच निक्षिपे (त्तदनंतरे)त्तदनंतरम् ॥३॥
रत्नानि च तृतीयेतु धातूं श्च स्धापयेद्भुधः
चतुर्थेचाष्ट (लोहानि)लोहां श्च मध्यगर्तेतु विन्यसेत् ॥४॥
पारदं ब्रह्मरागं च सुवर्णं शालिबीजकम्
तदूर्ध्वे स्त्रीशिलापीठं स्थापयित्वा (द्विजोत्तम) विचक्षणः ॥५॥
सुधयासु दृढीकृत्य पुण्याहं वाचयेत्ततः
अष्टधान्यानि
व्रीहय श्च यवा श्चैव निष्पावा श्च प्रियंगवः ॥६॥
नीवाराश्शालयोमाषाः तिलाश्चाष्टौ प्रकीर्तिताः
अष्टरत्नानि
वैडूर्यं मौक्तिकं चैव जलजं वज्रमेवच ॥७॥
पुष्यरागं चंद्रकांतं स्फटिकं चैंद्रनीलकम्
अष्टधातपः
एतान्यष्टौच रत्नानि हरिताळं मनश्सिला ॥८॥
सौराष्ट्रं रोचनं श्यामं सीसं गैरिकमंजनम्
धात्वष्टकमितिप्रोक्तं क्रमेणैव निनेशयेत् ॥९॥
न्यासक्रमः
स्त्रीशिलापद्म मध्येतु प्रणवन्यासमाचरेत्
कर्णिकायां स्वराण्येप व्यंजनानि दळेषु च ॥१०॥
विमलादीनिते ष्वेवन्यासं कुर्या द्यधाविधि
ततश्च पिंडिकां गंधैःपुष्पैरभ्यर्चयेत्क्रमात् ॥११॥
पिंडिकायां श्रियं ध्यात्वा आहतेनैववाससा
प्रच्छाद्यचास्त्रं विन्यस्य द्वारेद्वारे यथाविधि ॥१२॥
अत्न्यद्वास नादि
ततोगुरु स्समागत्य ध्वजतोरण देवताः
विसृज्यचाग्निंहृदयेत्वारोव्य ब्राह्मणैस्सह ॥१३॥
समुद्धरे न्महाकुंभं मूर्ति कुंभां न्ततःपरम्
मूलादि सर्वबिंबानि मूर्तिपैर्वाहयर्गुरुः ॥१४॥
गळंतिकां स्वयं धृत्वातो यधारापुरस्सरम्
(शंखभेर्यदिना द्वैच शुभघोषैश्च सर्वभिः) शंखभेर्यादिघोषैश्च मंगळै र्विविधै रपि ॥१५॥
ध्वजछत्रपताकाद्यैः जयघोषैश्च चामरैः
वेदपाठै स्तोत्रजालैर्हरिसंकीर्तनादिभिः ॥१६॥
प्रदक्षिणक्रमेणैव (चालयंसं प्रवेशयेत्)प्रविशेद्गर्भमंदिरम्
द्वारेतुदेव मर्घ्याद्यैरर्चये द्देशिकस्स्वयम् ॥१७॥
भगवतो स्थापन विधिः
पीठप्रदक्षिणेनैव देवमंतः प्रवेशयेत्
मुहूर्ते शोभने प्राप्ते स्थापये द्देवमव्ययम् ॥१८॥
धृवा द्यौरिति मंत्रेण चात्वाहारुषमितृचा
प्रतिष्ठासीति वैसाम्ना पिंडिकानाळमध्यतः ॥१९॥
अष्टबंधेन चा पूर्यबिंब शंकुं निवेशयेत्
पौरुषं सूक्तमुच्चार्यकर्मार्चांपुरतोन्यसेत् ॥२०॥
तत्पुरश्चोत्स वार्चांच दक्षिणे शयनं बलिम्
उत्तरे स्नपनं तीर्थं लौकिका निष्टभूमिषु ॥२१॥
एवं संस्थाप्य देवेश माराधन मधाचरेत्
आराधनविधिः
मूलबेरस्य पुरतो बद्ध्वा पद्मासनं गुरुः ॥२२॥
प्राणायामत्रयंकृत्वाध्यायेद्ब्रह्मंसनातनम्
तं विष्णुं हृदये पद्मे मानसं यागमास्थितः ॥२३॥
अभ्यर्च्य चश्रिया भूम्या मंत्रेण पुरुषात्मना
अंजलिस्थित पीठेतु समावाह्यहरिं ततः ॥२४॥
तद्विष्णुं प्रतिमायां तु विन्यसेत्सु समाहितः
निवृत्तिमंत्रमुच्चार्य तस्मिन्बिंबेस्थितं स्मरेत् ॥२५॥
प्रणम्य स्वागतं दत्वामुत्रांबद्ध्वाच दर्शयेत्
सृष्टिस्थितिलयेष्वेकं न्यासं कुर्या द्यथाविधि ॥२६॥
श्रियादीनां प्रोक्षणं अग्नि प्रतिष्ठा
श्रियादीनां च (देवीनां)देवानां महाकुंभ जलेनवै
प्रोक्षयेत्स्व स्वमंत्रेण षडंगन्यस(पूर्वकं)माचरेत् ॥२७॥
स्थापये द्गार्हपत्याग्निं कुंडेधिश्रवणेषु च
देशिको यजमानेन प्रह्वस्तिष्ठन्‌ कृतांजलिः ॥२८॥
देवस्य पुरतः स्थित्वागाधामेनामु दीरयेत्
स्तोत्रपाठः
भक्तवत्सल भक्ताना मभिप्रेतार्थसाधा ॥२९॥
प्रार्थयेत्वा महं देव मदनुग्रह काम्यया
सन्निधत्स्वचिरं स्थाने कल्पितेश्रद्धया मया ॥३०॥
प्रसीददेवदेवेश पूजामपि गृहणमे
ग्रामस्य राज्ञो राष्ट्रस्य प्रजाना मिंदिरावर ॥३१॥
देहितुष्टिंच पुष्टिंच गतिं च परमां तधा
इतिविज्ञाप्य देवाय यजमानः प्रसन्नधीः ॥३२॥
शाश्वत पूजार्धं देवनाम्ना अर्चकस्य भूदान प्रदान क्रमः
आचंद्रार्क मविच्छिन्न पूजनार्धं मधुद्विषः
क्षोणीं सस्य जलोपेतां देवनाम्ना विलिख्यच ॥३३॥
अर्चकस्य कुटुंबस्य जीवनार्धं प्रकल्पयेत्
ततोर्चकं समाहूय कर्तादेवस्य सन्निधौ ॥३४॥
कृतांजलि पुटो भूत्वा विज्ञापन मधाचरेत्
देवस्याराधनार्थं च त्वत्कुटुंबस्य वृत्तये ॥३५॥
मयादत्ता मिमां भूमिंगृहाणेतिबृवन्‌ ततः
शिलायां ताम्रपत्रेवा लिखित्वादानशासनं ॥३६॥
अर्चकस्य करे दद्यात् सहिरण्यफलोदकम्
यदिवार्चक नाम्ना वाकृत्वाक्षोणीं प्रदापयेत्‌ ॥३७॥
देवस्य नाम्ना भूदान मुत्तमं फलचक्षते
अर्चकस्य भवे न्नाम्ना मध्यमं फलमुच्यते ॥३८॥
भूदानमेव कुर्वीत भृतकं सकदाचन
भूदानेन विनायस्तु भृतकं प्रददातिचेत् ॥३९॥
तस्य वंशक्षयं याति तस्यायुश्श्रीश्च नश्यति
नवै देवलकानामा सर्वकर्म बहीष्कृतः ॥४०॥
तस्मात्सर्व प्रयत्नेन भूमीमेव प्रदावयेत्
स्थानाचार्यादिक नियोजनं
भगवत्बादतीर्थांबु सेवनार्थं वरेत्ततः ॥४१॥
स्थानाचार्यं च तत्थ्साने हस्तकं च नियोजयेत्
अध्यापकान् नृत्तगीत वाद्यकान् परिचारिकान्‌ ॥४२॥
स्थानशुद्धि करानन्यान्‌ पात्रशुद्धिकारां स्तथा
देवपूजाभिवृद्ध्यर्थं तांस्तां श्च नियमेत्ततः ॥४३॥
एतेषां जीवनार्थं च भूमिं दद्याद्य धावसु
तान्‌ सेवासु नियुज्याध तत्तन्ना मभिरेवसचः ॥४४॥
परिचारकवर्गैश्च यःप्रतिष्ठापये द्विभुम्
सयाति परमं स्थानं तत्रास्ते भगवानिव ॥४५॥
यजमानस्य विभवे सर्वानेतान्पृकल्पयेत्
नोचे दर्चक मेकं वा वरये द्भक्तितो द्विजः ॥४६॥
संपूर्णफल माप्नोति यावदाभुत संप्लवम्
आचार्य दक्षिणादि
अन्वेषां चैव भक्तानां नृत्तगीतादि कुर्वताम् ॥४७॥
सर्वेषां ऋत्विजां चैव यतीनां विदुषां तथा
यथावित्तानुसारेण तोषये च्च पृधक् पृधक् ॥४८॥
यजमानस्ततो भक्त्या कल्पिते विष्ठरे तथा
प्रतिष्ठापक मायार्यं प्रतिष्ठांते समर्चयेत् ॥४९॥
सौवर्णकटीसूत्रैश्च केयूरैः कटकै स्तथा
मणिहारैः कुंडलैश्च रत्नजै रंगुळीयकैः ॥५०॥
क्षौमवस्त्रोत्तरीयैश्च जीवा जीव धनैस्तधा
तोषयित्वा यधान्यायं देववत्संस्मरन्‌हृदि ॥५१॥
यानादिके समारोप्य तूर्यघोष पुरस्सरम्
ग्रामप्रदक्षिणेनैव स्वगृहे संप्रवेशयेत् ॥५२॥
यएवं स्थापयेद्देवं (पांचरात्र विधानतः) पांचरात्रागमोक्ततः
सयातिपरमं स्थानं (पुरावृत्तिवर्जितम्) अपुनर्भवलक्षणम् ॥५३॥
पुनातिवंशजान् चैव पुरुषानेकविंशतिम्
इति संक्षेपतः प्रोक्तो प्रतिष्ठाकर्म(पद्मज) शोभनम् ॥५४॥
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तमसंहितायां
प्रतिष्ठाविधिर्नाम विशोध्यायः
श्रीश्रीश्री

N/A

References : N/A
Last Updated : January 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP