संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
पञ्चमोऽध्यायः

अनिरुद्धसंहिता - पञ्चमोऽध्यायः

अनिरुद्धसंहिता


भगवान्--
विष्णुयन्त्रमथो वक्ष्ये शृणुष्व मुनिपुङ्गव।
पुण्यक्षेत्रे बिशेषेण देवतायतनेषु च ॥१॥
पर्वताग्रे नदीतीरे गोष्ठे शुद्धगृहेपि वा।
मण्डपं कारयेद्धीमान् षोडशस्तम्भसंयुतम् ॥२॥
लृप्तमण्‍डपमध्ये वा वेदिं कृत्वा प्रमाणतः।
गोमयालेपनं कृत्वा तन्मध्ये यन्त्रमालिखेत् ॥३॥
तालमानप्रमाणेन प्रणवं पूर्वमालिखेत्।
षट्कोणं तद्वहिः कल्प्य ब्रहिर्वृत्तसमन्वितम् ॥४॥
अर्धाङ्गुलप्रमाणेन वृत्तमालिख्य पूर्ववत्।
चतुरङ्गुलमानेन वृत्तमुल्लिख्य साधकः ॥५॥
तस्मिन्नेव विशेषेण अष्टपत्रं समालिखेत्।
तन्मानेन बहिः कुर्यादष्टकोणं समालिखेत् ॥६॥
अन्तः कोणेषु षड्वर्णं बहिः कोणेष्टवर्णकम्।
तद्वहिः केसरं प्रोक्तं तद्बहिष्षोडशच्छदम् ॥७॥
द्वादशाश्रं बहिः कुर्यात् द्वादशाक्षरमालिखेत्।
केसरं च तथा कुर्याद्वात्रिंशच्छदमालिखेत् ॥८॥
पत्राच्छतगुणं विप्र केसरं संप्रकीर्तितम्।
चक्रं तु तद्बहिः कुर्यान्नाभ्यरंनेमि संयुतम् ॥९॥
एकाङ्गुलप्रमाणेन नाभिनेमिं समालिखेत्।
चतुरङ्गुलमानेन अरक्षेत्रं परिकीर्तितम् ॥१०॥
चतुर्विंशत्यरं कुर्यात्तदेकाङ्गुलमानतः।
बहिः षीठादिकान् कल्प्य केवलाश्र मथापि वा ॥११॥
षोडशाब्जो स्वरान् लिख्य वर्णं वक्ष्ये समासतः।
नृसिंहानुष्ठुभञ्चैव द्वात्रिंशत्पत्रकं लिखेत् ॥१२॥
रेखास्सर्वाः सिताः प्रोक्ताः षीतवर्णेनचान्तरम्।
षट्‌कोणं रक्तवर्णेन वर्णकं सितकंभवेत् ॥१३॥
कोणान्तरालमसितं केसरं पाण्डुरक्तकम्।
अष्टपत्रं सितं कुर्यात् कृष्णं चैवान्तरालकम् ॥१४॥
बहिः कोणाष्टकं पीतं मध्यमं श्यामलं भवेत्।
तद्बहिः केसरं विद्यात् रक्तवर्णेन पूरितम् ॥१५॥
पाण्डुरक्तनिभेनैव षोडशाब्जं प्रपूरयेत्।
अन्तरं नीलवर्णेन बहिः कोणं तु पीतकम् ॥१६॥
अन्तरं श्यामवर्णेन बहिः केसरकं सितम्।
असितं चान्तरं कुर्यात् तत्पत्रं रक्तसन्निभम् ॥१७॥
हेमाभं नाभिभूभागमरं वै कृष्णवर्णकम्।
अन्तरालं तु पीतं स्यात् तन्नेमित्वसितं भवेत् ॥१८॥
पीठान्तरन्तु रक्तं स्यात्पीठादित्युत्तरं श्रृणु।
यन्त्रबाह्ये विशेषेण त्रिंशद्विंशतिरेव वा ॥१९॥
सप्तकं पञ्चकं वापि विस्तारं संप्रकीर्तितम्।
पीठं वीथीं च द्वारञ्च क्रमाद्‌बुध्या विलेपयेत् ॥२०॥
सितरक्तादिपीतेन निक्षिपे द्व्यत्ययेन तु।
परभागविभागेन यथाशोभानुरूपतः ॥२१॥
पीठादिरहितं वापि पञ्चरेखां बहिर्लिखेत्।
पञ्चवर्णक्रमाद्विप्र रेखायाः त्रित्रिवर्णकम् ॥२२॥
प्रणावाद्वि विशेषेण विष्णुमभ्यर्चयेत्सुधीः।
अक्षराणि च सर्वाणि स्वस्थाने तु समर्चयेत् ॥२३॥
पाशाङ्कुशेन संयुक्तं नेमिमब्यर्चयेत्सुधीः।
पीठगात्रककोणे तु धर्मादीन् परिपूजयेत् ॥२४॥
अनन्तं वीथिभागे तु द्वारे चण्‍डादिकान् न्यसेत्।
इति सम्यक् समाख्यातं विष्णुयन्त्रं महामुने ॥२५॥
भृगुः--
नारायणाख्ययन्त्रस्य विधिं ब्रूहि जगत्प्रभो॥
श्रीभगवान्--
प्रणवं पूर्ववत्कृत्वा लिख्यमष्टदलान्तरम्।
पूर्वादि सर्वकोणेषु अष्टाक्षरकमालिखेत् ॥२६॥
तद्बहिः केसरं वृत्तं बहिर्वृत्तं तु पङ्कजम्।
अष्टपत्रं लिखेत्सम्यक् बहिश्चक्रं प्रकल्पयेत् ॥२७॥
अष्टपत्रस्य मध्ये तु नृसिंहाष्टाक्षरं लिखेत्।
नाभि नेमिसमायुक्तं पूर्ववच्चक्रमालिखेत् ॥२८॥
अष्टाक्षरं पूर्ववच्चक्रं बहिर्द्वादशकोणकम्।
द्वादशाश्रं च तत्कोणे बहिः केसरपङ्कजम् ॥२९॥
तत्पत्रं द्वादशं प्रोक्तं द्वादशाक्षरकं न्यसेत्।
तद्वहिष्षोडसाश्रं स्याद्बहिश्चक्रं प्रकल्पयेत् ॥३०॥
अरैष्षोडशभिर्युक्तं नेमिनाभिसमन्वितम्।
पूर्ववत्पङ्कजं कुर्यात् चतुर्विंशद्दलैर्युतम् ॥३१॥
चतुर्विंशदरैर्युक्तं बहिश्चक्रं समालिखेत्।
द्वात्रिंशज्ज्वालया युक्तं चतुरश्रं बहिर्भवेत् ॥३२॥
पीठादि पूर्ववत्कल्प्य मरक्षेत्रं समाचरेत्।
सर्वान्तरालमसितं सर्वारेखासिता भवेत् ॥३३॥
कर्णिकापीतवर्णेन अन्तरालं सित्प्रभम।
केसरं पीतवर्णेन पद्मं वै पाण्डरारुणम् ॥३४॥
नाभिनेमिद्वयं पीतमरक्षेत्रं तु रक्तकम्।
पद्मपत्रसमाकारं कृष्णवर्णेन शोभितम् ॥३५॥
केसरं क्षेत्रमखिलं पाण्डुरक्तेन पूरितम्।
पाण्डुरक्तेन तत्पत्रं बहिः कोणं तु पीतलम् ॥३६॥
बहिश्च मातुलङ्गाभं पीत कुङ्कुमसन्निभम्।
तद्ब्रहिः पत्रसंघंतु पीतरक्तेन मिश्रितम् ॥३७॥
पत्रान्तरालं श्यामं च बहिश्चक्रं तु पूर्ववत्।
इन्दीवरदलाकारं नीलवर्णेन रञ्जितम् ॥३८॥
अ तरालं तु रक्तं स्याच्चक्रं पूर्ववदालिखेत्।
ज्वालामालां विशेषेण रक्तवर्णेन भूषयेत् ॥३९॥
बहिः पीठादिकाः सर्वाः पूर्वमण्डलवद्भवेत्
नारायणं यजेन्मध्ये स्वस्थाने मण्डलं न्यसेत् ॥४०॥
अरैके तु विशेषेण मूर्तिनभ्यर्चयेत् बुधः।
नारायणाख्यकं यन्त्रं दीक्षाकाले विनिक्षिपेत् ॥४१॥
व्याधीनामुद्भवे विप्र प्रायश्चित्तादिके पुनः।
परचक्रप्रवेशे च कुहूदोषसमुद्भवे ॥४२॥
......................
..................... ॥४३॥
ग्रहदोषे च संपन्ने रक्षाकार्ये विशेषतः।
अनावृष्टिविधौ विप्र तथा स्नपनकर्मणि ॥४४॥
श्रीभगवान्--
वासुदेवाख्यकं यन्त्रं प्रवक्ष्यामि महामुने।
प्रणवं पूर्ववत् कृत्वा द्वादशाश्रं बहिः क्षिपेत् ॥४५॥
केसराब्जं तथालिख्य कोणे मन्त्राक्षरं लिखेत्।
पत्रे द्वादशमूर्तिं च बहिश्चक्रं समालिखेत् ॥४६॥
नाभ्यरंनेमिसंयुक्तं चतुर्वारं समालिखेत्।
चतुर्विंशाश्रकं बाह्ये गायत्रीं च समालिखेत् ॥४७॥
पूर्ववत्पङ्कजं कुर्याच्चतुर्विंशद्दलं लिखेत्।
चक्रन्तु पूर्ववत्कुर्यात् चतुर्विंशारकैर्युतम् ॥४८॥
द्वात्रिंशत्कोणकं बाह्ये नृसिंहानुष्ठुभं लिखेत्।
तद्बाद्ये पङ्कजं कुर्यात् द्वात्रिंशत्पत्रसंयुतम् ॥४९॥
बहिश्चक्रं तथा कुर्याद्व्यात्रिंशदरकैर्युतम्।
पाशाङ्कुशौ नेमिभागे बहिर्ज्वालां समालिखेत् ॥५०॥
चतुष्षष्टिक्रमेणैव तदर्धं वापि कल्पयेत्।
चतुरश्रं तु तद्बाह्ये पीठादीन् पूर्ववल्लिखेत् ॥५१॥
पद्मपत्रारकं पूर्वे मध्यमे मातुलुङ्गवत्।
अपरे तु विशेषेण परश्चारश्चसंपरम्?। ॥५२॥
रेखागणं तथा पूर्वमन्तरालं तथा भवेत्।
कर्णिका पीतवर्णेन कोणं वै शुक्रवर्णकम् ॥५३॥
नाभिनेमिद्वयं श्याममरक्षेत्रं सितं भवेत्।
अरं वै पीतवर्णेन बहिः कोणं तु रक्तकम् ॥५४॥
केसरक्षेत्रकं सर्वं रक्तपीतेन पूरितम्।
पत्रंतु पाण्डुरक्तेन नेमि नाभि सितं भवेत् ॥५५॥
अरंतु कृष्णवर्णं स्यादन्तरालं तु पीतकम्।
बहिः कोणं तु पीतं स्यादन्तरालं तु कृष्णकम् ॥५६॥
बहिः पत्रं तथारक्तं नाभि नेमि सितं भवेत्।
अरंतु कर्बुरं विद्यात् ज्वालासंघंतु रक्तकम् ॥५७॥
पीठादि पूर्ववत्प्रोक्तमक्षरंतु सितं भवेत्।
इति सम्यक् समाख्यातं महायन्त्रं महामुने ॥५८॥
यः पूजये महायन्त्रं स याति परमं पदम्।
सोऽतुलां श्रियमाप्नोति कोटियज्ञफलं भवेत् ॥५९॥
सर्वपापविनिर्मुक्तः सर्वदानफलं लभेत्॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
यन्त्रविधानां नाम पञ्चमोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP