संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|तृतीयोध्यायः|चतुर्थ: पाद:| सूत्र २४-२६ चतुर्थ: पाद: सूत्र १-२ सूत्र ३-७ सूत्र ८ सूत्र ९ सूत्र १०-१३ सूत्र १४-१७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२-२३ सूत्र २४-२६ सूत्र २७ सूत्र २८ सूत्र २९-३३ सूत्र ३४ सूत्र ३५-३८ सूत्र ३९-४० सूत्र ४१-४३ सूत्र ४४-४६ सूत्र ४७ सूत्र ४८-४९ सूत्र ५० सूत्र ५१ सूत्र ५२ चतुर्थः पाद: - सूत्र २४-२६ ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र २४-२६ Translation - भाषांतर तथा चैकवाक्यतोपबन्धात् ॥२४॥तथा चैकवाक्यतोपबन्धात् ॥ असति च पारिप्लवार्थत्व आक्यानानां सन्निहितविद्याप्रतिपादनोपयोगितैव न्याय्या ।एकवाक्यतोपबन्धात् । तथा हि तत्र तत्र संनिहिताभिर्विद्याभिरकेवाक्यता द्दश्यते प्ररोचनोपयोगात्प्रतिपत्तिसौकर्योपयोगाच्च ।मैत्रेयीब्राम्हाणे तावदात्मा वा अरे द्रष्टव्य इत्याद्यया विद्ययैकवाक्यता द्दश्यते ।प्रातईनेऽनि प्राणोऽस्मि प्रज्ञात्मा इत्याद्यया ।जानश्रुतिरित्यत्रापि वायुर्वाव संवर्ग इत्याद्यया ।यथा च स आत्मनो वपामुदखिददित्येवमादीनां कर्मश्रुतिगतानामाख्यानानां संनिहितविधिस्तुत्यर्थता तद्वत् ।तस्मान्न पारिप्लवार्थत्वम् ॥२४॥अत एव चाग्नीन्धनाद्यनपेक्षा ॥२५॥अत एव चाग्नीन्धनाद्यनपेक्षा ॥ पुरुषार्थोऽत: शब्दादित्येतव्द्यवहितमपि संभवादत इति परामृश्यते ।अत एव च विद्याया: पुरुषार्थहेतुत्वादग्नीन्धनादीन्याश्रमक्रर्माणि विद्यया स्वार्थसिद्धौ नापेक्षितव्यानीत्याद्यस्यैवाधिकरणस्य फलमुपसंहरल्यधिकविवक्षया ॥२५॥सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥२६॥सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ इदमिदानीं चिन्त्यते किं विद्याया अत्यन्तमेवानपेक्षाऽऽश्रमकर्मणामुतास्ति काचिदपेक्षेति ।तत्रात एवाग्नीन्धनादीन्याश्रमकर्माणि ज्विद्यया स्वार्थसिद्धौ नापेक्षन्त इत्येवमत्यन्तमेवानपेक्षायां प्राप्तायामिदमुच्यते सर्वापेक्षा चेति ।अपेक्षते च विद्या सर्वण्यास्रमकर्माणि नात्यन्तमनपेक्षैव ।ननु विरुद्धमिदं वचनमपेक्षते चाश्रमकर्माणि विद्या नापेक्षते चेति ।नेति ब्रूम: ।अत्पन्ना हि विद्या फलसिद्धिं प्रति न किंचिदन्यदपेक्षत उत्पत्तिं प्रति त्वपेक्षते । कुत: ।यज्ञादिश्रुते: । तथा हि श्रुति: ।तमेतं वेदानुवचनेन ब्राम्हाणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेति यज्ञादीनां विद्यासाधनभावं दर्शयति ।विविदिषासंयोगाच्चैषामुत्पत्तिसाधनभावोऽवसीयते ।अथ यद्यज्ञ इत्याचक्षते ब्रम्हाचर्यमेव तदित्यत्र च विद्यासाधनभुतस्य ब्रम्हाचर्यस्य यज्ञदिभि: संस्तवाद्यज्ञादीनामपि हि साधनभाव: सुच्यते ।सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।यदिच्छन्तो ब्रम्हाचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमीत्येवमाद्या च श्रुतिराश्रमकर्मणां विद्यासाधनभावं सूचयति ।स्मृतिरपि - कषायपक्ति: कर्माणि ज्ञानं तु परमा गति: ।कषाये कर्मभि: पक्वे ततो ज्ञानं प्रवर्तत इत्येवमाद्या ।अश्ववदिति योग्यतानिदर्शनम् ।यथा च योग्यतावशेनाश्चो न लाङ्गलाकर्षणे युज्यते रथचर्यायां तु युज्यते ।एवमाश्रमकर्माणि विद्यया फलसिद्द्धौ नापेक्ष्यन्त उत्पत्तौ त्वपेक्ष्यन्त इति ॥२६॥ N/A References : N/A Last Updated : December 21, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP