संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नवसाहसाङ्कचरितम्| द्वादशः सर्गः नवसाहसाङ्कचरितम् प्रथमः सर्गः द्वितीयः सर्गः त्रितीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः नवसाहसाङ्कचरितम् - द्वादशः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpadmaguptapoemकाव्यपद्मगुप्तमहाकाव्यसंस्कृत द्वादशः सर्गः Translation - भाषांतर अथ मानवमीनलक्ष्मणो मणिपर्यङ्कगतस्य तस्य सा ।अपतत्फणिराजकन्यका जगदेकाभरणं स्मृतेः पथि ॥१२-१॥व्यधित प्रणयं दृशां पुरः कमनीयेषु स येषु वस्तुषु ।जनितोत्कलिकाशतैः सस्तैररतेरायतनं व्यधीयत ॥१२-२॥मुहुरङ्गलताविवर्तनैः श्वसितैः शून्यविलोकनेन च ।क्षितिभर्तुरुपान्तवर्तिना मदनाकल्पकं अन्वमीयत ॥१२-३॥कदलीदलदत्तमारुतो हृदयन्यस्तमृणालकन्दलः ।अथ तस्य बभूव यत्नवानुपचारे शिशिरे रमाङ्गदः ॥१२-४॥अभवद्द्वयं एव भूपतेः स्मरतप्तस्य मनोविनोदनं ।सुदृशः सः करातिथिः शरः सश्च हारः स्तनचन्दनाङ्कितः ॥१२-५॥मदनान्तरितोऽपि लङ्घितः पथि जातेन परिश्रमेण स ।स्तिमितः क्षणं आस्त क्ॐउदी- विशदक्ष्ॐअतिरोहिताननः ॥१२-६॥अथ पार्श्वचरेण सादरं मृदुसंवाहितपादपल्लवः ।सः कुरङ्गदृशेव निद्रया चतुरं लोचनयोरचुम्ब्यत ॥१२-७॥स्वपुरोपवने समुत्सुकः सुमुखीं स्वप्नप्रथेन पार्थिवः ।अवतंसितहेमपङ्कजां अथ तां अङ्कगतां व्यलोकयथ् ॥१२-८॥अभिकान्तं अपाङ्गपातिना जितनीलाब्जदलेन चक्षुषा ।दधतीं अपवर्तितं ह्रिया मुखं आपाण्डुकपोलमण्डलं॥ १२-९॥शरदिन्दुमरीचिनिर्मलं विगलद्वेपथुना स्तनांशुकं ।मुहुराक्षिपतीं अलक्षितं श्लथमुक्तावलयेन पाणिना ॥१२-१०॥नवपल्लवकान्तिना किं अप्यचिरावासितपुष्पकेतुना ।ललितां अधरेण बिभ्रतीं मुखचन्द्रांशुसटां स्मितच्छटां॥ १२-११॥जगदेकविलोकनोत्सवे वपुषि स्वेदकणैरलङ्कृतां ।उदितां इव मन्दराहतातुदधेर्लग्नसुधालवां श्रियं॥ १२-१२॥वलिताहितनिःसहाङ्गुलि- स्वकरश्लेषविशेषकम्पिनि ।पुलकिन्यधिकं विमुञ्चतीं चकितं वामकुचे विलोचने ॥१२-१३॥अतिभासुररत्नकुण्डलां अतिकान्तायतहारमण्डलां ।जघनश्लथहेममेखलां असमेषोरधिदेवतां इव ॥१२-१४॥_नायकोक्तिःअथ सस्मितं आत्तवेपथुः पतितो मन्मथपत्रिणां पथि ।इति तां प्रणयार्द्रगिरा सः किलाम्भोजमुखीं अवोचथ् ॥१२-१५॥वलितं न विभाति पृष्ठतः कबरीकान्तं इदं तवाननं ।अयि नीलपयोधलेखया सः परिष्वङ्गं इवेन्दुमण्डलं॥ १२-१६॥इदं अङ्गदवर्तिना करैर्मणिना रुद्धं इवेरितं ह्रिया ।न समर्थमितोपवर्तितुं वदनं ते ललिताङ्गि का गतिः ॥१२-१७॥इदं अर्धविलोकिताधरं मधुरापाङ्गतरङ्गितेक्षणं ।श्रियं आतनुते सितासितं सुतनु त्र्यश्रुविलोकितं तव ॥१२-१८॥मिलितस्तव गण्डलेखया सुदति स्वेदलवार्द्रपत्रया ।किं अपि स्पृहणीय एष मे मरुदासन्नदिवान्तशीतलः ॥१२-१९॥अयं उत्पलःपत्रलोचने तव बिम्बाधरपाटलच्छविः ।अवलोकय कर्तुं ईहते पदं अस्ताचलचूलके रविः ॥१२-२०॥दुरितघ्नं इदं सुदर्शनं दधता बिम्बं अनूरुसारथेः ।स्मरलक्ष्मि विहायसामुना तव कृष्णेन हृते विलोचने ॥१२-२१॥अरविन्दकरेण लोहितं कमलिन्या धृतं आतपाशुकं ।इदं उष्णकरेण कृष्यते वलितेनापरदिग्वधूं प्रति ॥१२-२२॥करुणार्पितलोचनं मिथः क्रमविश्लेषगलद्बिसाङ्कुरं ।इदं आर्द्रयतीव मे मनो मिथुनं मानिनि चक्रवाकयोः ॥१२-२३॥अवलोकय भीरु सम्प्रति त्रितयेन त्रितयं वियुज्यते ।द्युमणिः प्रभया, श्रियाम्बुजं प्रियया साश्रुरयं विहङ्गमः ॥१२-२४॥इदं अम्बरपल्वलोदरादतिताम्रद्युति कालदन्तिना ।रविवारिरुहं निरस्यते कनकस्निग्धमयूखकेसरं॥ १२-२५॥परिचुम्बति वारुणीं दिशं पुरतो रागहृते विवस्वति ।दिगियं शतमन्युलाञ्छिता भवति श्याममुखी मितोदरि ॥१२-२६॥इह भान्त्यतिलोहितातप- स्तबकाः पश्य वनान्तभूमयः ।तपनानुगमोत्सवाङ्किता दिनलक्ष्म्येव पदैः सयावकैः ॥१२-२७॥मदिराक्षि पुरोऽवलोक्यतां अपरस्यामयमानतो दिशि ।स्तिमितां अवगाहते गतिं गुरुगोत्रस्खलिताकुलो रविः ॥१२-२८॥अमुना शतपत्रबन्धुना सहसा सुन्दरि यद्यदुज्झितं ।समं अद्रिगुहामुखस्थितैस्तिमिरैस्तत्तदितःकटाक्षितं॥ १२-२९॥विरमन्नयि पल्लवाधरे सुरवीथीपथिको विरोचनः ।अयं अस्तगिरेर्निषीदति स्वकरामृष्टशिलातले तले ॥१२-३०॥इयं अश्रुतरङ्गितां दृशं द्वितये चक्रवधूर्विमुञ्चति ।नवकुङ्कुमलोहिते रवौ दयिते चान्द्रवियोगविक्लवे ॥१२-३१॥चलितोऽसि वद क्व मां विना विरहं सोढुं अहं न ते क्षमा ।कृतपङ्कजकुड्मलाञ्जलिर्नलिनी कान्तं इतीव याचते ॥१२-३२॥अनुपुञ्जितपिङ्गदीधिति- द्रुतलाक्षारुणदर्पणोपमं ।परतोऽस्तगिरेरिदं गलत्यनवद्याङ्गि पतङ्गमण्डलं॥ १२-३३॥सरले सह वारिजश्रिया निभृतं क्वापि गतः स भास्करः ।वद तेन विनाब्जिनी कथं क्षणदां अद्य नताङ्गि नेष्यति ॥१२-३४॥स्फुटविद्रुमराजिनैकतः सदृशं जातं उदञ्चता नभः ।सुदति त्वदपाङ्गपटले पटु सान्ध्ये महसि प्रसर्पति ॥१२-३५॥परिपिञ्जरितासिताम्बरैर्निबिडैः कं न हरन्ति हारिभिः ।अयि सायं इमाः पयोधरैर्धृतसन्ध्यातपकुङ्कुमैर्दिशः ॥१२-३६॥क्षणदाभिमुखेन खण्डिता ननु सन्ध्या तमसा मनस्विनी ।कुपितेव निवर्तते जवाततिवाचालविहङ्गनूपुरं॥ १२-३७॥तव चण्डि विडमयत्यदस्तनुसन्ध्यातपलिप्तं अम्बुजं ।मणिकुण्डलकान्तिसङ्करातिदं आताम्रकपोलं आननं॥ १२-३८॥उदितानि तमांसि सा च ते दयिता दैन्यं उपैति पद्मिनी ।दिनभर्तुरितीव शंसितुं सहसा सुन्दरि सन्ध्यया गतं॥ १२-३९॥निहितं बलिदीपकेषु तत्तपनेनाशु महः कृशोदरि ।स्वशरस्फुरितं मनोभुवा तव सवृईडविलोकितेष्विव ॥१२-४०॥अतसीकुसुमोपमं मुखे तदनु त्वत्कुचचूचुकद्युति ।अथ बालतमालमांसलं प्रसृतं संप्रति सर्वतस्तमः ॥१२-४१॥तरुकोटरमूकशारिकं निजनीडाङ्कनिलीनकोकिलं ।करभोरु सनिद्रबर्हिणं प्रमोदोद्यानं इदं निमीलति ॥१२-४२॥प्रसृतैर्गिरिकन्दरोदरातिदं इन्दीवरदामकान्तिभिः ।अधुना तिमिरैर्विगाह्यते भुवनं पद्मसरश्च दन्तिभिः ॥१२-४३॥तिमिराञ्जनभक्तिशोभिना धवलेनायतपक्ष्मपङ्क्तिना ।अमुना भवतीव चक्षुषा कुमुदेनैति रुचं कुमुद्वती ॥१२-४४॥उदरस्थितयोः कुतूहलातलिनोः श्रोतुं इवास्फुटं वचः ।कमलस्य निलीय निश्चलं दलसन्धिष्ववतिष्ठते तमः ॥१२-४५॥तरलेऽतिसितासितद्युताविह दोलायितं ईक्षणद्वये ।लिखितागरुपत्रलेखयोस्तिमिरं मूर्च्छति ते कपोलयोः ॥१२-४६॥उडुभिः खं इतस्ततः क्षणादुदितैर्भङ्गुरकेशि भात्यदः ।अतिगाढदिनोष्णजन्मभिः परितः स्वेदलवैरिवाङ्कितं॥ १२-४७॥शबलं शशलाञ्छनत्विषा सतमः पश्य महेन्द्रदिङ्मुखं ।अचलेन्द्रसुतास्मितच्छवि- छुरितं कण्ठं उमापतेरिव ॥१२-४८॥अहिराजसुते विलोक्यतां इयं इन्दोः प्रथमोद्गता कला ।अयि भाति यया इन्द्रदिङ्मुखे प्रमदेवार्द्रनखाङ्करेखया ॥१२-४९॥यदि कौतुकं आयतेक्षने न चिरादेव सुधार्द्रयानया ।अरविन्ददलद्युतौ करे मृदु लीलावलयं कर्ॐइ ते ॥१२-५०॥अनवद्यं इतः पुरः स्थितं विदितं किं शशिना तवाननं ।नभसः सहसाङ्कं एष यन्न कलङ्कत्रपयाधिरोहति ॥१२-५१॥इदं उद्गतं इन्दुमण्डलं दिगियं पश्य बिभर्ति लक्ष्मवथ् ।त्वं इवाच्छकपोलमण्डल- स्फुटकालागरुपत्रं आननं॥ १२-५२॥विगलत्तिमिरांशुके शनैः स्पृशति व्यक्तिं आधीरतारके ।इह पश्य निशावधूमुखे स्फुरति श्वेतमरीचिकुण्डलं॥ १२-५३॥अयं उल्लिखति ध्रुवं करैर्विधुरिन्दीवरलोचने तमः ।कुमुदेषु तथा हि दृश्यतां निपतन्त्यस्य लवा इवालयः ॥१२-५४॥इदं अञ्जननीलं आहतं पिहिताशं तुहिनांशुना करैः ।अचलेन्द्रगुहासु लीयते शनकैः संकुचितं पुनस्तनः(?) ॥१२-५५॥मसृणोल्लसदंशुमण्डल- छलतः पश्य दिवःकृतेऽनया ।इयं इन्दुसमुद्गकादितो निशया हारलतेव कृष्यते ॥१२-५६॥यदभूत्तमसा जगत्तथा पिहिते पुष्करपत्रलोचने ।तदिदं परतः प्रकाशितं शशिना कुङ्कुमकन्दपाण्डुना ॥१२-५७॥प्रसृतेव विलोचनोदरे तिलके सङ्कुचितेव चान्देन ।कलितेव नताङ्गि लक्ष्यते तव मुक्तावलयेषु चन्द्रिका ॥१२-५८॥कुचयोः प्रतिबिम्बितः समं विधुरेकोऽपि भवत्ययं द्विधा ।विधिनेव विभिन्नसंपुटस्तव लावण्यसुधासमुद्गकः ॥१२-५९॥हृतमुग्धमधूकशोभयोरनयोः पन्नगलोकक्ॐउदि ।तव चन्द्रकलाः कपोलयोः पतिताः स्पर्शकुतूहलादिव ॥१२-६०॥अयं इन्दुमुखि त्वया यथा समुपैति स्पृहणीयतां जनः ।अनयैष समागतस्तथा निशया पश्य कुरङ्गलाञ्छनस्॥ १२-६१॥धनुषि क्रियतेऽधिरोहणं स्मरमौर्वीलतया तनूदरि ।शशिनेरितया समुच्छ्रिते पुलिनाद्रौ च पयोधवेलया ॥१२-६२॥कृतचाटुशतैः परस्परं मकरन्दार्द्ररजःसुगन्धिषु ।स्थितं अन्तरमीषु सांप्रतं भ्रमरैः पुष्करवासवेश्मसु ॥१२-६३॥मरुता सुहृदेव वीजितं कुमुदामोदमुचा शनैरितः ।स्वपिति प्रणयार्द्रयोरिदं मिथुनं मानिनि राजहंसयोः ॥१२-६४॥अयि चक्रवधूरियं पुरः करुणं कूजति हा तपस्विनि ।इह साक्षितयालं आवयोरुचितं गन्तुं अतः कृपावति ॥१२-६५॥इति भूतलवासवः सस्तां अभिधाय प्रमदां प्रियंवदः ।प्रविवेश तयासमं किल प्रमनाः केलिनगेन्द्रकन्दरं॥ १२-६६॥झटिति स्फुटभावसङ्करां मधुरामङ्गलतां दधानया ।शशिकान्तशिलातलं ततः सः किलाध्यास्त तया युवान्वितः ॥१२-६७॥तदनु त्रपया पराङ्मुखीं पुलकालङ्कृतपीवरस्तनीं ।सः किलाञ्चितचाटुरानयत्सुमुखीं तां अनुकूलवृत्तितां॥ १२-६८॥अथ मन्थरलोचनं ह्रिया विनमत्स्मेरमुखः स्मितान्न्चितं ।सो ददर्श किल प्रजेश्वरः सुदृशः स्विन्नकपोलं आननं॥ १२-६९॥यदलं किल मानवत्यभूदृजुवन्नेन्दुमुखी किलैक्षथ् ।लिखितेव किलास्त यत्परं नृपतेस्तेन मनः किलाहरथ् ॥१२-७०॥परिमृज्य मुखं विलासिना श्रवणेन्दीवररेणुरूषितं ।सुदृशः शमवारिपङ्किलातलकान्तस्तिलकादपास्यत ॥१२-७१॥अथ तां शिथिलीकृतत्रपां असमप्रेमहृतः किलेश्वरः ।स्मरकेलिकलारसज्ञतां अनयद्यूथपतिर्वशां इव ॥१२-७२॥शिथिलाकुलकेशपाशया परिमृष्टार्द्रकपोलपत्रया ।विरलाधररत्नरागया सुलभस्वेदमुखेन्दुबिम्बया ॥१२-७३॥त्रुटितोज्झितहारलेखया निबिडाश्लेषकृशाङ्गरागया ।असमग्रनखाङ्गमण्डित- स्तनविन्यस्तसकम्पहस्तया ॥१२-७४॥अधिकाधिकजातलज्जया मृदुमीलन्नयनत्रिभागया ।अथ कां अपि निर्वृतिं तया सः किलापत्फणिराजकन्यया ॥१२-७५॥[Sय़्ण्ठाXः कुलकम्]ददता नलिनीदलानिलं विकसत्स्वेदकणे कुचद्वये ।चतुरं किल दीर्घचक्षुषस्तदनु क्लान्तिरनेन चिच्छिदे ॥१२-७६॥अथ सत्रपया धृतांशुकां जघनस्रस्तविसूत्रमेखलां ।अवतंसितलोचनोत्पलां निजं अङ्कं ललनां निनाय च ॥१२-७७॥सुदृशः सः किलान्यतश्चुतं(?) स्वपदे मौलिमणिं न्यवेशयथ् ।अकरोच्च किलारुणाङ्गुलिर्ललितावर्तनकुञ्चितान्कचान्॥ १२-७८॥पश्यात्र दर्पणतले लिखिता मयेयं पत्रावली तरुणि ते वलिताननेति ।स्वप्नान्तरप्रणयजल्पितं आत्मभर्तुरश्रूयत स्मितमुखेन रमाङ्गदेन ॥१२-७९॥अथ शुचि पठता शुकेन साम स्फुटं उटजाङ्गणपादपस्थितेन ।विरचितदयितासमागमस्य प्रसभं अभज्यत पार्थिवस्य निद्रा ॥१२-८०॥झटिति विगते स्वप्नायातप्रियानवसङ्गमे पुनोऽपि तथा तत्प्रत्याशानिमीलितलोचनः ।लिखित इव सः क्ष्मापालोऽभूत्क्षणं ननु तादृशां अपि मनसिजो धैर्यं लुम्पत्यहो बत साहसं॥ १२-८१॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये फणिराजसुतास्वप्नसमागमो नाम द्वादशः सर्गः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP