संस्कृत सूची|संस्कृत साहित्य|संहिता|अनिरुद्धसंहिता|
चतुर्थोऽध्यायः

अनिरुद्धसंहिता - चतुर्थोऽध्यायः

अनिरुद्धसंहिता


श्रीभगवान्---
दीक्षाबिधिमथो वक्ष्ये समासान्मुनिपुङ्गव।
उत्तरायणकाले तु दीक्षाकर्म समाचरेत् ॥१॥
सुभवारे शुभदिने शिष्यस्याथगुणान्विते।
यदा शिष्यमनः प्रीतं तदा कालमुदाहृतम् ॥२॥
शुक्लपक्षे विशेषेण द्वादश्यामपि दीक्षयेत्।
दीयते ज्ञानमेवेह क्षीयते पापसंचयः ॥३॥
दीयते क्षीयते चैव ततो दीक्षाऽभिधीयते।
दीक्षा च द्विविधा प्रोक्ता शास्त्रं मंत्रमिति द्विधा ॥४॥
प्रथमं शास्त्रदीक्षां च श्रृणु ब्रह्मन् महामुने
शास्त्रपारंगतं विप्रं पूर्वोक्तगुणसंयुतम् ॥५॥
गुरुमभ्यर्चयेच्छिष्यः शास्त्रविन्निरतं मुनिम्।
आचार्यवरणं पूर्वं द्रव्योपादानमेव च ॥६॥
अङ्कुरार्पणकञ्चैवमधिवासमनन्तरम्।
नेत्रकौतुकबन्धञ्च शास्त्रपीठाधिवासनम् ॥७॥
कुम्भमण्‍डलवह्निस्थदेवपूजापुरस्सरम्।
द्वारार्चनं पुरा कृत्वा प्रातस्नानमनन्तरम् ॥८॥
ऊर्ध्वपुण्ड्रविधानं च ज्ञापयेत् तन्त्रपारगः।
शङ्खचक्राङ्कितं कृत्वा द्वारादियजनं परम् ॥९॥
त्रिस्थानाभ्यर्चनञ्चैव नेत्रबन्धमनन्तरम्।
शास्त्रपीठार्चनं कृत्वा शास्त्रं संज्ञापयेत्सुधीः ॥१०॥
नेत्रवस्त्रं विमुच्याथ आचार्यवरपूजनम्।
एतत्कर्म मया प्रोक्तं तन्त्रेऽस्मिन् मुनिपुङ्गव ॥११॥
दीक्षाङ्कुरार्पणं वक्ष्ये अवधारय सांप्रतम्।
सप्तमे पञ्चमे वापि तृतीयेऽहनि वापयेत् ॥१२॥
कर्मारम्भदिनात्पूर्वं प्रवृत्ते तु निशामुखे।
मृद्ग्रहं पूर्वतः कृत्वा मण्डपालंकृतिं चरेत् ॥१३॥
पालिका द्वादशवराः मृदा संपूर्य देशिकः।
व्रीहीनास्तीर्यचैतासु तन्मध्ये पालिकां न्यसेत् ॥१४॥
तत्पूर्वे बीजपात्रं तु पश्चिमे कुम्भकं न्यसेत्।
द्वारपूजां ततः कृत्वा पुण्याहमपि वाचयेत् ॥१५॥
कुम्भे संपूजयेत्पश्चात् सोममन्त्रेण मन्त्रवित्
पात्राण्यभ्यर्चयेत्पश्चात् ब्रह्माविष्णुशिवात्मकान् ॥१६॥
बीजपात्रे तथा सोमं होममन्त्रेण होमयेत्।
तिलं मुद्ग्रं यवं माषं सर्षपं शालिमेव च ॥१७॥
निष्पावं च प्रियङ्गुं वा बीजाष्टकमुदाहृतम्।
बीजपात्रं ततः कुर्यात् तत्तन्मन्त्रेण साधकः ॥१८॥
बलिं कृत्वा तु परितो रक्षां कुर्यादतंन्द्रितः।
यावत्कर्मदिनान्तं च पूजनं सम्यगाचरेत् ॥१९॥
चतुस्थानमर्चनं कुर्यात् द्वारपूजापुरस्सरम्।
प्राशयेत्पञ्चगव्यं च विष्णुपादोदकं तथा ॥२०॥
पुण्याहं वाचयित्वा तु कौतुकं बन्धयेत्सुधीः।
यन्त्रमण्डलगं वापि नारायणकसंज्ञकम् ॥२१॥
वासुदेवाख्य यन्त्रं वा विष्णुयन्त्रमथापि वा।
केवलं मण्‍डलं वापि तंत्नकान्तारशोभितम् ॥२२॥
दिव्यमन्त्रोदितं वापि मण्डलं कारयेद्बुधः।
नेत्रंबन्धं ततः कृत्वा प्राणायामत्रयं चरेत् ॥२३॥
तत्त्वन्यासं ततः कृत्वा मातृकान्यसमाचरेत्।
मूलमन्त्रान्तरन्यासं मायासूत्रं च बन्धयेत् ॥२४॥
शास्त्रपीठं समभ्यर्च्य शयने सन्निवेशयेत्।
स्थापयेद्वाससा पश्चात् बलिं दत्वा समन्ततः ॥२५॥
जागरेण नयेद्रात्रिं प्रातः स्तुत्वा जनार्दनम्।
मायासूत्रं ततश्छित्वा शरावेषु विनिक्षिपेत् ॥२६॥
नेत्रबन्धं विसृज्याथ स्नापयेद्वा शिष्यकम्।
अलंकृत्य यथा न्यायं मण्डपे सन्निवेशयेत् ॥२७॥
स्वस्थाने तु समासीनो द्वारादियजनं चरेत्।
कुम्भमभ्यर्चयेद्विद्वान् मण्डलं तदनन्तरम् ॥२८॥
होमकार्यं ततः कृत्वा शास्त्रपीठार्चनं चरेत्।
प्राणायमादिकं कृत्वा मन्त्रन्यासपुरस्सरम् ॥२९॥
शिष्यमानीय पार्श्वे तु समासीनं तदन्तिके।
शास्त्रपीठं समानीस बोधयामास देशिकः ॥३०॥
संहितानामशेषानामाद्यन्तं वापि बोधयेत्।
एतत्तन्त्रमथोवापि यथाकार्यानुरूपतः ॥३१॥
आचार्यं पूजयेत् पश्चाद्वस्त्रहोमाङ्गुलीयकैः।
गोभूहिरण्यरत्नाद्यैर्यथा वित्तानुरूपतः ॥३२॥
शास्त्रदीक्षा मया प्रोक्ता तन्त्रदीक्षा तथैव च
ब्राह्मणस्य विशेषेण विधिरेषा प्रकीर्तिता ॥३३॥
क्षत्रियस्यादिशूद्रान्तं शास्त्रदीक्षा न विद्यते।
केवलं यन्त्र मन्त्रेण बोधयेद्देशिकोत्तमः ॥३४॥
मुद्रामात्रमथोवापि मन्त्रयन्त्रमथापि वा॥
इति श्रीपाञ्चरात्रं महोपनिषादि अनिरुद्धसंहितायां
शास्त्रदीक्षाविधिर्नाम चतुर्थोऽध्यायः

N/A

References : N/A
Last Updated : January 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP