संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
सप्तदशोऽध्यायः

अनिरुद्धसंहिता - सप्तदशोऽध्यायः

अनिरुद्धसंहिता


आराधनविधिं वक्ष्ये अवधारय सांप्रतम्।
भृगुः--
कैर्द्रव्यैः पूजयेद्देवमुपचारैश्च कैः प्रभो ॥१॥
श्रीभगवान्--
दीक्षितै स्साधकै श्चैव तथैव परिचारकैः।
स्वादूदकैश्च पुष्पैश्च गन्धै र्नानाविधैरपि ॥२॥
धूपै र्गुग्गुलमिश्रैश्च दीपै र्वर्त्तिसमन्वितैः।
वस्त्रै श्चैवोपवीतैश्च माल्यै र्नानाविधैरपि ॥३॥
गीतनृत्तैश्च वाद्यैश्च स्तोत्रैश्चैव प्रदक्षिणैः।
वाहनै श्चामरैश्चैव शङ्खकाहलनादकैः ॥४॥
मात्राभि स्तालवृन्तैश्च स्नानैश्च कलशोदकैः।
नीराजनै र्दीपयुक्तै रर्ध्यपाद्यादिकै स्तथा ॥५॥
कर्पूरैश्चैव ताम्बूलैः गोदानै श्शान्तिकुम्भकैः।
भक्ष्यै र्भोज्यैस्तथा पेयै र्लेह्यैश्चोप्यै र्महादिकैः ॥६॥
जपैः प्रणामै र्दानैश्च होमैश्चैव विशेषतः।
बलिदानैरुत्सवैश्च बिम्बै र्नानाविधैरपि ॥७॥
प्रासादमण्डपैश्चैव परिवारसमन्वितैः।
अनन्तगरुडाद्यैश्च उत्सवाद्यै र्विशेषतः ॥८॥
मण्डलाराधनैश्चैव तथा वै कुम्भपूजनैः।
वह्निसंपूजनै श्चैव मासपूजासमन्वितैः ॥९॥
पवित्रारोहणेनाथ पत्रपुष्पोत्सवेन च।
दमनारोहणै श्चैव तथा चैव फलोत्सवैः ॥१०॥
प्रायश्चित्तविधानैश्च तथा विष्ण्वादिपूजनैः।
श्रावण्यामर्चनै श्चैव पौर्णमास्यद्वयार्चनैः ॥११॥
श्रीजयन्त्युत्सवै श्चैव तथा कृत्तिकपूजनैः।
आग्रायणै र्विशेषेण तथाचाध्ययनोत्सवैः ॥१२॥
वसन्तोत्सवै र्विशेषै स्तथा चैव ज त्सवैः?
तुलस्याराधनैश्चैव तथा पत्रैश्च चम्पकैः ॥१३॥
एतै स्संपूजयेद्देव मन्यथा दोषकृद्भवेत्।
तस्मात्सर्वप्रयत्नेन एतै र्द्वव्यैः सुपूजयेत् ॥१४॥
नित्यैर्नैमित्तिकैश्चैव तथा काम्यै र्महोत्सवैः।
एतत्कर्म विना चेत्तु राजराष्ट्रभयं भवेत् ॥१५॥
महद्दोषमवाप्नोति सर्वसंहारकारणम्।
उपचारानथो वक्ष्ये समासादवधारय ॥१६॥
ज्ञानयोगं कर्मयोगं द्विविधं तदुपायकम्।
कर्मयोगाच्च भगवन् ज्ञानयोगं प्रजायते ॥१७॥
कर्मयोगविशेषेण केशवाराधनं परम्।
केशवाराधनं चैव राजराष्ट्रसुखावहम् ॥१८॥
सर्वदुः खोपशमनं सर्वज्ञानफलप्रदम्।
भगवद्‌ज्ञानफलदं विष्णुप्रीतिकरं शुभम् ॥१९॥
देवदेवप्रसादेन सर्वदुः खक्षयावहम्।
तस्मात्सर्वप्रयत्नेन केशवाराधनं चरेत् ॥२०॥
पञ्चशुद्धिविधं कुर्यात् प्रथमं मुनिसत्तम।
भूतशुद्धि र्द्रव्यशुद्धिः स्थानशुद्धि स्तथैव च ॥२१॥
पात्रशुद्धि स्तथा पश्चात् बिम्बशुद्धिस्तु पञ्चमम्।
स्नानमाचमनं चैव देहशुद्धि र्विशिष्यते ॥२२॥
सत्येन ध्यानयोगेन मनश्शुद्धिरिहोच्यते।
सत्यं भूतहितं प्रोक्तं ध्यानं वै विष्णुचिन्तनम् ॥२३॥
मार्जनालेपने चैव स्थानशुद्धि र्विधीयते।
दहनाप्यायने चैव क्षालनात् प्रोक्षणादपि ॥२४॥
द्रव्यशुद्धिं विजानीयात्‌ साधकः परमार्थवित्।
पात्राणि पूततोयेन शुद्धं प्रक्षालयेत्तु वै ॥२५॥
तिन्त्रिणी सिकताम्भोभिः बिम्बशुद्धिः प्रजायते।
एवं शुद्धिं क्रमात्कृत्वा भद्रपीठं तु विन्यसेत् ॥२६॥
वस्त्रे तु फलकेवापि न्यसेदर्ध्यादि पात्रकान्।
अर्घ्यं पाद्यं तथाचामं स्नानीयं शुद्धपात्रकम् ॥२७॥
अग्न्यादिब्रह्मपर्यन्तमाधारोपरि विन्यसेत्।
अर्घ्ये गन्धं फलं चैव पाद्ये दूर्वां तिलं तथा ॥२८॥
एलालवङ्गमाचामे स्नानीये चन्दनं परम्।
शुद्धतोये विशेषेण तथैव परिपूजनम् ॥२९॥
श्रीरर्घ्यस्य भवेद्देबी वागीशीत्वाचमस्य च।
पाद्ये च पितरं देवं स्नानीये वरुणं तथा ॥३०॥
सुद्धोदके च शान्ति च पञ्च पात्रस्यदेवताः।
दहनाप्यायनेचैव सौरभेयीप्रदर्शनम् ॥३१॥
छोटिकादर्शनं कुर्यात् गन्धपुष्पादिधूपकैः।
पूजयेत् सर्वपात्राणि पञ्चोपनिषदैः क्रमात् ॥३२॥
उदभाण्डं समभ्यर्च्य गन्धपुष्पै स्तथैव च।
द्वारपूजां ततः कृर्यात् द्वारस्थाने विशेषतः ॥३३॥
आत्मानमर्चयित्वा तु गुरुपंक्तिं प्रपूजयेत्।
गुरुं परं गुरुं चैव तथा सिद्धगण यजेत् ॥३४॥
द्वारपूजां पुरा विप्र प्रासादपुरुषं यजेत्।
पीठस्थदेवतान् सर्वान् गन्धपुष्पादिभि र्यजेत् ॥३५॥
धर्मादिचतुरश्चैव अधर्मादींस्तथैव च।
देदादींश्चतुरश्चैव युगादींश्चतुरस्तथा ॥३६॥
गुणत्रयं तदूर्ध्ये तु तदूर्ध्वे मण्डलत्रयम्।
आधारं प्रथमं कूर्मं कालाग्निं तदनन्तरम् ॥३७॥
अनन्तं मणिकं चैव भद्रपीठं च पङ्कजम्।
स्थानमापूजयेत् सर्वान् परिवारांस्तथैव च ॥३८॥
वासुदेवादिकांश्चैव तथा शङ्खादिकान् परम्।
कुमुदादि गणान् सर्वान् तथा इन्द्रादिपालकान् ॥३९॥
बिष्वक्सेनगणान् सर्वांश्चाण्डादिकपुरस्सरम्।
एतान् संपूजयेदर्घ्यगन्धपुष्पादिधूपकैः ॥४०॥
आवाहनं ततः कुर्यात् मूलाद्वै कर्मकौतुकम्।
अनेकैरुपचारैर्वा अष्टोत्तरशतैस्तु वा ॥४१॥
चतुष्षष्टिक्रमं वापि द्वात्रिंशक्रममेव च।
परर्थयजने बिप्र एतन्न्यूनं न कारयेत् ॥४२॥
आत्मार्थे षोडशं प्रोक्तं द्वार्त्रिशत्क्रममेव वा।
आवाहनं नमस्कारः प्रत्यूत्थानमनन्तरम् ॥४३॥
पुष्पाञ्जलिः स्वागतोक्तिरासनं पादपीठिका।
अर्ध्यं पाद्यं तथाचामं तत्क्रमो वक्ष्यतेऽधुना ॥४४॥
अर्घ्यदाने विशेषेण घण्टां शङ्खं निनादयेत्।
आवाहने तु विप्रेन्द्र निगमं वाद्यमाचरेत् ॥४५॥
शङ्खद्वयं काहलञ्च शृङ्गनादं तथैव च।
पाद्यदाने तु विप्रेन्द्र द्विर्दद्याच्च पदाम्बुजे ॥४६॥
वस्त्रेण मार्जनं कृत्वा चन्दनालेपनं चरेत्।
पुष्पं पृथक् पृथक् दद्यात् सुगन्धं पाद्यमेव वा ॥४७॥
पाद्यदाने तु शङ्खंस्यादाचामं हीनशङ्खकम्।
आचामं तु त्रिर्दद्यात्तु द्विरुन्मृज्य च संस्पृशेत् ॥४८॥
नेत्रं नासां तथा श्रोत्रमंसयोर्द्वितयं स्पृशेत्।
अर्घ्यं शिरसि विन्यस्य पाद्यं पादाम्बुजद्वये ॥४९॥
आचामं हस्तके दद्याच्चक्षुरादेस्तु तत्र तु।
उन्मृजाकरणे विप्र तिर्यङ्मूर्ध्नि परामृशेत् ॥५०॥
गन्धानुलेपनं देयं पुष्पं शिरसि अंसयोः।
मुक्तपुष्पञ्च पत्रं च बिर्दद्याद्‌द्वे पदाम्बुजे ॥५१॥
धूपदानं मधुपर्कं ताम्बूलं गन्धभावितम्।
मुद्गमात्रप्रदानं च पादुकं स्नानविष्टरम् ॥५२॥
मधुपर्कप्रदाने तु आचामं केवलं ददेत्।
आसनेषु च सर्वेषु वस्त्रताम्बूलदानके ॥५३॥
पादप्रक्षालने चैव भोजनान्ते विशेषतः।
आचामं कारयेन्नित्यं वस्त्रमञ्जनलेपनम् ॥५४॥
स्नानासनं निवेद्याथ पादप्रक्षालनं चरेत्।
आचामं स्नानशाटीं च पुनराचाममेव च ॥५५॥
दन्तधावनकं चैव जिह्वानिर्लेखनं तथा।
गण्डूषाचमनं चैव वस्त्रमाल्यानुलेपनम् ॥५६॥
मुखवासं च ताम्बूलं तथा दर्पणपूर्वकम्।
स्कन्धशाटीं तथा तैलं सुगन्धं कुसुमावृतम् ॥५७॥
नेत्रवस्त्रावबद्धं च अपूपानि निवेदयेत्।
वीजयेत्तालवृन्तेन अभ्यङ्गं सम्यगाचरेत् ॥५८॥
अपूपादिनिवेद्यान्ते आचामं नागवल्लिकां।
कदलीमुष्णोकं चैव मुखालेपं समाचरेत् ॥५९॥
चन्दनं मुखलेपार्थं मुष्टिकर्पूरभावितम्।
तैलं बहुसुगन्धं च उदकं स्वादु शीतलम् ॥६०॥
शुद्धस्नानं ततः कृत्वा धौतवस्त्रं प्रदापयेत्।
अर्ध्यं च रजनीस्नानं पुनः स्नानं तथैव च ॥६१॥
धौतवस्त्रप्रदानं च पात्राणां च प्रकल्पनम्।
पूजनं पूर्ववत् कुर्यादर्घ्यदानं समाचरेत् ॥६२॥
पाद्यमाचमनीयं च गन्धालेपनमाचरेत्।
पवित्रं चोपवीतं च उत्तरासङ्गमेव च ॥६३॥
पुष्पमाला धूपदानं दीपं वेदैश्च पाठनम्।
नानाविधानि स्तोत्राणि गद्यपद्यगतानि च ॥६४॥
प्राकृतं मङ्गलंचैव पैशाचं मङ्लं तथा।
गीतमङ्गलकं चैव नृत्तं वाद्यं तथैव च ॥६५॥
सहस्रधारया स्नानं कलशस्नानपूर्बकम्।
द्वादशं नवकं वापि यथा वित्तानुसारतः ॥६६॥
घृतं पाद्यं दधि चैव अर्घ्यं क्षीरमतः परम्।
आचामं गन्धतोयं च पञ्चगव्यं कषायकम् ॥६७॥
यथा नवघटे प्रोक्तं द्वादशे वाधिकं शृणु।
रत्नं लोहं फलं पुष्पं मध्ये च चतुरः क्रमात् ॥६८॥
द्रव्याणामप्यलाभे तु तद्वर्गैकं प्रशस्यते।
नित्ये च स्नपने चैव कौतुकेनाङ्कुरार्पणम् ॥६९॥
निशाचूर्णैः स्नपनं नेष्यते मण्टपस्थले
अन्रान्तरयोगेन अर्घ्यदानं समाचरेत् ॥७०॥
सहस्रधारया स्नान मनुवाकत्रयं भवेत्।
विष्णुसूक्ताभिषेकं च श्रीसूक्तेन श्रियं तथा ॥७१॥
भूसूक्तेन भुवं प्रोक्तं स्नपने प्रत्यृचं भवेत्।
अष्टाक्षरेण वा सर्वं द्वादशाक्षरेण भवेत् ॥७२॥
स्नानान्ते भोजनान्ते च अलङ्कारासनान्तके।
सायाह्ने तु विशेषेण नीराजनमथाचरेत् ॥७३॥
भ्रामयेद्धटदीपेन एकधा वा द्विधा त्रिधा।
बहुदीपसमायुक्तं नीराजनपरिस्थितम् ॥७४॥
द्वयं चतुर्थं षट्कं वा अष्टकं दशकं तु वा
द्वादशं षोडशं वापि विंशं त्रिंशमथापि वा ॥७५॥
घटदीपं विशेषेण दीक्षितेन परिष्कृतम्।
अर्चयेदर्ध्यपुष्पाद्यै र्देवं तुष्ट्वा यथाक्रमम् ॥७६॥
भ्रामयेद्देवदेवेशे आपादतलमस्तकम्।
धौतवस्त्रद्वयेनैव शिरोगात्रं प्रमार्जयेत् ॥७७॥
अधरोत्तरवस्त्रं च शिरोवेष्टनमाचरेत्।
गीतवाद्यादिसंयुक्तमलंकारासनं नयेत् ॥७८॥
अलंकारैरलं कृत्य आसने च विशेषतः।
....... ...... .... ... .समाविशेत्? ॥७९॥
अर्घ्यादिकल्पनं कुर्यात् पूर्ववन्मत्रवित्तम।
द्वारार्चनं ततः कुर्यात् परिवारार्चनं तथा ॥८०॥
विष्वक्‌सेनार्चनं चैव पीठदेवार्चनं तथा।
अर्ध्यादिकं तथा कुर्यात् पाद्यमाचमनं तथा ॥८१॥
प्रतिग्रहत्रयं प्रोक्तं समाराधनकर्मणि।
कर्पूररजसायुक्तं शरीरस्नानमाचरेत् ॥८२॥
मृगमदं शिरस्नानं प्रोक्तं वै विष्णुना पुरा।
गात्रानुलेपनं कुर्यात् तथावै मिश्रचन्दनैः ॥८३॥
बाहुमूलद्बये विप्र कृत्रिमालेपनं भवेत्।
गन्धै र्नानाविधैः पुष्पै श्शिरोबेष्टनमाचरेत् ॥८४॥
मल्लदण्डसमाकारं कर्णिकाकारमेव च।
शिरोमाल्यैरलंकृत्य बाहुमूले प्रलम्बयेत् ॥८५॥
उपवीतं प्रदद्यात्तु भूषणानि तथैव च।
ललाटे तिलकं कृत्वा तथा चोर्ध्वं च पुण्ड्रकम् ॥८६॥
ताम्बूलं दर्पणं चैव धूपं दीपं तथैव च।
वाहनं चामरं छत्रं ध्वजं मङ्गलकीर्तनम् ॥८७॥
बेदधोषं पुराणञ्च शङ्खकाहलनादनम्।
गीतं नृत्तं तथा वाद्यं मात्रादानपुरस्सरम् ॥८८॥
प्रदक्षिणं नमस्कार स्तथा नीराजनं भवेत्।
भोज्यासने तु देवेशं त्रिभि र्भागवतैस्सह ॥८९॥
पाद्यमर्ध्यं तथाचामं मधुपर्कमनन्तरम्।
आचामं चैव ताम्बूलं तिलगोदानमेव च ॥९०॥
अङ्गशाटीं तथा दद्यादर्हणं भोजनं तथा।
पायसं चैव मुद्गान्नं शुद्धान्नं पायसैर्युतं ॥९१॥
पानकं चैव पानीयं गण्डूषाचमनं तथा।
वस्त्रेण मार्जनं कृत्वा गन्धालेपनमाचरेत् ॥९२॥
पाञ्चरात्रान् समाहूय अर्घ्याद्यैस्संप्रपूजयेत्।
तंत्रदानं ततः कृर्यान्मधुपर्कपुरस्सरम् ॥९३॥
मात्रादानं ततः कृत्वा ताम्बूलं च निवेदयेत्।
अक्षमालां समभ्यर्च्य जपकर्म समाचरेत् ॥९४॥
महानसं प्रविश्याथ होमकर्म समाचरेत्।
इति संक्षेपतः प्रोक्तं समाराधनमुत्तमम् ॥९५॥
इति श्रीपाञ्चरात्रे महोपनिषदि अनिरुद्धसंहितायां
समाराधनविधिर्नाम सप्तदशोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP