संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
षष्ठोऽध्यायः

अनिरुद्धसंहिता - षष्ठोऽध्यायः

अनिरुद्धसंहिता


श्रीभगवान्--
मण्डलानां विधिं वक्ष्ये समासादवधारय।
चतुरश्रीकृतं क्षेत्रं त्रिंशधा विभजेच्च तत् ॥१॥
अंशकानां भवेदत्र नवानां शतकंभवेत्।
तन्मध्ये दशपङ्क्त्यातु पद्मक्षेत्रं प्रजायते ॥२॥
क्षेत्रद्वादशभागैकं व्यवधानं प्रकल्पयेत्।
व्यवधानं त्रिधा कृत्वा व्योमवृत्तं तथाभवेत् ॥३॥
चतुर्धा विभजेत् शेषं प्रथमं कर्णिकापदम्।
द्वितीयं केसरं प्रोक्तं तृतीयञ्च चतुर्थकम् ॥४॥
चतुर्थैकांशमानेन दलाग्रं संप्रकल्पयेत्।
शिष्टेनांशगणेनैव पत्रमेकं प्रकल्पयेत् ॥५॥
पत्रान्तरालकं सर्वं कनिष्ठाङ्गुलिमानकम्।
पत्रमध्ये त्रिरेखाञ्च पञ्चरेखां तथैव च ॥६॥
यवमात्रोन्नतं कुर्यात् पत्रमूलं तदानयेत्।
पत्राग्रं पृथुतां याति अथवा केसरांशकम् ॥७॥
कर्णिकाग्रांशमानं वा इच्छया परिकल्पयेत्।
यन्त्रकोच्चं पत्रमानं केसरं पत्रकांशकम् ॥८॥
एवंतु पङ्कजं कृत्वा व्योमवृत्तं बहिर्भ्रमेत्।
व्योमवृत्ताद्बहिर्बृत्तं चतुरश्रं प्रकल्पयेत् ॥९॥
शेषं पङ्क्तिपदेनैव पीठादि परिशोधयेत्।
एवं पङ्क्त्या भवेत्पीठं चतुर्दिक्षु द्विकं व्रजेत् ॥१०॥
विदिक्षुचैव त्रिपदं द्विपदं त्वन्तरन्नयेत्।
उपपीठं चतुः पङ्क्त्या कल्पयेत्पीठमुत्तमम् ॥११॥
मध्ये द्वादशकेनैव गात्रकं परिकल्पयेत्।
तत्पूर्वापरवृत्तिभ्यां द्वितयं द्वितयं भवेत् ॥१२॥
मध्यपङ्क्तिद्वयेनैव अष्टकं परिमार्जयेत्।
एकीकृत्य ततस्सर्वानष्टकं तस्य पार्श्वयोः ॥१३॥
त्रीणि त्रीणि तथाद्यन्ते मध्ये पङ्क्तिद्वये द्वयम्।
तत्पदेचाष्टकं मृज्य मध्येचैव त्रयंत्रयम् ॥१४॥
एवमाद्यन्तपङ्क्तिभ्या मेकीकृत्य परामृजेत्।
पद्मक्षेत्रस्य बाह्ये तु पञ्चकं परिमार्जयेत् ॥१५॥
शेषंतुं कोष्ठकं प्रोक्तं द्विपदेनैव वीथीकाम्।
गात्रकाख्यप्रदेशेतु शङ्खादीन् परिकल्पयेत् ॥१६॥
शङ्खं चक्रं गदां पद्मं दिक्‌क्रमेण समालिखेत्।
मुसलं नन्दकञ्चैव शार्ङ्गं च वनमालिकाम् ॥१७॥
आग्नेयादीशकोणान्तं विन्यसेत्परितः क्रमात्।
शिष्टं पङ्क्तिक्रमेणैव द्वारादि परिकल्पयेत् ॥१८॥
द्विचतुष्कक्रमेणैव द्वारंतु परिशोधयेत्।
शोभं नवपदेनैव उपद्वारंतु द्वारवत् ॥१९॥
षट्‌पदैः सूक्ष्मशोभञ्च शिष्टकोणकम्?।
बहिः पङ्‌क्त्यंशमानेन रेखात्रयमथाचरेत् ॥२०॥
उपद्वारे विशेषेण मङ्गलाष्टकमालिखेत्।
रजसा पूरयेत्पश्चात् शुद्धेन विविधेन च ॥२१॥
कर्णिकां कनकाभेन केसरं शोणितप्रभम्।
दलजालं सितं प्रोक्तं कृष्णं चैवान्तरं परम् ॥२२॥
व्योमवृत्तं तथा कुर्यात् बाह्यं चारुणप्रभम्।
पीठकोणं सितं कुर्यात् गात्रं श्यामनिभं भवेत् ॥२३॥
गात्रकोणान्तरं रक्तं बहिर्गात्रं तु शोणितम्।
सितं कृष्णं च पीतं च क्रमाच्छेषत्रयं भवेत् ॥२४॥
शङ्खादीन् शुक्लवर्णेन विलिखेत्तस्य मध्यमे।
वीथीं मरकताभेन द्वारं शुक्लेन पूरयेत् ॥२५॥
पीतं रक्तं च कृष्णं च श्यामं शोभादिकान् क्रमात्।
सितं रक्तं तथा कृष्णं रेखात्रयमनुत्तमम् ॥२६॥
श्रीभगवान्--
इष्टसिद्धिप्रदंनाम मण्डलञ्चावधारय
इष्टसिद्ध्यर्चनाच्चैव इष्टसिद्धिमवाप्नुयात् ॥२७॥
चतुरश्रं पुरा कृत्वा बाहुहस्तप्रमाणतः
चत्वारिंशत्पदं कृत्वा क्षेत्रमध्यं विशेषतः ॥२८॥
अंशकानां भवेद्यत्र सहस्रं षट्‌शताधिकम्।
इष्टसिद्ध्यर्चनाच्चैव सहस्रं षट्‌शताधिकम् ॥२९॥
मध्ये दशपदं विप्र पङ्कजं पूर्ववल्लिखेत्।
पीठंतु पूर्ववत्कृत्वा बहिः पंक्त्या तु वीधिकां ॥३०॥
तद्बहिः पञ्च पंक्त्या तु गात्रागारं तु शोधयेत्।
मध्यपंक्तित्रयेणैव मध्ये कोणाष्टकं सृजेत् ॥३१॥
पूर्वापरे चतुर्थं स्यात् मध्ये चैव चतुष्पदम्।
एवमष्टकसंयुक्तमेकीकृत्य विलेपयेत् ॥३२॥
अष्टादशपदेनैव प्रादक्षिण्यं परामृजेत्।
कोणमध्यप्रदेशे तु पञ्चकोष्टं परामृजेत् ॥३३॥
बहिष्पोडशकोष्ठेन प्रादक्षिण्येन लेपयेत्।
शेषकोष्ठगणं सर्वमेकीकृत्य विलेपयेत् ॥३४॥
एकपंक्त्या भवेद्वीथी शिष्टपंक्ति क्रमं शृणु।
पंक्तित्रयेण विप्रेन्द्र अन्तर्द्वारादिकान् मृजेत् ॥३५॥
पूर्वपंक्तिद्व्येनैव नयेत् शोभोपशोभितम्।
सूक्ष्मशोभकञ्च चतुः कोणपार्श्वे परामृजेत् ॥३६॥
कोणसार्धद्वितीये तु एकमेव पदं मृजेत्।
एकपंक्त्या भवेद्वीथी प्रादक्षिण्येन शोधयेत् ॥३७॥
तद्वहिः पदपंक्त्या तु वीधिकां परिकल्पयेत्।
शिष्टं पंक्तित्रयेणैव पूर्ववत् द्वारवीथिकां ॥३८॥
द्वारशोभ मुपद्वार मुपशोभं च सूक्ष्मकम्।
पूर्ववत्कल्पयित्वा तु कोणदेशेतु पूर्ववत् ॥३९॥
शिष्टपङ्क्त्या बहिर्वीथीं पूर्ववत्परितो मृजेत्।
बहीरेखात्रयं कुर्यात् पञ्चकं वापि केवलम् ॥४०॥
एवंकृत्वा विधानेन रजः पात्रविधिं शृणु।
सपीठपङ्कजं विप्र पूर्ववत्परियोजयेत् ॥४१॥
वीधिकां षट्‌पदाभेन गात्रमध्यं तु पीतलम्।
बहिः प्रदक्षिणं श्यासं कोणभूमिं तथैव च ॥४२॥
कोणगात्रान्तरालं तु रक्तवर्णेन पूरयेत्।
बहिर्वीथीं सितेनैव अन्तर्वीथीं तु श्यामलाम् ॥४३॥
सितादिवर्णभेदेन क्रमात्कुर्याच्चतुष्टयम्।
कोणान्तस्थ पदद्वद्वं रक्तं कृष्ण सितं क्रमात् ॥४४॥
बहिर्वीथीं तु पीतेन तद्वाह्यं रक्तमेव च।
सितादिपञ्चवर्णेन पञ्चकं परिपूरयेत् ॥४५॥
तथा कोणद्वयं विप्र सितं श्यामं प्रकीर्तितम्।
रेखात्रयं तथा कुर्यात् पञ्चकं पञ्चवर्णकम् ॥४६॥
देवतानामथो वक्ष्य स्थानं तु मुनिपुङ्गव।
कर्णिकाग्रे तु संपूज्य अङ्गोपाङ्गं च पत्रके ॥४७॥
गुणत्रयं केसरेषु मण्डलं तु त्रयं तथा।
पीठदिक्ष्वष्टके विप्र दिक्पतीन् परिपूजयेत् ॥४८॥
गात्रमध्ये बिशेषेण शङ्खादीन् परिपूजयेत्।
अन्तराले ऋगादींश्च वेदादीन् कोणमध्यमे ॥४९॥
विथिकासु च सर्वासु अनन्तादीन् प्रपूजयेत्।
अनन्तो वासुकिश्चैव शङ्खपालस्तथैव च ॥५०॥
उर्ध्वद्वारादिके सर्वे आदित्यादीन् प्रपूजयेत्।
त्वष्टा विष्णुश्च पूषा च गरुडश्च तथैव च ॥५१॥
कोणेषु वैघ्नं संपूज्य कुमुदादीन् तथान्तरे।
बहिर्द्वारेषु विप्रेन्द्र सत्यादीन् परिपूजयेत् ॥५२॥
सत्यः सुपर्णस्तार्क्ष्यश्च गरुडश्च तथैव च।
शोभोपशोभद्वारेषु पद्मचक्रगदादिकान् ॥५३॥
कोणेष्वपि च सर्वेषु अग्न्यादि परिपूजयेत्।
अग्निश्च पावकाश्चैव चित्रभानुर्विभावसुः ॥५४॥
रेखात्रयेषु विप्रेन्द्र सुदर्शनादिपूजितम्।
परिस्तरेषु दर्भेषु चण्‍डादीन् परिपूजयेत् ॥५५॥
भृगुः--
मण्डलार्चनकालं किं वदस्व वदतां वर।
श्रीभगवान्--
दीक्षायामुत्सवे चैव स्नपने च फलोत्सवे ॥५६॥
दमनारोपणे चैव तथा पुष्पमहोत्सवे॥
पवित्रोत्सवे विशेषे जयन्त्यां च तथैव च।
कृत्तिकोत्सवकाले तु ग्रहणे सोमसूर्ययोः ॥५७॥
विषुवे चायने चैव द्वादश्यां तु विशेषतः।
प्रायश्चित्तेषु सर्वेषु वसन्तोत्सव एव च ॥५८॥
मण्डलाराधनं कुर्यादन्यथा दोषकृद्भवेत्।
मण्डलाराधनं श्रेष्ठं जघन्यं बिम्बपूजनम् ॥५९॥
कुम्भमण्डलबिम्बाग्नौ पूजनं चोत्तमं भवेत्।
उत्तमाराधनेनैव सर्वदोषक्षयं गतम् ॥६०॥
सर्वपापहरं पुंसां राजराष्ट्रविवर्धनम्।
चतुः स्थानार्चनाहीनं कर्म निष्फलतां नयेत् ॥६१॥
तस्मात्सर्वप्रयत्नेन चतुः स्थानार्चनं यजेत्।
चतुः स्थानमुत्तमं च त्रिस्थानं मध्यमं भवेत् ॥६२॥
द्विस्थानमधमं चैव एकमाभासकं परम्।
एकं तु बिम्बकं प्रोक्तं द्विस्थानं बिम्बपावकम् ॥६३॥
त्रिस्थानं कुम्भसंयुक्तं चतुः स्थानं तु मण्डलम्।
कुम्भमण्डलवह्निस्थं पश्चिमाभिमुखं यजेत् ॥६४॥
देवं नारायणं विप्र अन्यथादोषकृद्भवेत्।
तत्रस्था देवताः सर्वाः पश्चिमाभिमुखं यजेत् ॥६५॥
वरुणादिनिऋत्यन्तं पूजयेत् सर्वदेवतान्।
देवतान्विता विप्र द्वार्स्थदेवान्विना भवेत् ॥६६॥
इति श्रीपाञ्चरात्रं महोपनिषदि अनिरुद्धसंहितायां
यन्त्रविधानं नाम षष्ठोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP