संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नवसाहसाङ्कचरितम्| सप्तदशः सर्गः नवसाहसाङ्कचरितम् प्रथमः सर्गः द्वितीयः सर्गः त्रितीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः नवसाहसाङ्कचरितम् - सप्तदशः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpadmaguptapoemकाव्यपद्मगुप्तमहाकाव्यसंस्कृत सप्तदशः सर्गः Translation - भाषांतर युद्धवर्णनंअथाहिविद्याधरराजसैन्यैर्निपीडितायां पुरि रत्नवत्यां ।भटाः सकोपं भुजदर्पभाजो निर्जग्मुराकृष्टकृपाणपट्टाः ॥१७-१॥अन्योन्यसङ्घट्टवशेन तेषां उदञ्चिताः काञ्चनकङ्कटेभ्यः ।युगान्तकालानलबीजशङ्कां न कस्य चक्रुः शिखिनः स्फुल्लिङ्गाः ॥१७-२॥भालेषु भीमा भृकुटीर्वहन्तो भृङ्गत्विषश्चासिलताः करेषु ।खुराग्ररुग्णावनिभिः सरोषं निरीयुरन्ये चतुरैस्तुरङ्गैः ॥१७-३॥न्यभादनीकं करिणां च सान्द्र- सिन्दूरपूरारुणगण्डभित्ति ।प्रत्यग्रदावानललीढकोटि- कुलाचलेन्द्रप्रचयोपमेयं॥ १७-४॥पुरो रणोत्सेकभृतां निरुद्धं ओघेन विद्याधरवाहिनीनां ।तत्पुञ्जितं सैन्यं अमर्त्यशत्रोर्बभूव मूले मणितोरणस्य ॥१७-५॥साटोपं आरोपितचापयाष्टिर्निबद्धतूणीरयुगो गजस्थः ।सो निर्जगामाथ महासुरेन्द्रो वेगादहंकार इवात्तदेहः ॥१७-६॥युगात्ययाम्भोधरनादधीरस्तस्योद्गतः सङ्गरतूर्यघोषः ।बद्धप्रतिश्रुन्ति नितान्तभीमश्चकार पातालबिलोदराणि ॥१७-७॥सत्पुष्करानञ्जनपुञ्जभासस्पथो जयस्याथ गजानसींश्च ।व्यापारयन्ति स्म रयेण वीरास्तत्प्रेरिता वैरिवरूथिनीषु ॥१७-८॥परस्परापातिकृपाणनिर्यत्- ज्वालावलीपल्लवितान्तरिक्षः ।अभूत्प्रवृत्तः समरो महाहि- विद्याधरेन्द्रासुरपुङ्गवानां॥ १७-९॥वीरेषु धावत्सु चरत्स्वमन्दं गजेषु वल्गत्सु तुरङ्गमेषु ।अकालकल्पात्यययशाङ्कितानि चकम्पिरे सप्त रसातलान्॥ १७-१०॥प्रकाशयन्तः करणप्रपन्न्चं सुराङ्गनाभिः स्पृहयेक्ष्यमाणाः ।अत्यद्भुतं नृत्तं इवारभन्त भटा रणप्राङ्गणरङ्गमध्ये ॥१७-११॥उत्प्लुत्य वेगात्पवमानमार्गं विद्याधरैर्दानजलाविलानि ।पटु व्यपाट्यन्त मतङ्गजानां तीक्ष्णासिपत्रक्रकचैः शिरांसि ॥१७-१२॥निपत्य कुम्भेषु महागजानां नीरन्ध्रमुक्तेषु पटु क्वणन्तः ।भान्ति स्म विद्याधरपुङ्गवानां मुक्ताट्टहासा इव खड्गपट्टाः ॥१७-१३॥आवर्ततां ऊर्मिलतायमान- निस्त्रिंशवल्लीवलयाकुलासु ।प्रपेदिरे पूर्वसुरोज्झितानि चक्राणि विद्याधरवाहिनीषु ॥१७-१४॥फणावलीष्वापतितोरगाणां अफल्गुरत्नोपलकर्कशासु ।कृपाणधरा मसृणीबभूव महासुराणां न तु सङ्गरेच्छा ॥१७-१५॥अमान्ति पातालतले प्रसस्रुः क्षितौ बिलद्वारविनिर्गतानि ।ज्याशब्दहृष्टासुरसिंहनाद- तुरङ्गहेषागजबृंहितानि ॥१७-१६॥प्रधावदश्वीयखुराहतानां अभ्युद्गतो रत्नभुवां परागः ।गीर्वाणचापच्छविलाञ्छितानि कृत्स्नानि चक्रे ककुभां मुखानि ॥१७-१७॥भटास्त्रपूर्णैः परितो गजानां स्वदानपङ्कोपचितैः पदाङ्कैः ।भयङ्कराभूत्तरुणार्कबिम्ब- सहस्रकीर्णेव रणाङ्गणोर्वी ॥१७-१८॥लूनाः समूलं सुभटासिपत्रैः सहस्रशः शोणितशीकरार्द्राः ।उत्तालवैवस्वततालवृन्त- विच्छित्तिमूहुः करिकर्णतालाः ॥१७-१९॥अन्योन्यकृत्तास्तरसा भटानां नवातपाताम्रनखत्विषोऽग्रे ।भुजा निपेतुः समं ईक्षणेन समौलिरत्ना इव पन्नगेन्द्राः ॥१७-२०॥अङ्गादसिप्रासपृषत्कभिन्नात्- असृक्प्रवाहेषु भृशं वहत्सु ।लीलागलद्गैरिकनिर्झराणां गजैर्जगाहे कुलपर्वतानां॥ १७-२१॥क्ष्मायां बभुःखड्गपृथक्कृतानि सहस्रशः शस्त्रभृतां शिरांसि ।कालेन सङ्ग्रामसरोन्तरालादुत्खण्डितानीव सरोरुहाणि ॥१७-२२॥कबन्धकण्ठोच्छलदस्रवन्तः समीपं एत्योपरि कङ्कयूथं ।मुहूर्तं इद्धारुणरत्नदण्डं अदृश्यत च्छत्रं इवान्तकस्य ॥१७-२३॥मुक्तैः समूहेन नभश्चराणां कुम्भेषु चक्रैः करिणां पतद्भिः ।अस्ताचलव्यायतवप्रपाति- पतङ्गबिम्बानुकृतिर्वितेने ॥१७-२४॥पतद्भटं निर्दलिताश्ववारं निकृत्तमत्तेभकरं क्षणेन ।व्यधायि विद्याधरसैनिकैस्तत्सनागवीरैरसुरेन्द्रसैन्यं॥ १७-२५॥हंसैरिव स्मेरतटाःसमन्तात्परिच्युतैः कुञ्जरकर्णशङ्खैः ।वोढुं प्रवृत्ता भवदुत्तरङ्गा झटित्यगाधा रुधिरस्रवन्ती ॥१७-२६॥विद्याधरव्यालभटावलुप्त- धैर्येषु नश्यत्सु महासुरेषु ।विश्वाङ्कुशो नाम सुरारिसूनुरथो रथेनाजिमहीं विवेश ॥१७-२७॥आकर्णकृष्ताद्धनुषः पतद्भिर्बालेन्दुलेखाकृतिभिः पृषत्कैः ।अरातिसैन्ये रणधीरवीरान्भीरूनिवैको विमुखीचकार ॥१७-२८॥तद्वीर्यनिर्वासितसौष्ठवानां विद्याधराणां अपतन्करेभ्यः ।धाराग्रलग्नद्विपकुम्भमुक्ताः सबाष्पलेशा इव खड्गलेखाः ॥१७-२९॥क्षणाद्वलन्ति स्म तदा हतानि बलानि विद्याधरपन्नगानां ।सरित्पयांसीव निशकरांशु- पूरप्रवृद्धार्णवपीडितानि ॥१७-३०॥न शेकतुस्तस्य गतिं निरोद्धुं विद्याधरेन्द्रोरगराजपुत्रौ ।रत्नाकरस्येव महेन्द्रसह्या वसह्यवेगं प्रलयोत्थितस्य ॥१७-३१॥दोर्दण्डकण्डूतिं अथास्य हर्तुं उद्भ्रूलतं भूपतिना नियुक्तः ।जवाज्जगामाजिपथं रथेन रमाङ्गदःकुण्डलितोऽग्रचापः ॥१७-३२॥तथोपलेभे समरोन्मुखस्य नादेन वृद्धिः शरजन्मनास्य ।चक्रे पदं बाष्पकणोत्करेण यथा कपोलेष्वसुराङ्गनानां॥ १७-३३॥दूरात्सुपर्वारिसुतं रथेन स रंहसा संमुखं आपतन्तं ।रुरोध तं बाणपरंपराभिर्यशोभटः कर्णं इवेन्द्रसूनुस्॥ १७-३४॥विश्वाङ्कुशः सत्कवचे मुमोच वक्षःस्थले हैमं अथास्य बाणं ।तटेऽञ्जनश्यामतनौ महाद्रेः शातह्रदं ज्योतिरिवाम्बुवाहः ॥१७-३५॥अलक्ष्यसंधानविमोक्षपातान्यशोभटस्यात्तरुषोऽपि रोपान् ।मूर्च्छालुठत्सारथिराहताश्वो रथः शशंसासुरनन्दनस्य ॥१७-३६॥विलासकाञ्चीं अथ कालरात्रेरुद्यत्क्रुधः पद्धतिं अन्तकस्य ।मौर्वीं पृषत्केण रमाङ्गदस्य चिच्छेद गीर्वाणरिपोस्तनूजः ॥१७-३७॥सन्नाभिबिम्बेन महाजिलक्ष्म्या वीरश्रियो विभ्रमनूपुरेण ।संरभ्य राहोरिव चक्रपाणिः स अप्यस्य चक्रेण शिरश्चकर्त ॥१७-३८॥ननर्त विद्याधरसुन्दरीणां गणो नदन्नूपुरं अम्बरेऽथ ।मौलौ शरक्षुण्णशिरस्त्ररत्ने चिक्षेप चास्यां अरपुष्पवृष्टिं॥ १७-३९॥दृष्टे शिरस्युत्फलिते स्वसूनोर्दिङ्मुललीनासु पताकिनीषु ।वज्राङ्कुशाः संमुखं आपपात पत्युर्विशां अस्तगिरेरिवार्कः ॥१७-४०॥मदाम्बुवर्षी समरेऽभिधावन्रेजे गजस्तस्य सहेमकक्ष्यः ।भिन्नेऽन्तराले पवमाननुन्नस्तमालनीलस्तडितेव मेघः ॥१७-४१॥पत्युः प्रसादस्मितरज्जुकृष्टा भटा विवृत्यास्य पुरो बभूवुः ।स्वजीवितान्याजिमुखे विहातुं अत्युत्सुका भङ्गमलीमसानि ॥१७-४२॥आरुह्य चन्द्रः खं इवाभिरामं नक्षत्रमालाभरणं गजेन्द्रं ।देवोऽपि तद्वैरितमो नियन्तुं अथ प्रतस्थे नवसाहसाङ्कः ॥१७-४३॥एकत्र पार्श्वे शशिखण्डनामा विद्याधरेन्द्रो नृपतेर्बभूव ।अरातिसेनानलिनीवनैक- शीतांशुरन्यत्र यशोभटश्च ॥१७-४४॥स्फुरत्फणछत्रमणिप्रतान- तेजश्छटाजर्जरितान्धकारः ।अफल्गुर्वीर्यः फणभृत्कुमारोऽप्यग्रेऽभवत्तस्य स रत्नचूडः ॥१७-४५॥विधूतनिस्त्रिंशतरङ्गितानि सबाणचक्रीकृतकार्मुकानि ।हतावशेषाणि पुरोऽस्य चेलुर्बलानि विद्याधरपन्नगानां॥ १७-४६॥रक्तासवक्षीबसहस्तताल- वेतालतालोच्छलिताट्टहासः ।महाभटानां असुनिर्व्यपेक्षं अन्योन्यं आवर्तत संपरायः ॥१७-४७॥चकाशिरे शस्त्रभृतां शिरःसु मिथः पतन्त्यः करवालवल्ल्यः ।मुक्ताः सलीलां त्रिदशाङ्गनाभिर्माला इवेन्दीवरपत्रमय्यः ॥१७-४८॥केषां चिदूहुः कवचानि शोभां क्व चित्क्व चिल्लोहितपाटलानि ।खेलज्जयश्रीचरणारविन्द- लाक्षारसेनेव नवाङ्कितानि ॥१७-४९॥हृदिप्रविष्टैरविशुद्धिमद्भिरभूद्व्यथा कापि शरैः परेषां ।दुरात्मनां साधुगुणैरिवाग्रे फलेन संयोगं उपेयिवद्भिः ॥१७-५०॥परस्परापातजुषां असीनां धाराच्युतः संयतिचूर्णरेणुः ।अवाप तापिच्छरुचिर्जयश्री- विलासकालाञ्जनधूलिलीलां॥ १७-५१॥पर्यायजातोभयसैन्यभङ्ग- करालकोलाहलकातराणां ।सुरारिविद्याधरसुन्दरीणां दोलेव शोकप्रमादावभूतां॥ १७-५२॥अथासुरेन्द्रद्विरदेन वेगादभ्युत्थितेनोद्गतदानधारं ।मध्येरणं मध्यमलोकभर्तुर्जवान्मदान्धो जघटे गजेन्द्रः ॥१७-५३॥महेभयोस्तत्र शिखाछलेन प्रतिप्रहारं रदजः कृषानुः ।कोशेषु विदुत्कपिशा मुहूर्तं व्यधादिवाष्टापदपत्रवल्लीः ॥१७-५४॥मुहुः प्रजानां अधिपेन गाढं आकृष्यमाणस्य शरासनस्य ।द्विषद्वधारम्भविधौ गभीरः क्रेङ्कारहुङ्कार इवोच्चचार ॥१७-५५॥परिस्फुरत्कुण्डलघृष्टपुङ्खास्तेन प्रयुक्तास्पृथुविक्रमेण ।प्रमृष्टकान्ताकुचपत्रलेखे लेखारिवक्षस्यपतन्पृषत्काः ॥१७-५६॥अरातिमुक्तेषु ततस्तनुत्राद्वह्निस्फुलिङ्गेषु समुल्लसत्सु ।मूर्तिर्बभासे वसुधाधिपस्य निर्यत्प्रतापाग्निकणछटेव ॥१७-५७॥हिरण्मयी पार्थिवबाणपङ्क्तिरत्युन्नते मूर्ध्नि महासुरस्य ।रेजे तरां अञ्जनपर्वतस्य लग्नेव तिग्मांशुमयूखमाला ॥१७-५८॥अभ्युद्गता भर्तुररातिबाण- क्षुण्णेन्द्रनीलाङ्गदरेणुराजिः ।अदृश्यतोद्दामभुजास्पदस्य पराक्रमाग्नेरिव धूमलेखा ॥१७-५९॥रमाङ्गदोऽप्युद्भ्रुकुटिः कृतास्त्रं वीरं द्विषः पार्श्वगतं निहत्य ।शरैरलावीज्जयवैजयन्तीं ज्योत्स्नासितं कीर्तिं इवासुरस्य ॥१७-६०॥अधःस्थितोड्डामरवैरिपत्ति- मुक्तेषु निर्लूनशरासनज्यः ।चिक्षेप चक्राण्यतिदीर्घबाहुः सः कालरात्रेरिव कङ्कणानि ॥१७-६१॥उत्प्लुत्य हेलाहतसंमुखारिर्विद्याधरेन्द्रोऽप्यसिना चकर्त ।जगज्जयस्तम्भं इवोद्धुरस्य सुरद्विषः काञ्चनकेतुदण्डं॥ १७-६२॥सो रत्नचूडोऽपि तथा भुशुण्ड्या पिपेष वैरिद्विषकुम्भपीठं ।सितातपत्रत्वं उदञ्चदाप यथास्य मुक्ताफलधूलिजालं॥ १७-६३॥तुङ्गं दधत्कर्कशतां अभीकः श्रीसिन्धुराजद्विपकुम्भयुग्मं ।पयोधरद्वन्द्वं इवाजिलक्ष्म्याश्चक्रेऽर्धचन्द्राङ्कितं इन्द्रशत्रुः ॥१७-६४॥परस्पराघट्टितदन्तकोटि- भ्रष्टाग्निवेशभ्रमं आदधन्ति ।रणाजिरे लोहितरञ्जितानि विरेजिरे कुञ्जरमौक्तिकानि ॥१७-६५॥चिक्षेप पृथीतिलके सुरारिर्यां यां इषुं कोपकषायिताक्षः ।तां तां जयाशां इव बाहुशाली शरैः सस्तस्यार्धपथे लुलोव ॥१७-६६॥तयोस्तथेष्वासप्रकर्ष- प्रत्युक्तकर्णार्जुनयोर्जयश्रीः ।सुवेलरत्नाकरयोरुदग्रा चकार वेलेव गतागतानि ॥१७-६७॥पत्युः प्रजानां असुरेश्वरोऽथ किरीटमाणिक्यचयं जहार ।मणिप्रसूनस्तबकप्रतानं कल्पद्रुमस्येव युगान्तवातः ॥१७-६८॥क्रोधादथार्धशशलाञ्छनसोदरेण बाणेन वासवरिपोर्नवसाहसाङ्कः ।चिच्छेद राम इव विश्रवसः सुतस्य पीनांसलोलमणिकुण्डलं उत्तमाङ्गं॥ १७-६९॥आसन्मुखानि ककुभां अभितोऽथ चित्र- वादित्रनादलहरीमुखरोदराणि ।देवस्य च त्रिदिवपुष्पमयं पपात माल्यं शिरस्यसुरवैरिपुरन्ध्रिमुक्तं॥ १७-७०॥लक्ष्मीपतेः पृथुभुजद्वयं आर्द्रसान्द्र- ज्याघातलाञ्छितं अलाञ्छितविक्रमस्य ।अत्यादरागतजितोर्जितवैरिलक्ष्मी- पादाब्जयावकनिषक्तं इवाचकाशे ॥१७-७१॥तस्याग्रतः कनककुण्डलताड्यमान- गण्डस्थलीलुलितकुङ्कुमपत्रलेखाः ।विद्याधरोरगकुरङ्गदृशः प्रमोद- सान्द्रोच्छलध्वनि जगुर्जयमङ्गलानि ॥१७-७२॥स्मित्वा यशोभटकरार्पितचापयष्टिरुन्मुक्तरत्नकवचः खचरेश्वरेण ।उद्भिन्नमौक्तिकनिभश्रमवारिबिन्दुर्देवो ममार्ज मुखं अंशुकपल्लवेन ॥१७-७३॥दत्ताभयोपनतपौरशतार्प्यमाण- रत्नोपधां अथ स रत्नवतीं प्रविश्य ।तं संयुगस्फुटपरीक्षितशौर्यसारं राज्ये रिपोः फणिकुमारकं अभ्यषिञ्चथ् ॥१७-७४॥मूर्तं मनोरथं इवोपवनात्सकन्दं आदाय तत्कनककोकनदं नरेन्द्रः ।आदातुं ईप्सितमहीन्द्रसुतेति रत्नं अभ्युत्सुकस्तदनु भोगवतीं प्रतस्थे ॥१७-७५॥देवः साहसिकोऽप्यमन्दमुरजध्वानानुमेयोत्सवां उन्नम्रैः परितो महीं मणिगृहैरुत्तम्भयन्तीं इव ।तां अत्युन्नतरत्नतोरणशिखाप्रेङ्खोलमुक्ताफल- प्रालम्बोच्छलदच्छकान्तिनिकरस्मेरां अवापत्पुरीं॥ १७-७६॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये हेमकमलहरणो नाम सप्तदशः सर्गः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP