संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नवसाहसाङ्कचरितम्| चतुर्थः सर्गः नवसाहसाङ्कचरितम् प्रथमः सर्गः द्वितीयः सर्गः त्रितीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः नवसाहसाङ्कचरितम् - चतुर्थः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpadmaguptapoemकाव्यपद्मगुप्तमहाकाव्यसंस्कृत चतुर्थः सर्गः Translation - भाषांतर ततः सश्चेतस्यवनीपतिर्दधे शशिप्रभालोकमहोत्सवस्पृहां ।उपोढरागां उदधिस्तटोदरे नवोद्गतां विद्रुमकन्दलीं इव ॥४-१॥शशिप्रभाशानलिनीमृणालतां उपागते मौक्तिकदाम्नि सादरः ।तदागते दूत इव न्यवेशयत्स दर्शितप्रेमलवे विलोचने ॥४-२॥पुनः पुनः षट्पदराजिमेचकां तदिन्द्रनीलाक्षरपङ्क्तिं ऐक्षत ।स तत्क्षनान्मन्मथजातवेदसं तनीयसीं धूमलतां इवोद्गतां॥ ४-३॥सुगन्धिहारादनुलेपनं करे समुन्मिषत्स्वेदलवे विलुम्पति ।असङ्गताया अपि दीर्घचक्षुषः पयोधरस्पृशं इवाससाद स ॥४-४॥तदीयनामाङ्कलिपिं शनैः शनैः सलीलं आवर्तयितुं प्रचक्रमे ।परिस्फुरत्पल्लवपाटलाधरो रहस्यविद्यां इव मन्मथस्य स ॥४-५॥अनेकरूपालिखनप्रगल्भया सुतीक्ष्णया वर्तिकयेव चिन्तया ।सस्तां अनाप्तेक्षणसंस्तवां पुरा लिलेख चित्ते मुहुरन्यथान्यथा ॥४-६॥अनङ्गचण्डातपतप्तयोस्तदा शशिप्रभाविभ्रमदर्शनं प्रति ।द्वयोरभूदुत्सुकता वनान्तरे विलासिनस्तस्य च कैरवस्य च ॥४-७॥उदग्रदिग्वारणहस्तहारिणा स दक्षिणेन स्फुरता च बहुना ।स्थिरीकृताशो मनासापि दुर्लभां अदुर्लभां इन्दुमुखीं अमन्यत ॥४-८॥पुरो विमुञ्चन्नयने यदृच्छया नृपस्तमालद्रुमकाननोदरे ।अपश्यदत्रवासरे विलासिनीं पयोधमध्ये शशिनः कलां इव ॥४-९॥_नायकवाक्यम्अथैष दीर्घा दर्शनार्चिषः किरन्मुखामृतांशोः किरणच्छटा इव ।निरीक्ष्य तां उन्मदहंसगामिनीं रमाङ्गदं सस्मितं इत्यवोचथ् ॥४-१०॥शनैश्चरन्ती विपिने तव स्थिता नितम्बिनी कच्चिदियं दृशः पथि? ।अधीरतां दक्षिणमातरिश्वना लतेव नीता मसृणेन माधवी ॥४-११॥युता सिताभैः सुमनोभिरेतया परिश्लथेयं कबरी नियम्यते ।उदस्तभास्वत्करकान्तया श्रिया दिनस्य ताराशबलेव शर्वरी ॥४-१२॥असत्कवेर्वागिव वीतसौष्ठवं निवेशयन्ती पदं अव्यवस्थया ।असावनेकस्खलितैः समाकुला विमुच्य मार्गं किं इतः प्रतिष्ठते ॥४-१३॥हठेन नेतुं वशतां इवात्मनो मनोऽभिरामासु विलासभङ्गिषु ।धृतांशुका ताभिरियं पदे पदे लताभिरम्भोजमुखी निरुद्ध्यते ॥४-१४॥विचिन्वती किं चिदिवेयं आदरादपक्षमपातस्तिमिते विलोचने ।गतेऽवतंसोत्पलपत्रबन्धुतां इतस्ततः पद्मवने विमुञ्चति ॥४-१५॥मृदु प्रयान्तीयं अनिम्ननिम्नयोः सितांशुका कां अपि कान्तिं अश्नुते ।जले कला इव प्रतिबिम्बितैन्दवी वनानिलोदञ्चदवाञ्चदूर्मिणि ॥४-१६॥प्रसादं अस्माकं अरण्यदुर्लभैर्विधेहि सालक्तकपादताडनैः ।असावशोकैः क्षणं आश्रितैः श्रमातितीव मत्तालिरुतेन याच्यते ॥४-१७॥अभेदमूढस्तबकाभिरावृता लताभिरीषल्लुलितालिपङ्क्तिभिः ।इयं पुरो मारुतनर्तितालका न लक्ष्यते व्यक्तं अवामनस्तनी ॥४-१८॥ऋजु क्वचित्क्वापि अनृजु प्रवर्तते क्वचित्स्खलत्युच्चशिलातले पथि ।इयं शनैः शैलनदीव च क्वचित्विनम्रवानीरतलेन गच्छति ॥४-१९॥स्थिते परिष्वज्य सरोजिनीं इमां वने घनेऽस्मिन्कुसुमोन्मदालिनि ।प्रयाति सासूयं इयं कथंचन स्वहस्तसीमन्तितमार्गवीरुधि ॥४-२०॥क्वचित्क्वचित्स्वेदलवोद्गमो मुखे समाहृतेयं कबरी यथा तथा ।सयं च कम्पः कुचयोर्वधूरियं रतिश्रमव्याकुलितेव लक्ष्यते ॥४-२१॥अनेन रूपातिशयेन लीलया विविक्तनेपथ्यपरिग्रहेण च ।अरण्यसञ्चारपरा इयं एकिका कुतूहलं मे हृदये निषिञ्चति ॥४-२२॥असौ पराधीनतयास्पदीकृता न बालिका न प्रतिभासते न मम ।अयं स्फुरत्काञ्चनपद्मसोदरः सचामरोऽस्याः कथमन्यथा करः ॥४-२३॥इयं किं उ स्याद्वनदेवतागता ? गता धरां व्य्ॐअवधूरियं किं उ ? ।अवेक्षितुं हारं इहेयं आगता शशिप्रभावारविलासिनी किं उ ? ॥४-२४॥इतः सश्चित्राकृतिरीक्षतो मृगः सितच्छदादाप्तं इतो विभूषणं ।इतश्च दृष्टेयं इति स्प्रसूयते प्रसक्तं आश्चर्यं इयं वनस्थली ॥४-२५॥_पाटलाया नायकदर्शनम्इति प्रकृत्या मधुरोक्तिरुक्तवान्तयायताक्ष्या ददृशे विशाम्पतिः ।तमालपत्रापिहिते शिलातले कुमुद्वतीकान्त इवाम्बरे स्थितः ॥४-२६॥ततस्तदालोकनकौतुकेन सा स्थिता निमेषोज्झितपक्ष्मलेक्षणं ।विनिद्रसत्केसरपङ्कजा बभौ वने निवातस्तिमितेव पद्मिनी ॥४-२७॥_पाटलायाः स्वगतम्अचिन्तयत्सेति च पाटलाधरः सितारविन्दच्छददीर्घलोचनः ।मुखं सुधादीधितिसुन्दरं दधन्वने गतः कोऽयं अनङ्गविभ्रमः ॥४-२८॥व्यनक्ति कल्याणमयीयं आकृतिर्महीयसीमस्य महानुभवतां ।असत्यं एतासु रुचा वितन्वती लतासु कार्तस्वरपल्लवोद्गमं॥ ४-२९॥भुजेन चित्राङ्गदरत्नशोभिना सतारहारेण भुजान्तरेण च ।वदत्ययं मध्यमलोकपालतां परार्ध्यचूडामणिना च मौलिना ॥४-३०॥अनातपत्रोऽयं अत्र लक्ष्यते सितातपत्रैरिव सर्वतो वृतः ।अचामरोऽप्येष सतेव वीज्यते विलासवालव्यजनेन कोऽपि अयं॥ ४-३१॥प्रिया इयं आरूढगुणा सुवंशभूर्न चान्तिकं चापलतास्य मुञ्चति ।इमे पृषत्का अपि पार्थिवश्रियो विलासकर्णोत्पलपल्लवा इव ॥४-३२॥इतः शिलोत्सङ्गतले निषेदुषा दिवश्च्युतेनेव कुरङ्गलक्ष्मणा ।अधस्तरुणां अमुना विनीयते क्षणं मृगव्योपनतः परिश्रमः ॥४-३३॥अयं स न स्यान्नवसाहसाङ्क इत्यनङ्गलीलासु कृती भुवःपतिः ।स येन मुक्तो निजनामलाञ्छितः शशिप्रभाकेलिकुरङ्गके शरः ॥४-३४॥अयं स नो हार इवास्य दृश्यते करोदरे पल्लवपाटलत्विषि ।इतः किं एतस्य न सैकते सः किं सितच्छदो लोचनगोचरं गतः ॥४-३५॥सुवर्णपुङ्खे लिखितं शिलीमुखे तदस्य नामास्ति समानं आकृतेः ।यदद्भुतां एकपदे पृषत्कतां अगादनङ्गस्य शशिप्राभां प्रति ॥४-३६॥अनेन चेद्योगं उपैति दैवतः फनीन्द्रकन्या शशिनेव रोहिणी ।अनल्पलावण्यतिरस्कृतोपमं वपुस्तदस्याः सफलत्वं एष्यति ॥४-३७॥विधातुं एनां अहं एव वा क्षमा मितोदरीं अङ्कतलेऽस्य को विधिः ।ममेदृशे यद्विषये विमत्सराः स्तुवन्ति सख्यो मसृणोक्तिसौष्ठवं॥ ४-३८॥सहामुना किंचिदुपान्तवर्तिना वदत्यसऊद्गतदन्तदीधितिः ।कुतूहलाक्षिप्तनिमेषलास्यया विलोकयन्मां इव दीर्घया दृशा ॥४-३९॥_पाटलायाःसमीपगमनम्अथाधिगन्तुं किल तस्य पत्रिणो गतिं वनान्ते कथं अप्यलक्षितां ।तं अभ्यगात्सा नृपतिं सचामरा सरित्सफेना निधिं अम्भसां इव ॥४-४०॥समुच्चरन्नूपुरसिन्न्चितैः पदैर्यथा यथा संमुखं आजगाम सा ।तयायताक्ष्येव तथातथेरिता दृगस्य पश्चादपसारं आददे ॥४-४१॥शनैस्ततस्तां सविधोपसर्पणीं निरीक्ष्य हारं पिदधे नराधिपः ।निजोत्तरीयेण सितेन मारुतः शरद्धनेनेव शशाङ्कमण्डलं॥ ४-४२॥पयोधरोत्सङ्गनिवासलालितं व्यधादिमं पन्नगराजकन्यका ।इति प्ररोहद्बहुमानमन्थरो बभूव तस्मिन्नवनीपुरन्दरः ॥४-४३॥अनल्पलावण्यविलासजन्मभूर्विचित्ररत्नद्युतिभास्वरोर्मिका ।तमिद्धमुक्ताभरणं भुवःपतिं पयोधिवेलेव सुवेलं आप सा ॥४-४४॥अवाप देवः श्रियं अन्तिकस्थया तया स वालव्यजनाङ्कहस्तया ।निषेव्यमाणः स्फुटलक्ष्यदेहया नरेन्द्रलक्ष्म्येव यशःसमेतया ॥४-४५॥_पाटलाकृतः सत्कारःविभिन्नचूर्णालकभक्ति कुर्वती विकीर्णचूडामणिचन्द्रिकं शिरः ।अथानुभवेन निदेशितेव सा ननाम मानिन्यवशा विशांपतिं॥ ४-४६॥दृशा नरेन्द्रेण निदेशिते स्वयं शिलातले नातिविदूरवर्तिनि ।उपाविशत्सा रशनामणित्विषा निषिच्यमानेऽमरचापशोभिनि ॥४-४७॥_रमाङ्गदवाक्यम्तयातिदीर्घैर्दशनानुपातिभिर्विकृष्यमाणां इव भूषणांशुभिः ।इति क्षितीशेङ्गितवर्त्मदीपिकां उदीरयां आस गिरं रमाङ्गदः ॥४-४८॥अनेन विन्ध्याद्रिविहारजन्मना श्रमेण कामं भवती कदर्थिता ।प्रसुप्तजूटाहिमुखानिलोष्मणा जटाविटङ्केन्दुकलेव शूलिनः ॥४-४९॥अमी सरोजप्रतिमे मुखे मुहुस्तवातपाताम्रकपोलभित्तिनि ।समुन्मिषन्ति श्रमवारिबिन्दवो नताङ्गि लावण्यसुधालवासिव ॥४-५०॥इतोऽवतंसोत्पललास्यदेशिके निरन्तरं गन्धवहे वहत्यपि ।न घूर्णते खिन्नललाटसङ्गिनी तवालकश्रेणिरियं मनागपि ॥४-५१॥अनेन पीनस्तनकम्पदायिना निरायतेनोद्वहता कदुष्णतां ।अथ प्रवालादपि पाटलच्छविर्न दूयते निःश्वसितेन तेऽधरः ॥४-५२॥उदित्य पङ्क्त्या श्रमवारिविप्रुषां निरन्तराध्यासितरेखयानया ।तवैष कण्ठः कुटजावदातया विलासमुक्तालततयेव भूष्यते ॥४-५३॥इदं महच्चित्रं अमानुषं त्वया विगाह्यते यद्वनं अद्वितीयया ।इमाः क्व विन्ध्यस्य भुवोऽतिदुर्गमाः क्व राजवेश्माभरणं भवादृशी ॥४-५४॥नवोद्गताशोकपलाशकान्तिना निकामनिर्यन्नखचन्द्रिकेण च ।बिभर्षि कस्येदं अनेन पाणिना वदावधूतेन्दुमरीचि चामरं॥ ४-५५॥नृपस्य कस्यापि परिच्छदाङ्गना यदि त्वं उच्चैर्विभवो हि कोऽपि स ।मरुत्पतिर्मेनकयेव तन्वि यस्त्वयापि वालव्यजनेन वीज्यते ॥४-५६॥अथ र्धिमत्या परवत्यसि स्त्रिया कयापि कासौ जगदेकसुन्दरी ।नतभ्रु यस्याः स्मरचापयष्टयो विधेयतां यान्ति भवद्विधा अपि ॥४-५७॥परस्परस्पर्धि विलाससम्पदां त्रयं भवत्स्वामितया विकल्प्यते ।मरुत्वतो वा रमणी रमाथ वा कलत्रं अर्धेन्दुविभूषणस्य वा ? ॥४-५८॥इयं परिभ्रान्तिरगेन्द्रकन्दरे सखीव ते शंसति कार्यगौरवं ।भवादृशः श्वापददूषितेऽन्यथा चरन्त्यरण्ये किं अधीननीतयः ॥४-५९॥अनेन खेलन्मददन्तिना वद त्वं आगता चण्डि कुतो दुरध्वना ।विधाय विश्लेषविषादं आवयोः स्वकार्यनिष्ठे कथय क्व यास्यसि ? ॥४-६०॥_नायकवाक्यम्इति साभिहिता मृगायताक्षी समुपोढप्रणयं यशोभटेन ।सहसा न जगाद लज्जया नु श्रमतः किं तु नृपस्तु तां अवोचथ् ॥४-६१॥श्रान्तासि कौतुकहृतेन कदर्थितासि प्रश्नैरनेन विहितो न तवोपचारः ।आतिथ्यं एष कुरुते परं अङ्गलेखा- संवाहनैकचतुरो निचुलानिलस्ते ॥४-६२॥एवं निसर्गमधुरेण सुधारसैक- निष्यन्दिना फणिवधूरथ सा हसन्ती ।चन्द्रांशुना कुमुदिनीव दिनोष्मतप्ता वीतक्लमा नरपतेर्वचसा बभूव ॥४-६३॥इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये पाटलादर्शनं नाम चतुर्थः सर्गः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP