संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
द्वाविंशोऽध्यायः

अनिरुद्धसंहिता - द्वाविंशोऽध्यायः

अनिरुद्धसंहिता


श्रीभगवान्---
मासोत्वविधिं वक्ष्ये समासाच्छृगु सांप्रतम्।
मासि मासि विशेषेण द्वादश्यां विषुवद्वये ॥१॥
नक्षत्रेषु च सर्वेषु श्रवणं चोत्तमं भवेत्।
तिथीनां द्वादशी श्रेष्ठा वाराणां शुक्रवासरम् ॥२॥
योगानान्तु व्यतीपातं करणानान्तु विष्टिकम्।
मासि मासि विशेषेण द्वादश्यान्तु समर्चयेत् ॥३॥
अमावास्यां पौर्णमास्यां मासार्धे वा समर्चयेत्।
द्वादश्यान्तु विशेषेण मण्डलाराधनं चरेत् ॥४॥
अमावास्यां विशेषेण कलशैस्स्नपनं चरेत्।
घृतं वा क्षीरमेव स्यान्नालिकेरजलं तु वा ॥५॥
उक्तद्रव्यमथो वापि यजमानेच्छया गुरुः।
श्रवणे तु विशेषेण चतुस्स्थानार्चनं चरेत् ॥६॥
मानसक्षेत्रेके ब्रह्मन् पत्रपुष्पादिकं न्यसेत्।
माघमासे तु माघर्क्षे दमनारोपणं चरेत् ॥७॥
फल्गुने मासि ऋक्षे च तुलस्यारोपणं चरेत्।
चैत्रे तु मासे ऋक्षे तु चम्पकाराधनं चरेत् ॥८॥
वैशाखमासे ऋक्षे च शतपत्रेण पूजयेत्।
ज्येष्ठमासे विशेषेण फलोत्सवविधिं चरेत् ॥९॥
अनूराधे तु विप्रेन्द्रामावास्यां श्रवणेऽपि वा।
स्नापयेत्सहस्रकलशैः तदर्धै र्वा तदर्धकैः ॥१०॥
अष्टोत्तरशतै र्वापि तन्न्यूनं न समाचरेत्।
उक्तद्रव्ययुतै र्वापि केवलं क्षीरमेव वा ॥११॥
घृतं वा केवलं विप्र नालिकेरजलं तु वा।
आषाढे मासि मासर्क्षे सहकारफलै र्यजेत् ॥१२॥
शयनं कारयेद्विप्र चातुर्मास्ये तु पूर्वतः।
श्रवणे मासि मासर्क्षे पूजयेत्कदलीफलैः ॥१३॥
तन्मासे तु द्वादश्यां पवित्रारोहणं चरेत्।
जयन्त्युत्सव मष्टम्यां श्रावणे कृष्णपक्षके ॥१४॥
भाद्रपदे मासि ऋक्षे पङ्कजाराधनं चरेत्।
आश्वयुजे मासि ऋक्षे श्वेतपद्मै स्समर्चयेत् ॥१५॥
तन्मासे तु विशेषेण शयनोत्थापनं चरेत्।
कार्तिके मासि मासर्क्षे दीपारोहणमाचरेत् ॥१६॥
तन्मासे सकले विप्र वृश्चिकाराधनं चरेत्।
मार्गशीर्षे मासि ऋक्षे गन्धालेपन माचरेत् ॥१७॥
तन्मासे पूर्वपक्षे तु वेदाध्ययन माचरेत्।
अध्ययनोत्सवं कुर्याद्दग वा सप्तकं भवेत् ॥१८॥
यद्वा पञ्च दिनं विप्र त्र्यहं वाथ समाचरेत्।
विंशद्दिनमथोवापि देवान् सर्वांश्च श्रावयेत् ॥१९॥
ब्राह्मणै र्मूर्तिमन्त्रैश्च वेदपारगतैरपि।
उत्सवं कारयेन्नित्यं वाहनं निजपूर्वकम् ॥२०॥
कुम्भमण्डलहोमं च वर्जयेत्तत्र कर्मणि।
पुष्ये मासि च मासर्क्षे हरिद्रालेपनं चरेत् ॥२१॥
तन्मासे तु विशेषेण वनभोजन माचरेत्।
तिलदानं माघमासे पितॄणां पिण्डमाचरेत् ॥२२॥
मासकर्म इति प्रोक्तं तद्विधानं प्रचक्षते।
पत्रपुष्पविधौ ब्रह्मन् पवित्रारोपणं चरेत् ॥२३॥
फलपूजादिकं विप्र पूरणं सम्यगाचरेत्।
गन्धपूजाविधौ ब्रह्मन् लेपनं सम्यगाचरेत् ॥२४॥
प्रथमञ्चाकुरं वापि मण्डपालंकृतिं तथा।
शुद्धस्नानं तृतीयञ्च चतुर्थे द्वारपूजनम् ॥२५॥
चतुस्स्थानार्चनञ्चैव पञ्चमं समुदाहतम्।
षष्ठं कौतुकबिम्बं स्यात्ततश्शयनकल्पनम् ॥२६॥
शयनाधिवासने चैव रक्षा कार्या ततः परम्।
प्रातस्स्नानं ततः कुर्यात् कलशैस्स्नपनं भवेत् ॥२७॥
द्वारपूजाविधानञ्च चतुस्स्थानार्चनं तथा।
निवेदनं बलिञ्चैव भूषणारोपणं तथा॥
भूषणारोपणं विप्र पूजायास्संपुटं भवेत्।
वेदघोषं ततः श्लोकदानं नीराजनं तथा ॥२८॥
गीतं वाद्यं तथा नृत्तं होमद्रव्यबलिं र्भवेत्।
यात्रोत्सवं ततः कुर्यात् तत्प्रसादप्रदापनम् ॥२९॥
पूजावरोहणं चैव पुनः पूजां समाचरेत्।
शुद्धस्नानं ततः कृत्वा तथास्थाननिवेशनम् ॥३०॥
दक्षिणां सुप्रदानञ्च इति कर्मक्रमं विदुः।
एतत्कर्मक्रमेणैव सर्वकर्माणि कारयेत् ॥३१॥
प्रथमं नाभिमानञ्च द्वितीयञ्चोरुमध्यगम्।
तृतीयं जानुमानन्तु चतुर्थं पादमानकम् ॥३२॥
पुष्पपत्रपवित्रेषु प्रमाणं परिकीर्तितम्।
कुम्भमण्डलकुण्डेषु एतन्मानमुदाहृतम् ॥३३॥
स्थूलमानं तथाप्रोक्तं देवीभ्यां नाभिमानकम्।
स्थूलया सङ्गबिम्बानां नाभिमानं प्रशस्यते ॥३४॥
भूषणायुधशक्तीनां तालमानं प्रशस्यते।
पूरणेतु विशेषेण मानं वक्ष्यामि सुव्रत ॥३५॥
प्रथमं पीठमानन्तु द्वितीयं जानुमानकम्।
तृतीयमूरुमध्यस्थं चतुर्थं कटिमानकम् ॥३६॥
कुम्भमण्डलकुण्डेषु शिवमानेन कल्पयेत्।
शिवं शिवद्वयञ्चैव विशिवञ्च चतुश्शिवम् ॥३७॥
केवलं प्रस्थामानेन उपकुम्भे प्रपूरयेत्।
मूलबिम्बे विशेषेण पूर्ववन्मानमीरितम् ॥३८॥
वासुदेवादिभिर्मन्त्रैः पूजयेद्देशिकः स्वयम्।
बलिकर्मणि विप्रेन्द्र मुष्टिमानं प्रचक्षते ॥३९॥
लेपने तु विशेषेण मानं वक्ष्यामि सुव्रत।
आकण्ठस्थानपर्यन्तं प्रथमं परिलेपयेत् ॥४०॥
स्थानान्नाभ्यवधि ब्रह्मन् द्वितीयं परिलेपयेत्।
नाभ्या कट्यवधि ब्रह्मन् तृतीयं परिचक्षते ॥४१॥
अक्षात्पादावधि यावत् चतुर्थं परिलेपयेत्।
आकण्ठान्नाभिपर्यन्तं देवीभ्यां मानमीरितम् ॥४२॥
पूरमे पादमानं स्यात् अन्येषां पादमानकम्।?
दमनारोपणात्पूर्वे मङ्कुरानर्पयेत् सुधीः ॥४३॥
मण्डपं समलंकृत्य पूर्वेद्युश्च निशामुखे।
कुम्भमण्डलकुण्डञ्च कारयेद्विधिचोदितम् ॥४४॥
चक्राब्जमण्जलं कृत्वा भद्रकाख्यमथापि वा।
यंत्रमण्डलकं वापि यजमानेच्छया गुरुः ॥४५॥
द्वारादियजनं कुर्यात् पुण्याहं वाचयेत्सुधीः।
स्नपनं कारयेद्धीमान् क्षीरादिद्वादशे घटे ॥४६॥
तद्बेरं समलंकृत्य विष्टरे सन्निवेशयेत्।
मण्डपस्य तु पाश्चात्ये कुम्भे संपूजयेद्धरिम् ॥४७॥
मण्डले पूजयेद्देवं नारायणमनामयम्।
बिम्बमभ्यर्चयेद्वीमान् होमकर्म समाचरेत् ॥४८॥
निवेदनं ततः कृत्वा तत्तत्स्थाने बलिं क्षिपेत्।
कौतुकं तण्डुले न्यस्य नीत्वा धामप्रदक्षिणम् ॥४९॥
भेरीनाद समायुक्तमाधारोपरि विन्यसेत्।
देवमभ्यर्च्य चार्घ्याद्यैः बन्धयेद्दक्षिणे करे ॥५०॥
पुनः पूजां ततः कृत्वा अपूपादि निवेदयेत्।
दमनाङ्कुरमाहृत्य क्षालयेच्छुद्धतोयकैः ॥५१॥
कदलीत्वविशेषेण दीर्घपत्रे पुरन्ध्रगैः।
वरंकारयेद्धीमान् पूर्वोक्तेनैव वर्त्मना ॥५२॥
पृथक् पात्रे निवेश्याथ अधिवासनमाचरेत्।
देवमण्डपयो र्मध्ये व्रीहिपीठं समाचरेत् ॥५३॥
तस्योपरि न्यसेत्पात्रं दहनाप्यायनं चरेत्।
सौरभेयीं प्रदर्श्याथ पूजयेद्गन्धपुष्पकैः ॥५४॥
किराटाद्यैश्च? मन्त्रैश्च पातयेदपरेण तु।
अधिवासजमादाय योजयेत्कुम्भमूर्धनि ॥५५॥
पूजया संपुटीकुर्यात् गीतवाद्यादिकं चरेत्।
अधिवासस्रजं? विप्र नाभिमानं प्रचक्षते ॥५६॥
शयने सन्निवेश्याथ रक्षां कुर्यात्समन्ततः।
ततः प्रभाते विमले स्नपनं सम्यगाचरेत् ॥५७॥
अष्टोत्तरशतै र्वापि एकाशीतिघटैस्तु वा।
स्नपनार्थे तु देवेशमानयेत्सिंहविष्टरे ॥५८॥
वर्धन्याञ्च ततो दद्यात् पूजया संपुटीकृतः।
गीतनृत्तादिकान् सर्वान् दर्शयेद्देवसन्निधौ ॥६०॥
नमस्कृत्य यथान्यायं स्तुत्वा देवं प्रणम्य च।
मण्डले योजयेत् पश्चात् कुम्भवद्देशिकोत्तमः ॥६१॥
मण्डलस्थं विशेषेण तत्काले संप्रवेशयेत्।
अङ्गानामप्युपाङ्गानां लाजान्तानामपि द्विज ॥६२॥
भूषणानां च शक्तीनां तथा च विहगेशितुः।
अर्घ्यादीनान्तु प्रात्राणां धूपदीपप्रकाण्डकैः ॥६३॥
मूलबेरे यथा कुर्यात् होमकुण्डे तथा भवेत्।
एवं कृत्वा विधानेन द्वारस्थानादीनां चरेत् ॥६४॥
आलयाङ्गस्थबिम्बानां चण्डादीनां विशेषतः।
एवंबिधानसंयुक्तं तत्तद्‌द्रव्यै र्बलिं क्षिपेत् ॥६५॥
अपराह्णे तु संप्राप्ते यानमारोप्य देशिकः।
धामप्रदक्षिणं कृत्वा वीथ्यावरणपश्चिमम् ॥६६॥
मण्डपे सन्निवेश्याथ सन्न्यासं चैव कारयेत्।
शुद्धस्नानं ततः कृत्वा दक्षिणां संप्रदापयेत् ॥६७॥
यतीनां ब्राह्मणादीनां प्रसादं परिदापयेत्।
यः करोति नरो भक्त्या स याति ब्रह्मणः पदम् ॥६८॥
अश्वमेधाष्टकं पुण्यं वाजपेयत्रयं तथा।
सर्वपापक्षयं चैव सर्वोपद्रवनाशनम् ॥६९॥
इति श्रीपाञ्चारात्रे महोपनिषदि अनिरुद्धसंहितायां
दमनारोपणं नाम द्वाविंशोऽध्यायः।

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP