संस्कृत सूची|संस्कृत साहित्य|संहिता|पुरुषोत्तमसंहिता|

पुरुषोत्तमसंहिता - पंचदशोध्यायः

पुरुषोत्तम

पर्यग्नि करण विधिः
ततःपग्नि करणं तदर्थं ब्राह्मणंवरेत्
हस्तिहस्त समंस्थूलं पंचहस्तत्रिहस्तकम् ॥१॥
कुशकाशकृतंपुंजं त्रिमुखाग्रेणसंयुतम्
तत्पुंजंवास्तुहोमाग्नौ प्रज्वाल्यविधिपूर्वक ॥२॥
पर्यग्निमंत्रमुच्चार्य परिभ्रमणमाचरेत्
शालादि सर्वदेशेषु चालयादिषु सर्वतः ॥३॥
प्रदक्षिणक्रमेणैव वेदवाद्य पुरस्सरम्
पंचगव्यैस्ततः कुर्यात् प्रोक्षणं यागभूमिषु ॥४॥
पुण्याहवाचनं कार्यं ब्राह्मणैर्वेदपारगैः
शांतिसूक्तानधीयानैः प्रोक्षयेत्छुद्धवारिणा ॥५॥
दीपास्प्रज्वालयेत्तत्रगोघृतेनच पूरितान्‌
कृष्णागुरुमुखैर्गंधैर्धूपयेत्सर्वदिक्षुच ॥६॥
स्तंभान् संवेष्ट्यनासोभि श्शुभ्रवस्रैर्वितानयेत्
ध्वजैश्चसुपताकाभि र्मुक्ताहारैश्चपल्लवैः ॥७॥
अन्यैःपुष्सैर्भलैश्चैव मणिकांचनभूषणैः
नफलाःकदळीस्थंभैः क्रमुकै स्तोरणादिभिः ॥८॥
शोभयेन्मंटपं सर्वं यथावित्तानुसारतः
यागशालाजा
ततस्तु यागशालायाः पूजाकार्या चतुर्मुख ॥९॥
द्वाराणां पार्श्वयोःघात्वाद्वितालास्यवटानिवै
शेषुन स्तापयेत् स्थंभान्‌ तोरणार्धं यधाविधि ॥१०॥
अश्वद्धं पूर्वदिग्भागे याम्ये चौदुंबरं तथा
स्यग्रोधं पश्चिमॆद्वारे प्लक्षं चैवोत्तरेतधा ॥११॥
ध्वजव्दये स्थापनीयं प्रतिद्वारस्य पार्श्वयोः
व्राच्यांरक्तध्वजेस्था प्यौ पीतवर्णौच दक्षिणे ॥१२॥
पश्चमे नीलवर्णौ च उत्तरे पांडुरध्वजाः
स्थापयेत्पूर्ण कलशान्‌ सापिधानान्‌ सचवस्त्रकान् ॥१३॥
सरत्न हेम कूर्चांबु पूरितान्सूत्रवेष्टितान्
सुशोभवं सुबंधं च सुभद्रं च सुहोत्रकम् ॥१४॥
एते तोरणदेवा स्युः ध्वजाधीष्ठान देवताः
कुमुदः कुमुदाक्ष श्च पुंडरीक श्च वामनः ॥१५॥
शंखुकर्ण स्सर्पनेत्र स्सुमुख स्सुप्रतिष्ठितः
पूर्णश्च पुष्कर श्चैव आनंदो नंदएव च ॥१६॥
वीरसेनसुशेषेणौ च संभवप्रभवौततः
कुंभाधिदेवता ह्यॆतास्समावाह्ययजेत्क्रमा ॥१७॥
अष्टदिक्षुपताकासु दिगीशा स्त्रास्प्रपूजयेत्
अंतराळिका पूजा
आवाह्यपूजयेद्विद्पान् इंद्रेशा नांतरेवसून् ॥१८॥
हुदाशनेंद्रयोर्मध्यैरुद्रानावाह्यपूजयेत्‌
यमस्याग्ने रंतराळे आदित्यानर्चयेत्क्रमात्‌ः ॥१९॥
यमराक्षसयो र्मध्येसाथ्यान्संपूज्ययेत्सुधी
वरुणकोणपपध्ये तु अभ्यर्च मरुत्तः स्ततः ॥२०॥
मरुज्जलेशांतराळे अश्विनौ च प्रपूजयेत्
कुबेरमरुतोर्मध्ये विश्वान्देवा(न्यजेत्क्रमात्)प्प्रपूजयेत् ॥२१॥
ईशानसोमयोर्मध्ये चंदोदेवा सथार्चयेत्
एवं संपूजये त्तत्तद्देवताश्च यथाक्रमम् ॥२२॥
शिल्पशालागमनं शिल्पिपूजनंच
मध्याह्नॆ समये प्राप्ते ऋत्विग्भिस्सहदेशिकः
शिल्पिशालं रतो गत्वाप्रतिसा स्संपरीक्षयेत् ॥२३॥
मुहूर्तेशोभने प्राप्ते वैष्णवाना मनुज्ञया
शील्पीभिर्निर्मिते बिंबे शास्त्रदृष्टेन पर्त्मना ॥२४॥
परीक्ष्य लक्षणं सम्यक् क्षाळये त्बंचगव्यकैः
ततः प्रक्षाळ्यतोयेन गंधयुक्तेन देशिकः ॥२५॥
भूमौ सम्यक्समालिप्य पुष्पाणिविकिरेत्ततः
तत्रैवशाययेद्बिंबं शिल्पिनं पूजयेत्ततः ॥२६॥
धनैश्च कर्मानुगुणं स्थपतिं परितोषयेत्
नयनोद्घाटनं कार्यंशिल्पिना कुशलेन वै ॥२७॥
मानोन्मान प्रमाणशांति होमादीनि
गांच दत्वाप्रयत्नेन शील्पिनेतु यथाविधि
तथापराह्मसमये शांतिरोमं समाचरेत् ॥२८॥
मानोन्मानप्रमाणेख्यॊहानिर्याजायतेनृणाम्
सहानिर्विलयं याति शांतिहोमेकृते सति ॥२९॥
शमीपल्लवसंयुक्तै स्तिलैस्साज्त्येश्च्ररुं स्वयम्
सप्तव्याहृतिभिश्चैव प्रत्येकं जुहुयाद्गुरुः ॥३०॥
नृसूक्तेन चरुंपश्चात् जुहुयात्षोडशाहुतीः
पंचोपनिषदैर्मंत्रै स्सर्पिषाजूहुया च्छतम् ॥३१
प्रतिमासन्निधा वेव हुत्वा पूर्णा हुतिं तत
उपतिष्ठॆततदनु मंत्रेशानेन देशिकः ॥३२॥
नमस्तुभ्यं भगवते जातवेदस्वरूपिणे
नारायणाय हव्यस्य कव्यस्य च यधा तधम् ॥३३॥
भोक्त्रेयष्टव्यदेवानां आत्मने परमात्मने
सन्निधत्स्यचिरं देवप्रतिमायां हितायनः ॥३४॥
एवं विज्ञाप्यदेवेशं देवस्यत्वेति संस्पृशेत्
दुकूलशितशिद्धार्थयुक्त मूर्णामयेन तु ॥३५॥
सुवर्णेन तदा वेष्ठ्य बध्नीया द्दक्षिणेकरे
विष्णोरराटमंत्रेण सप्तवाराभिमंत्रितम् ॥३६॥
रथं वा कुंजरं वापि शिबिकां वायथारुचि
प्रतिमा स्सम्यगारोप्य ग्रामंकृत्वाप्रदक्षिणम् ॥३७॥
जलाधिवासविधिः
पांडुरै रातपत्रैश्च चामरै श्च सितैस्सह
चीनांशुकमयै च्छत्रैस्तबर्णमयै रपि ॥३८॥
व्यजनै रपि कल्याणै र्थ्वजैर्नानाविधैस्तधा
शंखदुंदुभिनिर्घोषौ (नृत्तगेयसमावृतैः)र्नृत्तगीतसमन्वितैः ॥३९॥
महूपचारै रपरैर्ब्राह्मणैस्सहदेशिकः
[अधिकपाठानि
तूर्यवादित्रनिर्घोषै र्वेदमंगळपाठकैः
जयघोषैश्च स्तुतिभिःभक्तैर्भागवतैस्सह.]
शनैश्शनैर्नयेद्देवं जलपार्श्वं यधोदितम् ॥४०॥
जलाधिवासदेशं तु संप्राप्य शिबिकादिभिः
(अवरोप्य जले देवं)अवरोप्य जलाभ्यर्णे प्रपायां सिंहविष्ठरे ॥४१॥
जलाधिवासयोग्यस्थलानि
प्राङ्मखं च समं स्थाप्य यद्वाकुर्यादुदङ्मुखम्
नदीषु देवखातेषु तटाके निर्घरेह्रदे ॥४२॥
संभवे सति कुर्वीत जलवासं यथाविधि
जलाधिवासानर्हस्थलानि
अल्पतोये स्मशाने च लवणोदकदूषिते ॥४३॥
चैत्यवृक्षसमीपे च नीचै रध्यासिते तथा
ऊषरे शैवलयुते वर्णांतरयुते तधा ॥४४॥
एवमादिषु दूष्येषु प्रतिमां नाधिवासयेत्
जलाधिवास प्रपा लक्षणं
जलमध्ये प्रपां कुर्या द्बहुस्तंभसमन्वितम् ॥४५॥
चतुर्द्वारसमायुक्तां चतुस्तोरणभूषिताम्
वितानध्वजसंयुक्तां दर्भमाला परिष्कृताम्.॥४६॥
सुक्तादामसमायुक्तां स्रग्विणीं धूपदीपिताम्
फलैर्नानाविधै र्युक्तां चतुरश्रांसुश्रोभनाम् ॥४७॥
जलाधिवासक्रमः
पुण्याहवाचना त्पूर्वं सद्यादिषु सुसंस्थिताः
आपःपुरुषमंत्रेच संजोष्यगुरु रात्मवान् ॥४८॥
आग्निमंत्रेण तत्तोयं संशोष्य तदनंतरम्
जलाद्यमृतबीयेन पुन रापूरयेद्गुरुः ॥४९॥
तस्मिन्‌ जले महापीठं प्रतिमायामसम्मितम्
काष्ठजं सुदृढं स्निग्धं(विन्यसे न्मूर्तिमंत्रतः)विन्यने च्चजलाशयये ॥५०॥
(मंगळास्तरणोपेतं) विन्यस्या स्तरणोपेतं सोपधानं नवं शुभम्
प्रकल्पयेद्योगपीठं तस्योपरि यधाक्रमम् ॥५१॥
ग्रंथपूष्पादिना पीठ मर्चयित्वा समाहितः
द्वारतोरणकुंभादी नर्चयेत्तदनंतरम् ॥५२॥
प्रतिमां पंचगव्येन पंचोपनिषदैः क्रमात्
स्नापयेत्प्राङ्मुखोभूत्वाशुद्धस्नानं समाचरेत् ॥५३॥
एवं कुर्या द्द्विधानेन घृतारोपण पूर्वकम्
आर्घ्यं पाद्यं तथाचामं वस्त्रं यज्ञोपवीतकम् ॥५४॥
भूषणानि च सर्वाणि द्वादशाक्षरविद्यया
दत्वाततोर्चां संहार मार्गेणैवतु संहरेत् ॥५५॥
तत्त्वसंहारक्रमं
संहारस्य क्रमं वक्ष्ये प्राङ्मुखो वा प्युदङ्मुखः
पूर्वं संहृत्य प्रागादीन् श्रोत्रादीन्‌चततःपरं ॥५६॥
शब्दादीं श्चततो ध्यात्वा पृथिव्यादीन्यथाक्रमम्
मन आदौ मन स्तत्वे महानव्यक्तं संज्ञके ॥५७॥
पृधिवी चाप्सुलीनास्या दग्नौ चापस्तथालयम्
अग्ने श्च वायु मार्गेषु आकाशे वायुतत्त्वकम् ॥५८॥
आकाशस्या दहंकारे अहंकारो महांतिके
मह दव्यक्तकेलीन मव्यक्तं चात्मनि स्थितम् ॥५९॥
एवं संहृत्यतत्त्वानि ध्यायेद्देव मनामयम्
च्छादयित्वा शुभैर्दर्भैर्नववस्त्रै स्रगादिभिः ॥६०॥
आपीठमौळिपर्यंतं निच्छिद्रं वेष्ठये द्बुधः
जलमध्यगतं पीठ माचार्यो मूर्तिपैस्सह ॥६१॥
शंखदुंदुभिनिर्षोषै रानयेत्प्रतिमास्ततः
उदङ्मुखं प्राक्सिरसं (प्रतिमा शाययेद्गुरुः)प्रतिमां शाययेत्ततः ॥६२॥
शयानस्य तु बिंबस्य दक्षिणे तु महाघटं
विन्यसे द्ब्रह्मबीजेन पूजांतॆनैव कारयेत् ॥६३॥
(दिक्पालकुंभान्‌ संस्थाप्य चाष्टदिक्षु च देशिकः) विन्यसे ल्लोकपालां श्च स्वासुदिक्षु च देशिकः
मंगळा न्यभित स्थाप्य शकळीकरणं ततः ॥६४॥
(जलं क्षीरार्णवं मत्वा) जलं क्षीरार्णवं ध्यात्वा पीठं शेषइति स्मरेत्
जलादु त्तीर्य मंत्रज्ञो (रक्षां कुर्या द्यधाविधि) रक्षांतत्रविनिर्दिशेत् ॥६५॥
दर्मयेच्चक्रमुद्रांच रक्षामुद्रां प्रदर्शयेत्
जलादिवास कालपरिमितिः नद्याद्यभावे जलवासविथिः
(त्रिरात्र मेक रात्रं वा यामं यामार्ध मेववा मूहूर्तकालमपि वा जलवासं विधीयते.)त्रिरात्र मेकरात्रं वा जलवासं समाचरेत् ॥६६॥
नद्याद्यभावे बिंबस्य जलाधिवसनं भवेत्
जलद्रोण्यां कटाहे वा समुधृत्य महाजलम् ॥६७॥
यधासंभव मन्यस्मिन्‌ मृण्मयादौत दिष्यते
सद्यो वा तोयवानं तु कुर्यात्तंत्रविचक्षणः ॥६८॥
इति श्रीपांचरात्रे महोपनिषदि श्रीपुरुषोत्तम संहितायां
जलाथिवासविधि र्नाम पंचदशोथ्यायः.
श्रीश्रीश्री

N/A

References : N/A
Last Updated : January 21, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP