संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
अष्टादशोऽध्यायः

अनिरुद्धसंहिता - अष्टादशोऽध्यायः

अनिरुद्धसंहिता


श्रीभगवान्--
अग्निकार्यमथो वक्ष्ये सङ्ग्रहान्मुनिसत्तम।
पचनालयमासाद्य द्वारमभ्यर्च्य साधकः ॥१॥
चुल्ल्यां दक्षिणतो विप्र होमकुण्डं समाचरेत्।
चतुरश्रं समंचैव योनिनाभिसमन्वितम् ॥२॥
मेखलात्रयसंयुक्तं पीठकादिसमन्वितम्।
कुण्डस्य दक्षिणे पार्श्वे आसने तु समाविशेत् ॥३॥
श्रीकरं विस्तरे पार्श्वे उल्लेखनमथाचरेत्।
पूर्वाग्रे त्रिभिरैखैश्च उत्तराग्रे तथैव च ॥४॥
पूर्वाग्रं याम्यसौम्यं स्यादुत्तराग्रं तु पश्चिमम्।
अग्निं समिन्धयेत्पश्चात् प्राणायाममथाचरेत् ॥५॥
दर्भैः परिस्तरेत्तत्र वासुदेवादिमन्त्रतः।
कुण्डस्योत्तरपार्श्वे तु दर्भैस्तत्र परिस्तरेत् ॥६॥
पात्राणां सादनं कुर्याद्वितयुग्मेन साधकः।
आज्यपात्रं तथा दर्वीं प्रोक्षणीं प्रणीतामपि ॥७॥
इध्मं दर्वीं विशेषेण साधयेन्मन्त्रवित्तमः।
प्रोक्षणीं पुरतो न्यस्य पवित्रं तत्र निक्षिपेत् ॥८॥
पूरयेज्जलपात्रेण तत्रोत्प्लावनमाचरेत्।
तज्जलैः प्रोक्षयेत्पात्राण्युत्तानं सम्यगाचरेत् ॥९॥
पुनश्च प्रोक्षणं कुर्यात् प्रणीतां पुरतो न्यसेत्।
उन्प्लावनं पूर्ववत्कृत्वा दर्भेण च विधानतः ॥१०॥
ललाटसममुद्धृत्य स्थापयेन्मेकलोपरि।
अग्नेरुत्तरपार्श्वे तु ब्रह्मकूर्चं विनिक्षिपेत् ॥११॥
ब्रह्माणमर्चयेद्विद्वान् अर्घ्यगन्धादिभिः क्रमात्।
आज्यपात्रं समादाय आज्यं निक्षिप्य साधकः ॥१२॥
अग्नेरुत्तरपरार्श्वे तु अङ्गारान्विभजेत्ततः।
विभज्योर्घ्वे प्रतिष्ठाप्य दर्भानादीपयेत्ततः ॥१३॥
दर्भाग्रौ तत्र निक्षिप्य पुनरादीप्य दर्शंयेत्।
आज्यपात्रं समुद्धृष्य अङ्गारान् सहयोजयेत् ॥१४॥
आदाय पुरतो न्यस्य उत्प्लावनं सम्यगाचरेत्।
कूर्चमग्रे विनिक्षिष्य सौरभेयीं प्रदर्शयेत् ॥१५॥
दर्वीमादाय सव्येन अपसव्येन दर्भकम्।
त्रिधा सन्तापयेद्विद्वान् दर्भानग्नै विनिक्षिपेत् ॥१६॥
परिधिं विन्यसेद्विप्र आज्यं दक्षिणमुत्तरे।
परिषेचनं क्रमात् कृत्वा ऊर्ध्वं विन्यस्य कोणयोः ॥१७॥
अनुयाजन्न्यसेद्विद्वान् प्रणीतां मुखमध्यमे।
इध्महोमं ततः कृत्वा आघारं जुहुयात्ततः ॥१८॥
अनिलाद्यग्निपर्यन्तमाघारं प्रथमं हुवेत्।
नैर्ऋतादीश पर्यन्तमाघारं तु द्वितीयकम् ॥१९॥
अग्नेस्सव्यापसव्ये तु अग्नेस्सोमेन हूयते।
देवीं देवं ततो दद्यादृतुसङ्गमनं परम् ॥२०॥
उभाभ्यामपि सञ्जातमग्निं च परिचिन्तयेत्।
होमान्तादिक्रियां? कृत्वा आज्येन द्विजसत्तम ॥२१॥
समिदाज्येन चरुणा प्रत्येकं षोडशाहुतीः।
जिह्वाहोमं ततः कृत्वा ज्ञात्वा शक्तिं च होमयेत् ॥२२॥
नित्यहोमं विशेषेण क्रमाद्वक्ष्ये विशेषतः।
अग्निं समिन्धयेत्पश्चात् प्राणायामं च कारयेत् ॥२३॥
परिषेचनं क्रमात्कृत्वा अग्निं ध्यात्वा समर्चयेत्।
समिदाज्येन चरुणा यद्वा आज्येन वा भवेत् ॥२४॥
मूलमन्त्रत्रयेणैव त्रिर्द्रव्यैः परिहोमयेत्।
द्वादशाष्टाहुतीर्वापि बलिं दद्यात्समन्ततः ॥२५॥
आत्मनः पुरतश्चैव पितॄणां पिण्डमाचरेत्।
दर्भैः परिस्तरेत्पश्चात् कबलत्रयमाचरेत् ॥२६॥
पितृमातृगणाभ्यां वै विश्वेदेवा अनन्तरम्।
कबलत्रितयं दद्याद्वामहस्तेन देशिकः ॥२७॥
जलपूर्वं प्रदद्यात्तु पश्चाद्वै परिषेचनम्।
पितॄणां संविभागेन देवदेवः प्रसीदति ॥२८॥
देवदेवप्रसादेन सर्वसिद्बिकरं भवेत्।
बलिकार्यं प्रवक्ष्यामि समासादवधारय ॥२९॥
बलिञ्च पूर्वतः कृत्वा पश्चादुत्सवमाचरेत्।
चरुपात्रं च पुष्पञ्च घण्टां वै धूपपात्रकम् ॥३०॥
बलिदाने विशेषेण शङ्खभेरीरवाकुलैः।
गर्भद्वारादि पीठान्तं बलिं दद्याद्विचक्षणः ॥३१॥
कुमुदादि गणानां च इन्द्रादीनां पृथक् पृथक्।
मुष्ट्या परिमितै र्द्रव्यैः त्रिर्दद्यात् बलिकर्मणि ॥३२॥
पूर्वमभ्यर्च्य चार्घ्याद्यै र्जलपूर्वं विनिक्षेपेत्।
घण्टाशब्देन संयुक्तं बलिवाद्येन संयुतम् ॥३३॥
चण्डं चैव प्रचण्डं च शङ्खपद्मनिधींस्तथा।
भद्रं चैव सुभद्रं च तथा धातृविधातृकौ ॥३४॥
जयं च विजयं चैव तत्तद्‌द्वा रेषु पूजयेत्।
शङ्खं चक्रं गदां पद्मं मुसलं खङ्गमेव च ॥३५॥
शार्ङ्गं च वनमालां च अन्तरावरणे स्थितान्।
कुमुदं कुमुदाक्षञ्च पुण्‍डरीकं च वामनम् ॥३६॥
शङ्कुकर्णं सर्वनेत्रं सुमुखं सुप्रतिष्ठितम्।
इन्द्रमग्निं यमं चैव निर्ऋतिं वरुणं तथा ॥३७॥
वायुं सोमं तथैशानं तृतीयावरणे स्थितम्।
विस्वेश्वरं च दिग्भागे क्षेत्रपालबलिं ददेत् ॥३८॥
पीठोपरि विशेषेण सर्वभूतबलिं क्षिपेत्।
एवं दत्वा विधानेन नित्योत्सवमथाचरेत् ॥३९॥
बलिबिम्बं समादाय यानमारोष्य देशिकः।
छत्रचामरसंयुक्तं बहूदीपसमन्वितम् ॥४०॥
अनेकैः परिकरैर्युक्तं गीतवाद्यसमन्वितम्।
आनयेद्देवदेवेशं प्रादक्षिण्येन मन्दिरम् ॥४१॥
एकधा वा द्विधा वापि त्रिधा वापि परिभ्रमेत्।
बलिपीठं परिभ्राम्य पूर्वपार्श्वे स्थितिं चरेत् ॥४२॥
गीतं नृत्तं च वाद्यं च श्रावयेद्देवदेवकम्।
गमयेन्मन्दिरं प्राज्ञो मण्डपे सन्निवेशयेत् ॥४३॥
पूजयेच्च निवेद्यान्त मर्घ्यगन्धादिना तथा।
अर्घ्यं पाद्यं तथाचामं गन्धं पुष्पं च धूपकम् ॥४४॥
दीपं निवेदनञ्चैव ताम्बूलं गीतवाद्यकम्।
स्वस्थाने सन्निवेश्याथ विष्वक्सेनं प्रसादयेत् ॥४५॥
अर्घ्यादिदीपपर्यन्तं पूजयित्वा विचक्षणः।
निवेद्यस्यैकपात्रं तु विष्वक्सेनाय दापयेत् ॥४६॥
तच्छेषं देवतावृन्दै र्मुक्तमन्यो न संस्पृशेत्।
प्रदक्षिणं ततः कृत्वा प्रणिपत्य जनार्दनम् ॥४७॥
स्वगृहे संप्रबिश्याथ अनुयागं समाचरेत्।
आचार्ये भोजनाद्धीने देवपूजा च निष्पला ॥४८॥
यथाचाग्निमुखे भुङ्क्ते देवकारिमुखे हरिः।
आचार्ये सुप्रसन्ने तु देवदेवः प्रसीदति ॥४९॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
अग्निकार्यबलिप्रदानविधिर्नाम अष्टादशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP