संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
विंशोऽध्यायः

अनिरुद्धसंहिता - विंशोऽध्यायः

अनिरुद्धसंहिता


श्रीभगवान्--
उत्सवं संप्रवक्ष्यामि विस्तरेण तवानघ
सवस्त्वमङ्गलं विद्धि उत्सवस्तन्निवर्तकः ॥१॥
नित्यो नैमित्तिकः काम्य उत्सव स्त्रिविधो भवेत्।
प्रतिसंवत्सरे मासि क्रियते स तु नित्यकः ॥२॥
निमित्ते सति संजाते सतु नैमित्तिकौ भवेत्।
भृगुः--
भूतादिदर्शने चैव दुर्भिक्षे व्याधिपीडने ॥३॥
परचक्रप्रवेशे च व्योम्नि नेमिस्वने तथा।
दिव्यदुन्दुभिनिर्ह्रादे वालमीनस्य दर्शने ॥४॥
दर्शने सुरचापस्य पूर्वभागे तथा निशि।
अपरे मध्यमे वापि उल्कापाते विशेषतः ॥५॥
आलयस्य चाग्निना दाहे प्रासादपतने तथा।
प्राकारगोपुरादीनां चैत्यवृक्षादिपातने ॥६॥
वल्मीकादि समुत्पन्ने मधुप्राप्ते तु मण्डले।
भूभुजानां विशेषेण रोगादीनामुपस्थितौ ॥७॥
ग्रहदोषे तु संप्राप्ते कुहूदोषसमुद्भवे।
पुत्रदारादितो विप्र रोगादीनां समुद्भवे ॥८॥
अनावृष्टौ चातिवृष्टौ देवब्राह्मणघातुके।
पितृमातृवधे विप्र प्रायश्चित्तार्थमाचरेत् ॥९॥
उत्सवः परमो ब्रह्मन् नित्यो नैमित्तकः स्मृतः।
कामार्थमाचरेद्यस्तु काम्य इत्यभिधीयते ॥१०॥
उत्सव स्त्रिविधः प्रोक्त उत्तमादि विभेदतः।
उत्तमो मास इत्युक्तः मध्यमः पक्ष उच्यते ॥११॥
नवाहस्त्वधमः प्रोक्त इति शास्त्रस्य निश्चयः।
एकाहे च त्र्यहे चैव पञ्चसप्तनवाहके ॥१२॥
द्वादशाहे तथा पक्षे मासदूर्ध्वं च कारयेत्।
एकाहे च त्र्यहे चैव ध्वजकर्म न कारयेत् ॥१३॥
तीर्थकालमथो वक्ष्ये श्रुयतां मुनिसत्तम।
अयने विषुवे चैव ग्रहणे सोमसूर्ययोः ॥१४॥
राजजन्मदिने वापि अभिषेकदिनेऽपि वा।
पौर्णमास्यद्वये वापि श्रवणे सार्वमासिके ॥१५॥
प्रतिष्ठादिवसे वापि ग्रामजन्मदिनेऽपि वा।
विषुवैकदिने? विप्र तीर्थस्नानं समाचरेत् ॥१६॥
तीर्थस्नानदिनात्पूंर्वं ध्वजारोहणमाचरेत्।
एकविंशदिने कुर्यान्वाहोत्सवकर्मणि ॥१७॥
कर्मारम्भदिनात् पूर्वमष्टादशदिनेऽपि वा।
पक्षे मासे तथा कुर्यान्मासे मासद्वये तथा ॥१८॥
अथ वारदिने वापि? तत्प्रकार स्तथोच्यते।
ध्जारोहणपूर्वं वा भेरीताडनपूर्वकम् ॥१९॥
अङ्कुरार्पणपूर्वं तु त्रिविधो भेद उच्यते।
घ्वजारोहविधिं वक्ष्ये शृणु गुह्यं महामुने ॥२०॥
घ्वजारोहदिनात्पूर्वं पञ्चसप्तदिनेऽपि च।
नवाहे वा मुनिश्रेष्ठ एकादशदिनेऽपि वा ॥२१॥
अङ्कुरानर्पयेद्विद्वान् पूर्वोक्तेन क्रमेण तु।
अङ्कुरं त्रिविधं प्रोक्तं बीजप्रारोहतण्डुलम् ॥२२॥
बहुवारे तु बीजं स्यादल्पवारे प्ररोहकम्।
सद्यः काले विशेषेण तण्डलं संप्रचक्षते ॥२३॥
पालिका घटिकाचैव शरावं त्रिविधं भवेत्।
पवित्रारोपणेचैव कलशस्योत्सवे? तथा ॥२४॥
महाबेरप्रतिष्ठायां पत्रपुष्पफलोत्सवे।
देवदेवस्य विप्रेन्द्र त्रिविधञ्चाङ्कुरार्पणम् ॥२५॥
अन्येषु सर्वकार्येषु पालिकायां समाचरेत्।
त्रिवर्गकरणे विप्र एकैकं षोडशं भवेत् ॥२६॥
द्वादशं चाऽष्टकं वाऽपि षट्कं वाऽपि चतुष्टयम्।
केवलं पालिका चेति द्वादशाष्टमथापि? वा ॥२७॥
त्रिवर्गपालिकोच्छ्रायं षोडशाङ्गुलमुत्तमम्।
द्वादशाङ्गुल विस्तरामुन्मत्तकुसुमाकृतिः ॥२८॥
बिलद्वयसमायुक्ता पालिका संप्रचक्षते।
वलयैक समायुक्तं शरावं संप्रचक्षते। २९॥
घटिका पञ्चवक्त्रा स्यात् चतुर्दिङ्मध्यतोन्मुखा।
प्रक्षाल्य शुद्धतोयेन बलि संपूरयेत्तृणैः ॥३०॥
रजनीपत्रदूर्वैश्च बन्धयेत्कण्ठदेशतः।
तथा मृद्ग्राहकाले तु आनयेद्विनतासुतम् ॥३१॥
विष्वक्‌सेनं तथावापि हनूमन्तमथापि वा।
नैकैः परिजनैर्युक्तं खनित्रेण समुद्वरेत् ॥३२॥
पूर्ववद्ग्रहणं कुर्यात् मण्डपालंकृतिं तथा।
चतुः स्थानार्चनं चैव तथा द्वारादि पूजनम् ॥३३॥
पुण्याहोक्तिं ततः कुर्यात् कलशं पूर्ववच्चरेत्।
मण्डलं स्वस्तिकं वापि चक्राब्जमथवा द्विज ॥३४॥
पटं वक्ष्ये विशेषेण चित्रकर्म विशेषतः।
दशहस्ताष्टहस्तं वा सप्तहस्त मथापि वा ॥३५॥
आयामार्धेन विस्तीर्णं शिखरं पुच्छसंयुतम्।
निर्णेजितं खलीयुक्तं शोषितं लक्षणान्वितम् ॥३६॥
शिल्पशास्त्रानुसारेण चित्रयेच्चित्रवित्तमः।
अर्धमर्धेन विस्तीर्णं पादेन कृतशेखरम् ॥३७॥
मानोन्मानसमायुक्तं नवतालेन कल्पयेत्।
पटमध्ये लिखेद्देवं प़ञ्चवर्णेन शिल्पवित् ॥३८॥
द्विभुजं कनकाकारं करण्डमकुटोज्यलम्।
गगने गमनारम्भ पक्षविक्षेपशोभितम् ॥३९॥
धृताञ्जलिपुटं नीलनासाग्रं प्रियदर्शनम्।
दंष्ट्राकरालवदनं भ्रुकुटीकुटिलेक्षणम् ॥४०॥
उत्कुञ्चितं वामपादं दक्षिणं पृष्ठतः स्थितम्।
अनन्तो वामकटको यज्ञसूत्रन्तु वासुकिः ॥४१॥
तक्षकः कटिसूत्रन्तु हारः कार्कोटकस्तथा।
पद्मो दक्षिणकर्णे तु महापद्मस्तु वामतः ॥४२॥
शङ्खश्शिरः प्रदेशे तु गुलिकस्तु भुजान्तरे।
एतैरष्टोरगैरम्यै र्भूषितं भुजगोत्तमैः ॥४३॥
छत्रंचोपरिविन्यस्य पार्श्वयोः श्वेतचामरे।
दीपदण्डद्वयं पार्श्वे शङ्खं चक्रंतु पार्श्वतः ॥४४॥
अधस्तादम्बुजं पूर्ण कुम्भपात्रञ्च पालिकाः।
अन्तरालपदं कालकृष्णेनैव समालिखेत् ॥४५॥
एवं पटं लिखित्वा तु प्रतिष्ठां सम्यगाचरेत्।
रज्जुं तन्तुगणेनैव कारयेदङ्गुष्ठनाहतः ॥४६॥
कर्मारम्भदिनात्पूर्वं रात्रौ च रजनीमुखे।
देवाग्रे मण्डपे ब्रह्मन् पटमानीय देशिकः ॥४७॥
मूलबेरं दर्शयित्वा विस्तरेद्देवसम्मुखम्।
मण्डपस्योत्तरे भागे कुम्भं संस्थाप्य पूर्ववत् ॥४८॥
कुण्डमाग्नेयके कुर्यात् मण्डलं पटपूर्वतः।
मण्डलं स्वस्तिकं वापि भूतावास मथापि वा ॥४९॥
तस्य पश्चिमदेशे तु बिम्बसंस्थापनं परम्।
द्वारादियजनं कुर्यात् चतुस्स्थानार्चनं चरेत् ॥५०॥
पुण्याहं वाचयेत्पश्चात् कौतुकं बन्धयेत्पटे।
छायाधिवासनं कुर्यात् कटाहे मणिकेऽपि वा ॥५१॥
दर्पणे सकलं कुर्यात् तदभावे तु कूर्चके।
परिकुम्भं तु संस्थाप्य ब्रह्मकुम्भं तु विन्यसेत् ॥५२॥
याममात्रं जले स्थाप्य यामार्धमथवा भवेत्।
कुम्भे संपूजयेद्विप्र ब्रह्मबीजेने साधकः ॥५३॥
रक्षां सर्वेषु कुम्भेषु इन्द्रादीन् परिपूजयेत्।
मापान्नेन बलिं कुर्यात् अष्टदिक्षु समन्ततः ॥५४॥
मृद्गतं? सर्वदेवेशं पटे संयोजयेद्बुधः।
नयनोन्मीलनं कुर्यात् पूर्ववद्‌द्विजसत्तम ॥५५॥
मृदालेपं ततः कुर्यात् पर्वताग्रस्थमृत्स्नया।
दर्पणे तु समावाह्य स्नानवेद्यां निवेशयेत् ॥५६॥
स्नपनं पूर्ववत्कुर्यात् चूर्णस्नानमनन्तरम्।
शुद्धस्नानं मन्त्रस्नानं नीराजनमनन्तरम् ॥५७॥
पटे संयोजनञ्चैव शयनस्य च कल्पनम्।
पटस्य दक्षिणे पार्श्वे कुम्भं संस्थापयेद्बुधः ॥५८॥
वर्धनी परिकुम्भांश्च अष्टमङ्गलकानपि।
पालिका परितस्स्थाप्य कुम्भे संपूजयेत् प्रभुम् ॥५९॥
पटस्थं गरुडं विप्र पूजयेत्स्वीयविद्यया।
होमकर्म ततः कृत्वा मन्त्रन्यासं समाचरेत् ॥६०॥
पायसादि निवेद्याथ बलिं दद्यात्समन्ततः।
कुम्भस्थं गरुडं चैव पटमध्ये नियोजयेत ॥६१॥
देवतावाहनं वक्ष्ये भेरीताडनसंयुतम्।
सध्वजे? तु विशेषेण तद्रात्रौ सकलं भवेत् ॥६२॥
भिन्नध्वजे तथा ब्रह्मन् ध्वजास्यारोहणं? भवेत्।
पटमध्ये तु गरुडं मार्गत्रयमथाचरेत् ॥६३॥
शयनं कल्पयित्वैवं बलिबेरं निवेशयेत्।
बलिबेरस्य पूर्वे तु कुम्भं संस्थापयेद्बुधः ॥६४॥
कुम्भस्य पूर्वभागे तु भेरीञ्चैव तु विन्यसेत्।
दर्भैः परिस्तरै स्तत्र वासुदेवादिकान् न्यसेत् ॥६५॥
पुण्याहं वाचये द्विद्वान् तद्बलिं परिपूजयेत्।
भेरी मभ्यर्चयेद्विद्वान् कांस्यघण्टादिसंयुतम् ॥६६॥
शङ्खञ्च काहलञ्चैव झल्लिका मद्दलं तथा।
पटहं चैव तिमितं ह्रस्वमद्दलकं भवेत् ॥६७॥
कांस्यतालगणञ्चैव परितश्च निवेशयेत्।
कुम्भे सम्यग्विशेषेण देवान् सर्वान् समाह्वयेत् ॥६८॥
इन्द्रमग्निं यमञ्चैव नैर्ऋतं वरुणं तथा।
वायुं सोमं तथेशानं इन्द्रादित्यमरुद्गणान् ॥६९॥
(वसवोष्टौ द्वादशादित्या रुद्रा एकादश क्रमात्)
बलिभुजः कुमुदादि पुरोदितान्
हरिमहोत्सवकर्मणि वास्तुषु
वद ममाखिलदेवगुरोर्गुरोः
प्रतिदिशं हरिपारिषदान् क्रमात् ॥७०॥
अहं खल्वखिलाण्डयोनेश्शेषधिषणादीशचतुराप्रमेयस्य अनवरतसुखिनो हरे र्महोत्सवादिषु ग्रामादिवास्तुषु इन्द्रादिदिक्‌स्थितानां कुमुदादीनां वर्णरूपवाहनायुधपरिवारमन्त्रार्चनादीन् यथामपि कथयिष्ये।
स्कन्धासनस्थकमलासखवासुदेवं
वेगावधूतपवमानसवेगयानम्।
नागाधिप्रग्रहणलोलुपवक्रतुण्ड---
मावाहयामि विहगाधिपमुत्सवादौ ॥७१॥
एवं संस्मृत्यार्घ्यपाद्याचमनगन्धपुष्पधूपदीपैरभ्यर्च्यानन्तरं तद्वत् बलिं द्रव्यं नैवेद्यं दत्वाऽचमानाञ्चलिं दर्शयित्वा हरेर्मुखवासं विधाय तद्दिग्द्देवतृप्त्यर्थं शङ्खदुन्दुभिनृत्तगीतादि कारयेत्।
दम्भोलिभीषणभुजाय सुराधिपाय़
श्यामाय दानवकुलक्षयकारणाय
पूर्वाधिपाय सुरवारणवाहनाय।
तुभ्यं पुलोमतनयापतये नमोऽस्तु ॥७२॥
एवं---अग्ने तु हव्यमनिशं वहने सुराणां
कव्यं समीपमथवा नयते पितॄणाम्।
धूमध्वजाय दहनाय जुहूदराय
सोणाय कोणपतये भवते नमोऽस्तु ॥७३॥
एवं कालाय लोकसमदण्डबिधायकाय
नीलप्रभाय महिषाधिपवाहनाय
दण्डायुधाय तनयाय बिकर्तनस्य
देवाय दक्षिणादिशापतये नमोऽस्तु ॥७४॥
श्यामाय भीषणमृगाधिपवाहनाय
कोणाधिपाय लसदुग्रकृपाणकाय
तुभ्यं पिशाचकुलराक्षसयातुधान
सेनावनप्रियकृते निर्ऋते नमोऽस्तु ॥७५॥
श्यामलाय मकराधिरोहिणे।
तुभ्यमुल्लसितपाशपाणये
जीवनाय वरुणाय कुर्महे।
देहिनामपरदिक्‌पतये नमः ॥७६॥
प्राणादि भेदकजुषे धृतकेतनाय
धूम्राय तुङ्गमृगपुङ्गववाहनाय
कोणाधिपाय जगतामधिपावनाय
वाताय तीव्रगतये भवते नमोऽस्तु ॥७७॥
सुवर्णवर्णाय शिवप्रियाय
धनाधिनाथाय गदायुधाय
उदग्दिगीशाय हराद्रिवासिने।
नमोऽस्तु तस्मै हरवाहनाय ॥७८॥
वृषाधिरूढाय जटाय मौलिने।
कपालबालेन्दुकलावतंसिने।
त्रिशूलिने कोणदिशाधिवासिने
सदा सुवासाय शिवाय ते नमः ॥७९॥
एवं--प्रतप्तकल्याणनिभाय ब्रिभ्रते।
करेऽक्षमालावलयं कमण्डलुम्।
स्वयंभुवे हंसवराधिरोहिणे।
नमोऽस्तु तुभ्यं जगातां सिसृक्षवे ॥८०॥
घोषयेत् सर्ववाद्यानि वाद्यकर्मविशारदैः।
ग्रामे वा नगरे वापि पत्तने वा महामते ॥८१॥
वीथीमुखमलंकुर्यात् रम्भापूगध्वजाङ्कुरैः।
दीपैः पूर्णघटै श्चैव दर्भमाल्यैश्च तोरणैः ॥८२॥
इन्द्रादीशानपर्यन्तं बलिं दद्याद्विचक्षणः
उत्सवं बलिबेरञ्च घटं वै देवसम्मुखम् ॥८३॥
आरोप्य परिकरैः सार्धं तालवृन्तगणै र्युतम्।
अनेकध्वजसंयुक्तं वाद्यवादनसंयुतम् ॥८४॥
ग्रामस्येन्द्रादि दिग्भागे तिष्टन्वै देवतामुखम्।
गोमयालेपनं कुर्याद्धस्तमात्रप्रमाणतः ॥८५॥
दर्भासनं ततः कृत्वा देवमुद्दिश्य साधकः।
आवाहयेत्ततो देवमिन्द्रं कुमुदमेव च ॥८६॥
अर्घ्यं पाद्यं तथाचामं गन्धं पुष्पं च धूपकम्।
बलिं ताम्बूलकञ्चैव श्लोकपूर्वं तथा यजेत् ॥८७॥
भेरीताडनकञ्चैव तालवादनपूर्वकम्।
गीतं नृत्तं च वाद्यं च सर्वदेशेषु च क्रमात् ॥८८॥
कान्तारं पूर्वदिग्भागे कौशिकं दक्षिणे तथा।
षश्चिमे कामदं प्रोक्तं तर्करागं तथोत्तरे ॥८९॥
आग्नेय्यान्तु कौलीस्यान्नैर्ऋते नटभाषणम्।
तक्केशी वायुदिग्भागे चालापाणी तु शाङ्करे ॥९०॥
मध्यमे पञ्चमं प्रोक्तं पीठस्थाने तु मालवी।
ऐन्द्रे तु देशीनृत्तं स्यादाग्नेये मल्लकं भवेत् ॥९१॥
दक्षिणे तु घटक्रीडा यद्धक्रीडा च नैर्ऋते।
पश्चिमे कन्दुकक्रीडा गणक्रीडा च मारुते ॥९२॥
मार्गमुत्तरतो विद्याद्भजङ्गश्चैशके परम्।
ब्राह्मे गणभुवं प्रोक्तं पीठपार्श्वे तु मङ्गलम् ॥९३॥
खेटकं याम्यभागे तु नैर्ऋते चक्रमण्डलम्।
क्रमस्थः पूर्वदिग्भागे शब्दमाग्नेयके भवेत् ॥९४॥
गारुडं वारुणे भागे हास्यनृत्तं तु मारुते।
मङ्गलं सोमदिग्भागे महानृत्तं तु शाङ्करे ॥९५॥
बाह्मे तु सर्ववाद्यं स्यात् पीठदेशे यथारुचि।
एवमेव प्रकारेण बलिं कुर्यात्समन्ततः ॥९६॥
पीठस्य दक्षिणे स्थित्वा ध्वजारेहणमाचरेत्।
ध्वजदण्डं प्रतिष्ठाप्य स्तम्भं चन्दनकं तथा ॥९७॥
तेकवृक्षं च खदिरं पनसं पाटलं तु वा।
क्रमुकं नालिकेरं च तालं वेणुं तथैव च ॥९८॥
स्वयंशुष्कं च पतितं कोटरं वक्रकं त्यजेत्।
शततालं तदर्धं वा तस्यार्धमथापि वा ॥९९॥
अशीतितालमिच्छन्ति केचित्तस्यार्धमेवा वा।
प्रासादोच्छ्रायमानं वा गोपुरोच्छ्रायकं भवेत् ॥१००॥
द्वात्रिंशदङ्गुलं मूलं मध्याग्रे बिलकं विना।
.....त्र्यंशभागेन मानसूत्रं प्रकल्पयेत् ॥१०१॥
पीठकत्रितयं कुर्यात् यन्त्राकारन्तु पीठकम्।
निर्गमस्सममानन्तु? यष्टिं तत्रैव योजयेत् ॥१०२॥
पीठमौदुम्बरं वापि अश्वत्थं वापि कारयेत्।
यष्टिं वेणुं खादिरं वा यष्ट्यग्रं सममानकं ॥१०३॥
दर्भमाल्यैश्च संवेष्ट्य प्रादक्षिण्यक्रमेण तु।
अन्तर्दर्भसमायुक्तं दर्भखण्डन्तु वाग्रतः ॥१०४॥
अवटस्योत्तरे भागे उदग्दण्डन्तु शाययेत्।
सङ्कटे सति विप्रेन्द्र यथादेशानुरूपतः ॥१०५॥
प्रागग्रमुदगग्रं च कारयेद्देव कर्मणि।
प्रक्षाल्य शुद्धतोयेन पुण्याहं प्रोक्षणं चरेत् ॥१०६॥
गन्धपुष्पै स्समभ्यर्च्य यन्त्रेणैव समुद्धरेत्।
बद्धध्वजपटं वापि केवलं वापि कारयेत् ॥१०७॥
स्तम्भमूलं द्रढीकुर्यात् पीठं सम्यक् प्रकल्पयेत्।
त्रिहस्तं वा द्विहस्तं वा पञ्चहस्त मथापि वा ॥१०८॥
हस्तोच्छ्रायं तथा कुर्यात् तदूर्ध्वे मेखलात्रयम्।
तदूर्ध्वे पद्मकं कुर्यात् द्वादशाष्टदलै र्युतम् ॥१०९॥
स्तम्भस्य परितः कुर्यात् मण्डपं सप्रपं तु वा।
अरोहयेध्द्वजं पश्चात् रज्जुना देशिकोत्तमः ॥११०॥
पुण्याहं पूर्वतः कुर्यात् समभ्यर्च्य यथाविधि।
हविर्निवेदयेत् पश्चात् कुभ्मप्रोक्षणपूर्वकम् ॥१११॥
सन्निधौ देवदेवस्य नृत्तगीतादिकं चरेत्।
वीथीं प्रदक्षिणीकृत्य उत्सवं संप्रवेशयेत् ॥११२॥
ध्वजारोहणकाले तु भेरीं श्वृण्वन्ति ये जनाः।
तै र्नदीतरणं नैव न यानं योजनात्परम् ॥११३॥
गमने सति सम्मोहाद्व्याधिमाप्नोति नित्यशः।
तस्मात् सर्वप्रयत्नेन बहिर्यानं विवर्जयेत् ॥११४॥
इति संक्षेपतः प्रोक्तो ध्वजारोहविधि र्मया।
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
ध्वजारोहणविधिर्नाम विंशोऽध्यायः।

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP