संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|चतुर्थ: पाद:| सूत्र १९ चतुर्थ: पाद: सूत्र १-२ सूत्र ३-७ सूत्र ८ सूत्र ९ सूत्र १०-१३ सूत्र १४-१७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२-२३ सूत्र २४-२६ सूत्र २७ सूत्र २८ सूत्र २९-३३ सूत्र ३४ सूत्र ३५-३८ सूत्र ३९-४० सूत्र ४१-४३ सूत्र ४४-४६ सूत्र ४७ सूत्र ४८-४९ सूत्र ५० सूत्र ५१ सूत्र ५२ चतुर्थः पाद: - सूत्र १९ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १९ Translation - भाषांतर अनुष्ठेयं बादरायण: साम्यश्रुते: ॥१९॥अनुष्ठेयं बादरायण: साम्यश्रुते: ॥ अनुष्ठेयमाश्रमान्तरमाचार्यो मन्यते । वेदे श्रवणात् ।अग्निहोत्रादीनां चावश्यानुष्ठेयत्वात्तद्विरोधादनधिकृतानुष्ठेयमाश्रमान्तरमिति हीमां मतिं निराकरोति गार्हस्थ्यवदेवाश्रमान्तरमप्यनिच्छता प्रतिपत्तव्यमिति मन्यमान: । कुत: साम्यश्रुते ।समा हि गार्हस्थ्येनाश्रमान्तरस्य परामर्शश्रुतिर्द्दश्यते त्रयो धर्मस्कन्धा इत्याद्या ।यथेव श्रुत्यन्तरविहितमेव गार्हस्थ्यं परामृष्टामेवमाश्रमान्तरमपीति प्रतिपत्तव्यम् ।यथा च शास्त्रान्तरप्राप्तयोरेव निवीतप्राचीनावीतयो: परामश उपवीतविधिपरे वाक्ये ।तस्मात्तुल्यमनुष्ठेयत्वं गार्हस्थ्येनाश्रमान्तरस्य ।तथैतमेव प्रव्राजिनो लोकमिच्छन्त: प्रव्रजन्तीत्यस्य वेदानुवचनादिभि: समभिव्याहार: ।ये चेमेऽरण्ये श्रद्धा तप इत्युपासत इत्यस्य च पञ्चाग्निविद्यया ।यत्तूक्तं तप एव द्वितीय इत्यादिष्वाश्रमान्तराभिधानं संदिग्धमिति ।नैष दोष: ।निश्चयकारणसद्भावात् ।त्रयो धर्मस्कन्धा इति हि धर्मस्कन्धत्रित्वं प्रतिज्ञातम् ।न च यज्ञादयो भूयांसो धमी उत्पत्तिभिन्ना: सन्तोऽन्यत्राश्रमसंबन्धान्त्रित्वेऽन्तर्भावयितुं शक्यन्त्रे ।तत्र यज्ञदिलिङ्गो गृहाश्रम एको धर्मस्कन्धो निर्दिष्टो ब्रम्हाचारीति च स्पष्ट आश्रमनिर्देशस्तप इत्यपि कोऽन्यस्तप: प्रधानादास्रमाद्धर्मस्कन्धोऽभ्युपगम्यते ।ये वेमेऽरण्य इति चारण्यलिङ्गाच्छ्रद्धातपोभ्यामाश्रमगृहीति: ।तस्मात्परामर्शेऽप्यनुष्ठेयमाशअमान्तरम् ॥१९॥ N/A References : N/A Last Updated : December 21, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP