चतुर्थः पाद: - सूत्र २१

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥२१॥

स्तुतिमात्रमुपादानादीति चेन्नापूर्वत्वात् ॥ स एष रसानां रसतम: परम: परार्ध्योऽष्टमो यदुद्नीथ: ।
इयमेवर्गग्नि: साम ।
अयं वाव लोक एषोऽग्निश्चित: ।
तदिदमेवोक्थमियमेव पृथिवीत्येवंजातीयका: श्रुतय: किमुद्नीथादिस्तुत्यर्था आहोस्विदुपासनाविध्यर्था इत्यस्मिन्संशये स्तुत्यर्था इति युक्तम् ।
उद्नीथादीनि कर्माङगान्युपादाय श्रवणात् ।
यथेयमेव जुहूरादित्य: कूर्म: स्वर्गो लोक आहवनीय इत्याद्या जुहवादिस्तुत्यर्थास्तद्वदिति चे‍त् । नेत्याह ।
न हि स्तुतिमात्रमासां श्रुतीनां प्रयोजनं युक्तमपूर्वत्वात्  ।
विध्यर्थतायां हयपूर्वार्थो विहितो भवति स्तुत्यर्थतायां त्वानर्थक्यमेव स्यात् ।
विधायकस्य हि शाब्दस्य वाक्यशेषभावं प्रतिपद्यमाना स्तुतिरुपयुज्यत इत्युक्तं विधिना त्वेकवाक्य्त्वात्स्तुत्यर्थेन विधीनां स्युरित्यत्र ।
प्रदेशान्तरविहितानां तूद्नीथादीनामियं प्रदेशान्तरपठिता स्तुतिर्वाक्यशेषभावमप्रतिपद्यमानाऽनर्थिकैव स्यात् ।
इयमेव जुहूरित्यादि तु विधिसंनिधावेवान्नातमिति वैषम्यम् ।
तस्माद्विध्यर्था एवैवंजाती यका: श्रुतय: ॥२१॥

N/A

References : N/A
Last Updated : December 21, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP