संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|चतुर्थ: पाद:| सूत्र १८ चतुर्थ: पाद: सूत्र १-२ सूत्र ३-७ सूत्र ८ सूत्र ९ सूत्र १०-१३ सूत्र १४-१७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२-२३ सूत्र २४-२६ सूत्र २७ सूत्र २८ सूत्र २९-३३ सूत्र ३४ सूत्र ३५-३८ सूत्र ३९-४० सूत्र ४१-४३ सूत्र ४४-४६ सूत्र ४७ सूत्र ४८-४९ सूत्र ५० सूत्र ५१ सूत्र ५२ चतुर्थः पाद: - सूत्र १८ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १८ Translation - भाषांतर परामर्शं जैमिनिरचोदना चापवदति हि ॥१८॥परामर्शं जैमिनिरचोदना चापवदति हि ॥ त्रयो धर्मस्कन्धा इत्यादयो ये शब्दा ऊर्ध्वरेतसामाश्रमाणां सद्भावायोदाह्रता न ते तत्प्रतिपादनाय प्रभवन्ति ।यत: परामर्शमेषु शब्देष्वाश्रमान्तराणां जैमिनिराचार्यो मन्यते न विधिम् । कुत: ।न हयत्र लिङ्गादीनामन्यतमश्चोदनाशब्दोऽस्ति । अर्थान्तरपरत्वं चैष प्रत्येकमुपलभ्यते ।त्रयो धर्मस्कन्धा इत्यत्र तावद्यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रम्हाचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मनमाचार्यकुलेऽवसादयन्सर्व एते पुण्यलोका भवन्तीति परामर्शपूर्वकमाश्रमाणामनात्यन्तिकफलत्वं संकीर्त्यात्यन्तिकफलया ब्रम्हा्संस्थता स्तूयते ब्रम्हासंस्थोऽमृतत्वमेतीति ।ननु परामर्शेऽप्याश्रमा गम्यन्त एव । सत्यं गम्यन्ते ।स्मृत्याचाराभ्यां तु तेषां प्रसिद्धिर्न प्रत्यक्षश्रुते: ।अतश्च प्रत्यक्षश्रुतिविरोधे सत्यनादरणीयास्ते भविष्यन्ति अनधिकृअविषया वा ।ननु गार्हस्थ्यमपि सहैवोर्ध्वरेतोभि: परामृष्टं यज्ञोऽध्ययनं दानमिति प्रथम इति ।सत्यमेवं तथापि तु गृहस्थं प्रत्येवाग्निहोत्रादीनां कर्मणां विधानाच्छुतिप्रसिद्धमेव हि तदस्तित्वम् ।तस्मात्स्युत्यर्थ एवायं परामर्शो न चोदनार्थ: ।अपि चापवदति हि प्रत्यक्षा श्रुतिराश्रमान्तरं वीरहा वा एष देवानां योऽग्निमुद्वासमयते ।आचार्याय प्रियं धनमाहृत्यप्रजातन्तुं मा व्यवच्छेत्सी: ।नापुत्रस्य लोकोऽस्तीति तत्सर्वे पशवो विदुरित्येवमाद्या ।तथा ये चेमेऽरण्ये श्रद्धा तप इत्युपासते ।तप: श्रद्धे ये हयुवसन्त्यरण्य इति च देवयानोपदेशो नाश्रमान्तरोपदेश: संदिग्धं चाश्रमान्तराभिधानं तप एव द्वितीय इत्येवमादिषु ।तथैतमेव प्रव्राजिनो लोकमिच्छन्त: प्रब्रजन्तीति लोकसंस्तवोऽयं न पारिव्राज्यविधि: ।ननु ब्रम्हाचर्यादेव प्रव्रजेदिति विस्पष्टामिदं प्रत्यक्षं पारिव्राज्यविधानं जाचालानाम् । सत्यमेवमेतत् ।अनपेक्ष्य त्वेतां श्रुतिमयं विचार इति द्रष्टव्यम् ॥१८॥ N/A References : N/A Last Updated : December 20, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP