चतुर्थः पाद: - सूत्र ९

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


तुल्यं तु दर्शनम् ॥९॥

तुल्यं तु दर्शनम् ॥ यत्तुक्तमाचारदर्शनात्कर्मशेषो विद्येति ।
अत्र ब्रूम: ।
तुल्यमाचारदर्शनमकर्मशेपत्वेऽपि विद्याया: ।
तथा हि श्रुतिर्भवत्येतद्ध स्म वै तद्विद्वांस आहुऋषय: कावषेया: किमर्था वयमध्येप्यामहे किमर्था वयं यक्ष्यामहे ।
एतद्धस्म वै तत्पूर्वे विद्वांसोऽग्निहोत्रं न जुहवाञ्चक्रिरे ।
एवं वै तमात्मानं विदित्वा ब्राम्हाणा: पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्तीत्येवंजातीयका ।
याज्ञवल्क्यादीनामपि ब्रम्हाविदामकर्मनिष्ठत्वं द्दश्यत एतावदरे खल्वमृतत्वमिति होक्त्वा याज्ञवल्क्यो विजहारेत्येवमादिश्रुतिभ्य: ।
अपि च यक्ष्यमाणो वै भगवन्तोऽहमस्मीत्यतल्लिङगदर्शनं वैश्वानरविद्याविषयम् ।
संभवति च सोपाधिकायां ब्रम्हाविद्यायां कर्मसाहित्यदर्शनम् ।
न त्वत्रापि कर्माङ्गत्वमस्ति ।
प्रकरणाद्यभावात् ॥९॥

N/A

References : N/A
Last Updated : December 20, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP