संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|चतुर्थ: पाद:| सूत्र ४१-४३ चतुर्थ: पाद: सूत्र १-२ सूत्र ३-७ सूत्र ८ सूत्र ९ सूत्र १०-१३ सूत्र १४-१७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२-२३ सूत्र २४-२६ सूत्र २७ सूत्र २८ सूत्र २९-३३ सूत्र ३४ सूत्र ३५-३८ सूत्र ३९-४० सूत्र ४१-४३ सूत्र ४४-४६ सूत्र ४७ सूत्र ४८-४९ सूत्र ५० सूत्र ५१ सूत्र ५२ चतुर्थः पाद: - सूत्र ४१-४३ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ४१-४३ Translation - भाषांतर न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥४१॥न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ यदि नैष्ठिको ब्रम्हाचारी प्रमादादवकीर्येत किं तस्य ब्रम्हाचार्यवकीर्णी नैऋतं गर्दभमालभेतेत्सेतत्प्रायश्चित्तं स्यादुत नेति । नेत्युच्यते ।यदप्यधिकारलक्षणे निर्णीतं प्रायश्चित्तमवकीर्णिपशुश्च तद्वदाधानस्याप्राप्तक लत्वादिति तदपि न नैष्ठकस्य भवितुमर्हति ।किं कारणम् ।आरूढो नैष्टिकं धर्मं यरतु प्रच्यवते पुन: ।प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महेत्यप्रतिसमाधेयपतनस्मरणाच्छिन्नशिरस इव प्रतिक्रियानुपपत्ते: ।उपकुर्वाणस्य तु ताद्दक्यतनस्मरणाभावादुपपद्यते तत्प्रायश्चित्तम् ॥४१॥उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥४२॥उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ अपि त्वेक आचार्या उपपातकमेवैतदिति मन्यते ।यन्नैष्ठिकस्य गुरुदारादिभ्योऽन्यत्र ब्रम्हाचर्यं विशीर्येंत न तन्महापातकं भवति गुरुतल्पादिषु महापातकेष्वपरिगणनात् ।तस्मादुपकौर्वाणवन्नैष्ठिकस्यापि प्रायश्चित्तस्य भावमिच्छन्ति ब्रम्हाचारित्वाविशेषादवकीर्णित्वाविशेषाच्च । अशनवत् ।यथा ब्रम्हाचारिणो मधुमांसाशने व्रतलोप: पुन: संस्कारश्चैवमिमि ।ये हि प्रायश्चित्तस्याभावमिच्छन्ति न तेषां मूलमुपलभ्यते ये तु भावमिच्छन्ति तेषां ब्रम्हाचार्यवकीर्णीत्येतदविशेषश्रवणं मूलम् ।तस्माद्भावो युक्ततर: - तदुक्तं प्रमाणलक्षणे समा विप्रतिपत्ति: स्याच्छास्त्रस्था वा तन्निमित्तत्वादिति ।प्रायश्चित्ताभावस्मरणं त्वेवं सति यत्नगौरवोत्पादनार्थमिति व्याख्यातव्यम् ।एवं भिक्षुवैखानसयोरपि वानप्रस्थो दीक्षाभेदे कृच्छ्रं द्वादशरात्रं चरित्वा महाकक्षं वर्धयेद्भिक्षुर्वानप्रस्थवत्सोमवल्लिवर्जं स्वशास्त्रसंस्कारश्वेत्येवमादिप्रायश्चित्तस्मरणमनुसर्तव्यम् ॥४२॥बहिस्तूभयथापि स्मृतेराचाराच्च ॥४३॥बहिस्तूभयथापि स्मृतेराचाराच्च ॥ यद्यूर्ध्वरतेसां स्वाश्रमेभ्य: प्रच्यवनं महापातकं यदि वोपपातकमुबयथाऽपि शिष्टैस्ते बहि: कर्तव्या: ।आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुन: ।प्रायश्चित्तं न पश्यामि येन शुध्येत्स आत्महेति ।आरुढपतित्म विप्रं मण्डलाच्च विनि:सृतम् ।उद्बद्धं कृमिदष्टं च स्पृष्टवा चान्द्रायणं चरोदिति चैवमादिनिन्दातिशयस्मृतिभ्य: ।शिष्टाचाराच्च ।न हि यज्ञाध्ययनविवाहादीनि तै: सहाचरन्ति शिष्टा: ॥४३॥ N/A References : N/A Last Updated : December 21, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP