संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नवसाहसाङ्कचरितम्| त्रितीयः सर्गः नवसाहसाङ्कचरितम् प्रथमः सर्गः द्वितीयः सर्गः त्रितीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः नवसाहसाङ्कचरितम् - त्रितीयः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpadmaguptapoemकाव्यपद्मगुप्तमहाकाव्यसंस्कृत त्रितीयः सर्गः Translation - भाषांतर अथ बहु चरतोऽस्य चापपाणेश्चकितवलन्मृगयूथवीक्षितस्य ।वनभुवि सुलभः परिश्रमोऽभून्न तु हरिणः स हृतेन्द्रचापशोभः ॥३-१॥धनुषि तनुभरं निधाय किंचित्तरुणतमालवने विनीतखेदः ।मृगरुधिरकलङ्कितेन देवः समविषमेण पथा पुरः प्रतस्थे ॥३-२॥_विन्ध्यकन्दरप्रवेशःअथ स चटुलषट्पदोपगीतं वनगजदानसुगन्धिगन्धवाहं ।परिसरं अभिनृत्तनीलकण्ठं न्यविशत विन्ध्यनगेन्द्रकन्दरस्य ॥३-३॥चटुलकृतकचग्रहः स गच्छन्वनलतया परिहासलोलयेव ।नरपतिरवशः कृतः स कामं वियति मुखेन्दुं उदञ्चयां चकार ॥३-४॥नमदवनिपतिः पतिः प्रजानां अयि! चपले नु विकृष्यते कचेषु ।विरम मुहुरितीव मन्युगुञ्जद्- ध्वनिभिरसावलिभिर्लताभ्यधायि ॥३-५॥कतिचिदलिनिपीतधूपगन्धाननतिविलम्बिपरार्ध्यमौलिरत्नान् ।त्वरितं अथ रमाङ्गदोऽस्य केशान्विपिनलताविटपान्तराच्चकर्ष ॥३-६॥_हंसदर्शनम्नृपतिरथ तदोन्मुखश्चरन्तं झटिति सितच्छदं अम्बरे ददर्श ।दधतं अधिगतां कुतोऽपि चञ्च्वा बिसलतिकां इव तारहारलेखां॥ ३-७॥विकसितकुमुदच्छदावदाते ततनिभृते पततां तती दधानं ।विरचयितुं उपायनं नृपेन्दोर्नवघटिते इव दन्तपत्रलेखे ॥३-८॥चितं अतनु विसर्पता समन्तात्किरणलतानिकरेण हारयष्टेः ।सितमणिमयसूचिनिर्मितस्य स्थितं इव जङ्गमपञ्जरस्य मध्ये ॥३-९॥तरलमणिरुचावृतं प्रकृत्या विदलितविद्रुमकन्दकाञ्चितुण्डं ।प्रणयनिहितपादयावकाङ्कं कमलवनस्थितिलोलयेव लक्ष्म्या ॥३-१०॥चरणयुगतले विभातकाल- स्फुटितजपाकुसुमाभिताम्रभासि ।स्वयं इव नलिनीवनप्रसूतेः परिचयतः कृतकान्तिसंविभागं॥ ३-११॥प्रतिपदं अतिदीर्घहारभारातवनमदुन्नमयन्तं उत्तमाङ्गं ।शिरसि निपततो निकामं उष्णानहिमरुचः किरणानिवोत्क्षिपन्तं॥ ३-१२॥विवृतमुखधृतस्य निष्पतद्भिस्तरलमणेररुणस्य कान्तिलेशैः ।अविरतं अरविन्दवृन्दपीतान्मधुपृषतानिव भूयसोद्वमन्तं॥ ३-१३॥परिखचितं अयत्नपूरिताशैरविरलमौक्तिकदामरश्मिजालैः ।यश इव परभूतभृतां निरुद्ध्य प्रसभं उपाहृतं आत्मनो यशोभिः ॥३-१४॥अभिनवबिसशङ्कयापहृत्य स्फटिकमयीं असमक्षं अक्षमालां ।विहगं इव विमानहंसपङ्क्तेर्विघटितं एकतरं चतुर्मुखस्य ॥३-१५॥च्युतं इव सितचामरं मघोनेः श्रमजडवारविलासिनीकराग्राथ् ।अपहृतं इव लोलपत्रजालं सुरसरितः पवनेन पुण्डरीकं॥ ३-१६॥हरहसितसितं दिवापि कान्ति- स्तबकं इवापतितं सुधाकरस्य ।अपि पतितं इवान्तरिक्षपीलोर्मघवदिभस्य विलासकर्णशङ्खं॥ ३-१७॥स च परिणतलोध्रधूलिशुक्लस्तरलं अवन्तिपतेश्चकार चेतः ।किसलयं इव बालचन्दनस्य स्तिमितगतिर्मलयाचलेन्द्रवातः ॥३-१८॥_नायकवर्णनम्अवददथ विबुद्धपुण्डरीक- प्रतिमं उपान्तचरे निधाय चक्षुः ।दशनमणिमयूखभिन्नवर्णां गिरिं इति मालवराजपूर्णचन्द्रः ॥३-१९॥सुरभिकुसुमचुम्बिनावनम्रां अलिपटलेन लतां इमां विना मे ।खगं अमुं उपदर्शयेत्क एवं गगनरमापतिपाञ्चजन्यं अन्यः ॥३-२०॥स्मरवरकरिहस्तशीकराणां विदधति रुचयो नवहारमौक्तिकानां ।विदधति रुचयोऽस्य चन्न्चुकोटौ कवलितबालमृणालसूत्रलीलां॥ ३-२१॥अयि! कथय सितच्छदः क्व चायं वननलिनीपुलिनान्तबद्धवासः ।अवनिपतिकलत्रकण्ठयोग्यः क्व च शशिबन्धुरनर्घ एष हारः ॥३-२२॥वनभुविपतितः कुतोऽयं अस्यां कथं अयं अस्य मुखातिथित्वं आप्तः? ।गुरुविभवपदस्य कस्य वा स्यादयं इति मे न परिच्छिनत्ति चेतः ॥३-२३॥अयं उचिततरः फणिस्त्रियो वा कुचकलशान्तरमर्त्ययोषितो वा ? ।नियतं उदधिं उद्रं ईदृशानि क्षितितलं आभरणानि न स्पृशन्ति ॥३-२४॥किं अपरं अनुगम्य एष हंसः श्रमजडपक्षतिरावयोर्वनान्ते ।अयि! यदयं अवामनस्य भूमिर्मुखधृतहारलतः कुतूहलस्य्॥ ३-२५ अ॥_रमाङ्गदवाक्यम्इति विरतवचस्युदीर्य तस्मिन्कृतिनि नृपे परमारवंशकेतौ ।स्फुरदधरविकीर्णदन्तकान्ति- प्रसरं इदं जगदे रमाङ्गदेन ॥३-२६॥जडरुचिरपि रोचते न कस्मै कथं अपि दीर्घगुणेन लब्धसङ्गः ।नरवर यदनेन हारदाम्ना तव पतगः स्पृहणीय एष जातः ॥३-२७॥उपवन इव सम्भवः कदाचिन्नृप घटते विपिनेऽपि हारयष्टेः ।यदसुरसुरनागराजकन्या इह विहरन्ति नगेन्द्रकन्दरेषु ॥३-२८॥शकुनिरयं इतो दिगन्तलग्नैरनुपममौक्तिकनिर्गतैर्मयूखैः ।तव विरचयतीव सूत्रपातं सुकृतनिधान! भविष्यतः शुभस्य ॥३-२९॥द्रुतं अयं अनुगम्यतां इदानीं अनुगमनेन यतोऽस्य हारलाभः ।फलं अधिकं अतोऽपि नः कदाचित्किं अपि भवेदयं अस्य हेतुः ॥३-३०॥तरुविटपलतान्तरेण गच्छन्भुवं अभजन्बहुमुक्तमेघवर्त्मा ।अयं अतिगुरुहारभारजातां श्रमजडतामलं आत्मनो व्यनक्ति ॥३-३१॥नयनपथं अयं यथा तवारात्त्वं अपि तथास्य सितच्छदस्य यातः ।अवनितलमृगाङ्क! यद्वनान्तश्चकितं इवायं इतस्ततः प्रयाति ॥३-३२॥निचुलवनं अतीत्य वर्ततेऽयं पुरत इमां अयं अब्जिनीं उपेतः ।नवजलधरशङ्कयेव शङ्के तरुणतमालवनादितो निवृत्तः ॥३-३३॥किसलयकलिताञ्जलिं त्वरावानयं उपसर्पति नीलसिन्दुवारं ।क्षणं अयं इह बालचूतमौलौ विचकिलमाल्यविलासं आदधाति ॥३-३४॥अयं अभिनवकर्णिकारयष्टिं झटिति घनस्तबकस्तनीं उपैति ।अयं अतिचपलो निसर्गरक्तां स्थलनलिनीं अवधीर्य देव! यातः ॥३-३५॥अयं इह हि लतां उपैति कौन्दीं कुसुमवतीं नवमाधवीं विलङ्घ्य ।क्वणदलिवलयासु नासु तेन स्खलितं इतः सहकारमञ्जरीषु ॥३-३६॥अभिसरति वनस्थलीं इवैतां मदनवतीमयमूढकामिलीलः ।स्फुरदतनुशिलीमुखस्य चाग्रे विचरति कर्णे इवायं अर्जुनस्य ॥३-३७॥श्रमं अपहरतस्तनूर्मिवातैरयं अतिथिर्वनपल्वलस्य जातः ।तरुततिषु तिरोहितोऽयं एतास्वयं अरविन्दवनादिवोज्जिहीते ॥३-३८॥कुरबकवनतः कदम्बराजिं व्रजति ततो मुचकुन्दकाननानि ।इति नगं अवगाहते सहारस्त्वं इव ध्र्तक्लम एष राजहंसः ॥३-३९॥कुरु विजयं इतो ममार्प्य एतद्धनुरधुना ससुवर्णपुङ्खबाणं ।यदयं इतगतिर्गतोऽतिदूरं जलपतगः सह नः कुतूहलेन ॥३-४०॥_हंसानुगमनम्इति कथयति चापं अर्पयित्वा समं इषुभिः स रमाङ्गदे नरेन्द्रस् ।पतगं अनु तं आत्तहारं हरति न कं नववस्तुसंप्रयोगः ॥३-४१॥ऋजु तं अथ विहायसा व्रजन्तं रभसवशादनुगच्छतो नृपस्य ।समजनि भृशं आयतोऽस्य पन्थास्तरुविटपावटवर्जनेन वक्रः ॥३-४२॥नृपतिरनुययौ वने विहङ्गं नृपतिं अभि प्रणयी रमाङ्गदोऽपि ।श्रुतं इव विशदं शुचिर्विवेकः कृतिनि विवेकं इवान्तरः प्रसादः ॥३-४३॥अथ कमलसरस्तरङ्गदोला- चलयविलोलरथाङ्गनामयुग्मं ।मदकलकलहंसनादकृष्टः श्रमविवेशः सः सितच्छदः प्रपेदे ॥३-४४॥विलुलितकबरीकलापमाल्या मृदुनवशैवलमेखला वहन्त्यः ।रतिरणं अवसाय यत्र नित्यं सह रमणैरमराङ्गना रमन्ते ॥३-४५॥सलिलगतधियाथ तेन दूरात्स गुरुरमुच्यत निःसहेन हारः ।जडहृतहृदयाः कियच्चिरं वा गुणमहतां इह भारं उद्वहन्ति ॥३-४६॥स च विततमरीचिचञ्चुलेखो विगलितहारलतामिषेण हंसः ।परिणतबिसकाण्डभङ्गपीतं पय इव विस्तृतधारं उज्जगार ॥३-४७॥अथ कनकमृणालिकायुगस्य द्युतिनिचयेन चितं विसर्पताधः ।अशिशिरमहसो विसारिणा खे वलयितं अंशुलताकदम्बकेन ॥३-४८॥तटभुवि तं अपश्यदापतन्तं पतिरवने रवतंसितायताक्षः ।सितं अभिनवहेमदण्डशोभि स्फटिकशलाकं इवातपत्रं ऐन्द्रं॥ ३-४९॥सरसि धवलिते ततः समन्तादमृतमरीचिरुचेव तस्य कान्त्या ।व्यधित बलवती वियोगपीडा पदं अपदे हृदयेषु चक्रनाम्नां॥ ३-५०॥अतिविततगुणैकधाम्नि तस्मिन्विधुरं अधःपतिते विशुद्धिभाजि ।कथं अपि वसुधाधिपः प्रमोदं झटिति जगाम गुणिष्वमत्सरो हि ॥३-५१॥अथ नभसि पिशङ्गसान्ध्यराग- च्छुरित इवाम्बरनिम्नगातरङ्गं ।कियदपि सरसस्तटे स गत्वा कमलरजःकपिशे ददर्श हारं॥ ३-५२॥स च सपदि रमाङ्गदोपनीतं कनकसरोरुहकान्तिना करेण ।निजयश इव मूर्तं आददे तं भुवनतलाभयदानदीक्षितेन ॥३-५३॥सुजनं इव गुणैरुपोढशोभं शुचितरबालमृणालसूत्रदीर्घैः ।अहमहमिकया कृतप्रवेशं तरणिकरग्लपितैरिवेन्दुपादैः ॥३-५४॥दधतं अरुणं अङ्गरागशेषं क्वचिदपि यष्टिषु तारमौक्तिकासु ।घटितं इव नवातपेन किंचिद्बहुनवया शशलक्ष्मणस्त्विषा च ॥३-५५॥अतिविततरुचिं वहन्तं अन्तस्तरलमणिं तरुणेन्द्रगोपश्¿भं ।अविरलं असकृन्निवासलग्नं ललितवधूहृदयादिवानुरागं॥ ३-५६॥कतिचिदपि लतान्तरे दधानं मृगमदलिप्ततलानि मौक्तिकानि ।शबलजललवैरिवात्तजन्मान्ययं अरनदीयमुनातिथेर्घनस्य ॥३-५७॥अनुगुणपदवीविनिर्गतासु प्रतिलतं आयतमौक्तिकप्रभासु ।रजनिकरमरीचिसूचिदीर्घैर्बहुभिरिव ग्रथितं मृणालसूत्रैः ॥३-५८॥अतिदृढं अनुरक्तया वितीर्णं मुखरमहोदधिमेखलां वहन्त्या ।उरसि निहितबन्धुजीवं उर्व्या विचकिलमाल्यं इव स्वयंवराय ॥३-५९॥अरुचदथ करे स तस्य बिभ्रद्युवतिरदच्छदकान्तिमध्यरत्नं ।किं अपि मनसिजेन शासनाङ्कः प्रहितनिजायुधचित्रपुष्पमुद्रः ॥३-६०॥शशिकररुचा स तेन रेजे मृदुकरपुष्करवर्तिना नरेन्द्रः ।अमरपुरधुनीसमुद्धृतेन त्रिदशकरीव मृणालकन्दलेन ॥३-६१॥उरसि नरपतेः पतंश्चकाशे कनकशिलाविपुले तदंशुपूरः ।अखिलभुवनकोशराजलक्ष्म्या निहित इवाधिकं उत्क्या कटाक्षः ॥३-६२॥विकृतिरुदधिशुक्तिएषु च्युतानां ध्रुवं इयं इन्दुकलासुधालवानां ।जलदजलकणोद्भवेषु कामं निवसति कान्तिरियं न मौक्तिकेषु ॥३-६३॥न किं अयं उडुमण्डलापवादः कुमुदवनानि पुरोऽस्य न त्रपन्ते ।कथं अयं अवधिर्न मुक्तिभाजां इति तं अवेक्ष्य स चिन्तयां चकार ॥३-६४॥स्फुरदुदरनिवेशितेन्द्रनीलां मदजलराजिं इव स्मरद्विपस्य ।अवनिपतिरपश्यदक्षराणां ततिं अथ हारमृणालिकान्तराले ॥३-६५॥अभिनवलिखितां इव प्रशतिं मदनमहानृपतेः स पार्थिवेन्द्रः ।इति निबिडकुतूहलाकुलस्तां ललितपदाभरणां अवाचयच्च ॥३-६६॥`मनसिजवरवीरवैजन्त्यास्त्रिभुवनदुर्लभविभ्रमैकभूमेः ।कुचमुकुलविचित्रपत्रवल्ली- परिचित एष सदा शशिप्रभायाःऽऽ ॥३-६७॥किं उ विपुलं इमं मनुष्यलोकं पुरं उत पर्वतपक्षशातनस्य ।किं उ युवतिरियं भुजङ्गभर्तुर्भुवनं अलङ्कुरुते शशिप्रभेति ॥३-६८॥वदति शशिमुखीं इतस्न दूरे तरुणविलेपनभिन्न एष हारः ।सरितं इव वनान्तरे समीरः स्फुतितसरोरुहरेणुना पिशङ्गः ॥३-६९॥कुसुमशरसखस्य कस्य चित्किं समजनि नाकतलाधिदेवतेयं ।उत मुकुलितमन्मथावतारे पथि विचरेऽधिनाककन्यकानां॥ ३-७०॥अपि कृतनयनोत्सवेन तन्वी तरुणसुधामधुरेण दर्शनेन ।मुदं उपजनेद्वने किं एषा ? मम शरदिन्दुकलेव कैरवस्य ॥३-७१॥इति कियदपि यावदेव चिन्ता- वशं अगमत्स मनुष्यलोकपालः ।धनुरपि निचुलं विधाय तावत्कुसुमशरोऽस्य बभूव पार्श्ववर्ती ॥३-७२॥अथ सम्भ्रमादनुचरेण निहिततमालपल्लवे ।आस्त तरुकुसुमसंवलिते सरसः सः सैकतशिलातले नृपः ॥३-७३॥आलक्ष्य स्तनसख्यलक्ष्मणि ततस्तस्मिन्कुरङ्गीदृशो मुक्तादाम्नि करोदरप्रणयितां आप्ते तुषारत्विषि ।विस्मृत्या सहसा हृतं चतुरया क्रोडीकृतं चिन्तया चेतः श्रीनवसाहसाङ्कनृपतेरुत्कण्ठयाकृष्यत ॥३-७४॥इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभाहारलाभो नाम तृतीयः सर्गः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP