संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|चतुर्थ: पाद:| सूत्र २० चतुर्थ: पाद: सूत्र १-२ सूत्र ३-७ सूत्र ८ सूत्र ९ सूत्र १०-१३ सूत्र १४-१७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२-२३ सूत्र २४-२६ सूत्र २७ सूत्र २८ सूत्र २९-३३ सूत्र ३४ सूत्र ३५-३८ सूत्र ३९-४० सूत्र ४१-४३ सूत्र ४४-४६ सूत्र ४७ सूत्र ४८-४९ सूत्र ५० सूत्र ५१ सूत्र ५२ चतुर्थः पाद: - सूत्र २० ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र २० Translation - भाषांतर विधिर्वा धारणवत् ॥२०॥विधिर्वा धारणवत् ॥ विधिर्वाऽयमाश्रमान्तरस्य न परामर्शमात्रम् ।ननु विधित्वाभ्युपगम एकवाक्यताप्रतीतिरुपरुध्येत प्रतीयते चात्रैकवाक्यता पुण्यलोकफलास्त्रयो धर्मस्कन्धा ब्रम्हासंस्थता त्वमृतत्वफलेति । सत्यमेतत् ।सतीमपि त्वेकवाक्यताप्रतीतिं परित्यज्य विधिरेवाभ्युपगन्तव्योऽपूर्वत्वात् ।विध्यन्तरस्यादर्शनात् ।विस्पष्टाच्चाश्रमान्तरप्रत्ययाद्नुणवादकल्पनयैकवाक्यत्वयोजनानुपपत्ते: ।धारणबतायथाऽधस्ता त्स्मिधं धारयन्ननुद्रवेदुपरि हि देवेभ्यो धारयतीत्यव सत्यामप्यधोधारणनैकवाक्यताप्रतीतौ विधीयत एवोपरिधारणमपूर्वत्वात् ।तथा चोक्तं शेषलक्षणे विधिस्तु धारणेऽपूर्वत्वादिति ।तद्वदिहाप्याश्रमपरामर्शश्रुतिर्विधिरेवेति कल्प्यते ।यदापि परामश एवायमाश्रमान्तराणां तदापि ब्रम्हासंस्थता तावत्संस्तवसामर्थ्यादवर्श्यंविधेयाऽभ्युपगन्तव्या ।सा च किं चतुर्ष्वाश्रमेषु यस्य कस्यचिदाहोस्वित्परिव्राजकस्यैवेति विवेक्तव्यम् ।यदि च ब्रम्हाचार्यान्तेष्वाश्रमेषु परामृश्यमानेषु परिव्राजकोऽपि परामृष्टस्ततश्चतुर्णामपयाश्रमाणां परामृष्टत्वाविशेषादनाश्रमित्वानुपपतेश्च य: कश्चिञ्चतुर्ष्वाश्रमेषु ब्रम्हासंस्थो भविष्यति ।अथ न परामृष्टस्तत: परिशिष्यमाण: परिव्रडिव ब्रम्हासंस्थ इति सेत्स्यति ।तत्र तप:शब्देन वेखानसग्राहिणा परामृष्ट: परिव्राडपीति केचित् । तदयुक्तम ।न हि सत्यां गतौ वानप्रस्थविशेषणेन परिव्राजको ग्रहणमर्हति ।यथाऽत्र ब्रम्हाचारिगृहमेविनावसाधारणेनैव स्वेन स्वेन विशेषणेन विशेषितावेवं भिक्षुवैखानसावपीति युक्तम् ।तपश्चासाधारणो धर्मो वानप्रस्थानां कायक्लेशाप्रधानत्वात् ।तप: शब्दस्य तत्र रूढे: ।भिक्षोस्तु धर्म इन्द्रियसंयमादिलक्षणो नैव तप: शब्देनाभिलप्यते ।चतुष्ट्वेन च प्रसिद्धा आश्रमास्त्रित्वेन परामृश्यन्त इत्यन्याय्यम् ।अपि च भेदव्यपदेशोऽत्र भवति त्रय एते पुण्यलोकभाज एकोऽमृतत्वभागिति ।पृथक्त्वे चैष भेदव्यपदेशोऽवकल्पते ।न हयेवं भवति देवदत्तयज्ञदत्तौ मन्दप्रज्ञावन्यतरस्त्वनयोर्महाप्रज्ञ इति ।भवति त्वेवं देवदत्तयज्ञदत्तौ मन्दप्रज्ञौ विष्णुमित्रस्तु महाप्रज्ञ इति ।तस्मात्पूर्वे त्रय आश्रमिण: पुण्यलोकभाज: परिशिष्यमाण: परिव्राडेवामृतत्वभाक् ।कथं पुनर्ब्रम्हासंस्थशब्दो योगात्प्रवर्तमान: सर्वत्र संभवन्परिव्राजक एवावतिष्ठेत ।रूढयभ्युपगमे वाश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इति ।अत्रोच्यते ब्रम्हासंस्थ इति हि ब्रम्हाणि परिसमाप्तिरनन्यव्यापारतारूपं तन्निष्ठत्वमभिधीयते ।तञ्च त्रयाणामाश्रमाणां न संभवति ।स्वाश्रमविहितकर्माननुष्ठाने प्रत्यवायश्रवणात् ।परिव्राजकस्य तु सर्वकर्मसंन्यासात्प्रत्यवायो न संभवत्यननुष्ठाननिमित्त: ।शमदमादिस्तु तदीयो धर्मो ब्रम्हासंस्थताया उपोद्वलको न विरोधी ।ब्रम्हानिष्ठत्वमेव हि तस्य शमदमाद्युपबृंहितं कर्म स्वाश्रमविहितं यज्ञादि चेतरषां तव्द्यतिक्रमे च तस्य प्रत्यवाय: ।तथा च न्यास इति ब्रम्हा ब्रम्हा हि पर: परो हि ब्रम्हा तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत् ।वेदान्तविज्ञानसुनिश्चितार्था: संन्यासयोगाद्यतय: शुद्धसत्त्वा इत्याद्या: श्रुतय: । स्मृतयश्च तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा इत्याद्या ब्रम्हासंस्थस्य कर्माभावं दर्शयन्ति ।तस्मात्परिव्राजकस्याश्रममात्रादमृतत्वप्राप्तेर्ज्ञानानर्थक्यप्रसङ्ग इत्येषोऽपि दोषो नावतरति ।तदेवं परामर्शेऽपीतरेषामाश्रमाणां पारिव्राज्यं तावदब्रम्हासंस्थतालक्षणं लभ्येतैव ।अनपेक्ष्यैव जाबालश्रुतिमाश्रमान्तरविधायिनीमयमाचार्येण विचार: प्रवर्तित: ।विद्यत एव त्वाश्रमान्तरविधिश्रुति: प्रत्यक्षा ।ब्रम्हाचर्यं परिसमाप्य गृही भवेद्नृही भूत्वा वनी भवेद्वनी भूत्वा प्रव्रजेत् ।यदि वेतरथा ब्रम्हाचर्यादेव प्रव्रजेद्नृहाद्वा वनाद्वेति ।न चेयं श्रुतिरनधिकृतविषया शक्या वक्तुम् ।अविशेषश्रवणात् ।पृथग्विधानाच्चानधिकृतानामथ पुनरेव व्रती वाऽव्रती वा स्नातको वाऽस्नानको वोत्सन्नाग्निरनग्निको वेत्यादिना ।ब्रम्हाज्ञानपरिपाकाङ्गत्वाच्च पारिव्राज्यस्य नानधिकृतविषयत्वम् ।तच्च दर्शयति ।अथ परिव्राडिववर्णवासा मुण्डोऽपरिग्रह: शुचिरद्रोही भैक्षाणो ब्रम्हाभूयाय भवतीति ।तस्मात्सिद्धा ऊर्ध्वरेतसाश्रमा: ।सिंद्ध चोर्ध्वरेत: सु विधानाद्विद्याया: स्वातन्त्र्यमिति ॥२०॥ N/A References : N/A Last Updated : December 21, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP