संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नवसाहसाङ्कचरितम्| दशमः सर्गः नवसाहसाङ्कचरितम् प्रथमः सर्गः द्वितीयः सर्गः त्रितीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः नवसाहसाङ्कचरितम् - दशमः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpadmaguptapoemकाव्यपद्मगुप्तमहाकाव्यसंस्कृत दशमः सर्गः Translation - भाषांतर नायकस्य रमाङ्गदं प्रति प्रश्नःअथ मेकलाचलसुतातिरोहितौ अतिमात्रविस्मयरसार्द्रमानसः ।दशनच्छविच्छुरितपाटलाधरः स रमाङ्गदं नृपतिरित्यवोचथ् ॥१०-१॥अधिरोहति स्वयं अचिन्तिताप्यहो शुभसम्पदङ्कं अपराङ्मुखे विधौ ।सवपुर्विलोचनपथं यदावयोरमृतांशुसूतिरियं आपदापगा ॥१०-२॥इदं इन्द्रजालं इति मे समुत्थितां मतिं एतदर्पितं उदारया तया ।विकसन्मरीचिरचितेन्द्रकार्मुकं करवर्ति रत्नवलयं विलुम्पति ॥१०-३॥अयि मेकलाद्रितनयापुरःकृते क्रियते किं अत्र वद कृत्यवस्तुनि ।तव यत्सदा नयरहस्यवेदिनो न धियश्चरन्त्यनयपांसुले पथि ॥१०-४॥_रमाङ्गदवाक्यम्इति पार्थिवेन कथिते दधन्मनाक्पुलकेन चुम्बितकपोलं आननं ।इदं आत्तनीतिपथं आददे वचः स्मितपुष्पिताधरदलो रमाङ्गदः ॥१०-५॥इह किं प्रतिस्फुरति मे तवाग्रतो नयशास्त्रनीरनिधिपारदृश्वनः ।अवलीढविश्वतमसः पुरो रवेर्न हि जातु दिपकशिखा प्रकाशते ॥१०-६॥विषयेऽत्र मौनं उचितं हि मादृशां अवशस्तथापि कथयामि किं चन ।क्षितिपालमौलिमणिवेणिकातिथेस्तव केन शासनं इदं विलङ्घ्यते ॥१०-७॥प्रथमं हि मण्डलं अखण्डशाक्तिभिर्विजिगीषुभिः स्वं अभितः प्रसाध्यते ।परमण्डले तदनु नीतिपारगैरवनीपुरन्दर, करः प्रसार्यते ॥१०-८॥तदपास्यं एवं अवितर्कितोत्थिते परिपन्थिनां इह विधेयवस्तुनि ।यदि नाभविष्यदभिमानशालिनस्तव राज्यं उद्धृतसमस्तकण्टकं॥ १०-९॥श्रुतशक्तिसङ्कलितमन्त्रनिश्चयैरुपलब्धषड्गुणविवेकवर्त्मभिः ।तदुपायतत्त्वं अधिगम्य धूः क्षितेस्तव मन्त्रिभिर्नृप दुरुद्वहोह्यते ॥१०-१०॥अतिसान्द्रकाञ्चनमरीचिपिङ्गलं दिगुपाहितप्रचुरपत्रशोभिनः ।तव कोशं उत्सृजति न क्षणं रमा परमारवंशसरसीसरोरुह ॥१०-११॥प्रियकीर्तयो जयपवित्रिताशयास्तरसा तृणीकृतजगत्त्रया युधि ।जगतीविशेषक तवानुजीविनो निवसन्त्यवन्तिविषये सहस्रशः ॥१०-१२॥पृथिवीभृतः प्रथितविक्रमेण ये गमितास्त्वया वशं उपायसम्पदा ।नयवर्त्मगाः क्षितिपते तवान्यथा न भवन्ति भाविसमराभिशङ्कया ॥१०-१३॥अपकर्तुं अत्र समये तवात्तभीर्मनसापि हूणनृपतिर्न वाञ्छति ।इभकुम्भभित्तिदलनोद्यमे हरेर्न कपिः कदा चन सटां विकऋषति ॥१०-१४॥असिकान्तिजालजटिलाग्रबाहुना रणसीम्नि नाथ निहतेषु भर्तृषु ।भवतात्र वागडवधूजनः कृतो रतिसन्धिविग्रहकथापराङ्मुखः ॥१०-१५॥अधुनापि देव मुरलाङ्गनाजनैस्विजयप्रशस्तिरिव लिख्यते तव ।गलदञ्जनाश्रुपृषतावलिच्छलाल्लसदिन्दुपाण्डुषु कपोलभित्तिषु ॥१०-१६॥रभसादपास्य मणिकङ्कणावलीः कनकारविन्दकतकेषु तेऽसिना ।न किं अर्पितानि नृप लाटयोषिता स्फटिकाक्षसूत्रवलयानि पाणिषु ॥१०-१७॥नयनाम्बुभिः स्नपितधूसराधराः प्रतिबद्धरूक्षमलिनैकवेणयः ।निहिता न किं महति शोकसागरे जगतीन्द्र कोसलपतेः पुरन्ध्रयः ॥१०-१८॥उदितेन वैरितिमिरद्रुहाभितस्तव नाथ विक्रममयूखमालिना ।गमिताः प्रभावलयशून्यतां झटित्यपरान्तपार्थिववधूमुखेन्दवः ॥१०-१९॥अतिवेलं उत्तरदिगन्तवर्तिना समरश्रमाभ्युदितघर्मबिन्दुना ।शरदिन्दुनिर्मलं अपायि भूभृतां असिपत्रपात्रपतितं त्वया यशः ॥१०-२०॥निजरन्ध्रगोपनपटीयसाभितः पररन्ध्रदृष्टिपटुचारचक्षुषा ।नयभिन्नसाहसभुवा भुवस्तले भवता समं कथय को विरुद्ध्यते ॥१०-२१॥नरदेव दैवं अधिकृत्य या विपत्निपतत्यवन्तिविषये कथं चन ।शिखिमुक्तमन्त्रहविषा विहन्यते तव सा वसिष्ठमहसा पुरोधसा ॥१०-२२॥नृप वासराणि निरुपप्लवाः प्रजाः सुखं आत्मकर्मणि रता नयन्ति यथ् ।विजयं जयैकसुहृदोऽस्य सर्वदा ननु कार्मुकस्य तव तद्विजृम्भितं॥ १०-२३॥इति किं चिदेव न तव स्वमण्डले नृप चिन्त्यं अस्त्युदितशक्तिसम्पदः ।अधुना तु नीतिनिहितेन चेतसा फणिलोककृत्यं इदं एव चिन्त्यतां॥ १०-२४॥प्रभुशाक्तिरुद्यमपरत्वं अर्पित- त्रिजगच्चमत्कृतिरहङ्कृतिश्च सा ।असुरस्य तस्य कथिता नरेन्द्र ते नगरी च मेकलनगेन्द्रकन्यया ॥१०-२५॥अभिगम्य एव सस्तवाधुना रिपुर्मरुतां उदारनिजकार्यसिद्धये ।श्रुतिलग्नगन्धगजबृंहितः क्षणं नृप केसरी कथय किं विलम्बते ॥१०-२६॥नवसाहसाङ्क, न तवासुरादहं कलयामि सम्प्रति किं अप्यतादृशं ।विधुतिः कदा चन विभो न भूभृतः कलविङ्कपक्षपवनेन शाङ्क्यते ॥१०-२७॥भवता यदोच्चलित एष दक्षिणश्चरणस्तदैव सुरवैरियोषितां ।विगलन्ति देव नयनोदबिन्दवः शरदिन्दुपाण्डुनि कपोलमण्डले ॥१०-२८॥विजयैकसद्मनि गुणः शरासने तव यावदत्र न नृपाधिरोहति ।तुहिनच्छटाधवलचामरस्मिता विलसन्ति तावदसुरालये श्रियः ॥१०-२९॥कनकारविन्दं अरविन्दलोचन प्रणयेन नैव सः समर्पयिष्यति ।सुरनिर्जयार्जितमदावृतेऽन्तरं लभते न साम किल तादृशं हृदि ॥१०-३०॥भवतः कुतोऽपि नृप यावदागमं न स वेत्ति तावदभियोक्तुं अर्हसि ।सहसान्यथा रहसि मन्त्रिबोधितः परितः स्वदुर्घटने यतिष्यते ॥१०-३१॥कृतनूतनार्गलकपाटसंपुटां सुभटैरुदायुधकरैरधिष्ठितां ।परितः सुखातपरिखां पुनः पुरीं रचितैकदुर्गं अपथां विधास्यति ॥१०-३२॥वलितेऽपि किं चन धनुःपरिग्रहे भुवनत्रयप्रथितसाहसे त्वयि ।अपि जायते धृतिविपर्ययो हरेरसुरेषु कैव गणना तपस्विषु ॥१०-३३॥नियतं, नरेन्द्र, विदत्फणामणि- स्फुरदंशुसूत्रितनवातपं नभः ।सुरवैरिवीर्यदृढमत्सरं पुरः फणिसैन्यं आजिभुवि ते भविष्यति ॥१०-३४॥अधुनैव तेऽत्र निजतां व्रजन्ति वा सुभटाः स्वयं विधिवशेन के चन ।कपयः पुरा रघुपतेर्यथा वने हनुमत्पतङ्गतनयाङ्गदादयः ॥१०-३५॥यदुदीरितश्च पुरुकुत्सकान्तया सरितासि वङ्कुमुनिदर्शनं प्रति ।प्रतिभाति किं चन ममैव तत्र ते किं उ निर्मुखेङ्गितविदस्तदिङ्गितं॥ १०-३६॥अथवैक एव विभुरस्यरेर्वधे ननु धाम तत्स्फुरति शार्ङ्गिणस्त्वयि ।उदितक्रुधस्त्रिपुरदाहडम्बरे शरतां अवाप किल यत्पिनाकिनः ॥१०-३७॥अवलोकयामि शकुनं यथा तथा तदवैमि पक्ष्मलदृशः सभान्तरे ।न चिरादुपोडःअपुलकेन पाणिना कनकारविन्दं अवतंसयिष्यसि ॥१०-३८॥त्वं इहैव नाथ मणिधाम्नि तिष्ठ वा न हि नाम तादृशं इदं प्रयोजनं ।असुरं निहत्य सहसैव तत्क्षणादहं आनयामि तपनीयपङ्कजं॥ १०-३९॥विजयी यदस्मि स्मरेषु जित्वराः प्रभवन्ति तत्र तव पादपांसवः ।अरुणो यदन्धतमसं निषेधति स्फुरितं नराधिप तदर्कतेजसां॥ १०-४०॥_नायकवाक्यम्मसृणोक्तिपल्लवितनीतिविक्रम- क्रमं इत्युदीर्य विरते रमाङ्गदे ।सः सरस्वतीमुखररत्ननूपुर- ध्वनिपेशलं नृपतिराददे वचः ॥१०-४१॥त्वदृते मुखात्सुखनिरस्तसंशय- प्रसरेयं भारती उल्लसति कस्य भारती ।शशलक्ष्मणः परमखर्वशर्वरी- तिमिरछिदुच्छलति कान्तिकन्दलि ॥१०-४२॥तव वेद्मि पौरुषं अहं त्वया विना न वपुःस्थितिं क्व चन कर्तुं उत्सहे ।धनुषीव दीर्घगुणसङ्गते यतस्त्वयि मे दृढप्रणयवासितं मनः ॥१०-४३॥गमने तदेहि सहितौ यतावहे झटिति त्रिविष्टपरिपोः पुरीं प्रति ।अपदे यदुद्यमकथाविरोधिनी न हि सिद्धये भवति दीर्घसूत्रता ॥१०-४४॥_शुकवाक्यम्इति पार्श्ववर्तिनं उदीर्य मौनवानभवत्स मालवकुरङ्गलाञ्छनः ।त्वरयावतीर्य सश्च रत्नपञ्जरात्पुरतः शुकोऽस्य पुन इत्यभाषत ॥१०-४५॥शृणु शङ्खचूडशुचिवंशभूरहं नृप, रत्नचूड इति नागरकः ।उदपादि कण्वमुनिशिष्यशापतः शुकता ममेयं अनिमीलितस्मृतिः ॥१०-४६॥प्रणयोक्तिभिर्मुनिरथ प्रसेदिवानिति मे सः शापतिमिरावधिं व्यधाथ् ।वशिनां रुषो मतिषु नासते चिरं जलविपुषश्च, नृप, सस्यसूचिषु ॥१०-४७॥त्वं अफल्गु नेष्यसि शशिप्रभान्तिकं नवसाहसाङ्कनृपतेर्यदा वचः ।नियतं भविष्यति तदा कुमार ते शुकरूपरूपपरिवर्तनोत्सवः ॥१०-४८॥तदनङ्गषष्ठशरं संदिश स्वयं शनकैः किं अप्युरगबालिकां प्रति ।हृदि यन्निधाय सहसैव याम्यहं फणिनां अनम्रमणितोरणां पुरीं॥ १०-४९॥अयि मौनं एतदवनीन्द्र, मुच्यतां द्रुतं उच्यतां च किं इयं मयि त्रपा ।पृथगस्मि देव न हि ते परिच्छदातुचितं न तन्मयि रहस्यगोपनं॥ १०-५०॥_नायकवाक्यम्इति वल्गु जल्पति शुकेऽथ विस्मयादपि विस्मयं परं अवाप पार्थिवः ।अवदच्च पञ्जरं इवास्य कल्पयन्दशनांशुभिः स्फटिकसूचिक्ॐअलैः ॥१०-५१॥विपदं विलोक्य तव दुःसहां इमां अयि रत्नचूड मम दूयते मनः ।पतितं कुकूलदहने न कस्य वा मृदुमालतीमुकुलमाल्यमाधये ॥१०-५२॥_नायिकां प्रति संदेशःघटितं विधेरिदं अजर्यं आवयोर्न रमाङ्गदान्मम सखेऽतिरिच्यसे ।इदं आर्य तत्त्वयि विमुक्तयन्त्रणो ननु संदिशामि हरिणीदृशां प्रति ॥१०-५३॥विरतेऽपि मेघतिमिरे नताङ्गि मे न गतासि लोचनपथं यदा तदा ।फणिलोकभूमिं अतिदुर्गमां इमां अविशं तव अनुपदं एव सुद्नरि ॥१०-५४॥नगरीं त्वदात्तहृदयोऽपि भोगिनां अहं आगतो न मृगदीर्घलोचने ।श्रुतयेन्दुसूतिसरितान्यतो हृतः सहसैव हेमशतपत्रवार्तया ॥१०-५५॥अतिपाटलाधरं अवाञ्चितं ह्रिया स्मितकान्तिमत्स्तिमितरत्नकुण्डलं ।तदपाङ्गसङ्कलितलोचनोत्पलं फणिलोकक्ॐउदि मुखं स्मरामि ते ॥१०-५६॥द्वितये द्वयेन सहसोज्झितस्तदा शशिसूतिसिन्धुपुलिनोदरे शरः ।जगदेकविभ्रमभ्वा भुवस्तले सुतनु त्वया मयि च पुष्पधन्वना ॥१०-५७॥धृतं ऊर्मिहस्तनिवहेन रेवया ननु फेनकान्ति करभोरु मे पतथ् ।विषये दृशोरुपदशं मनःशिला- लिखितैकहंसमिथुनं तवांशुकं॥ १०-५८॥मणिकान्तिलुप्ततिमिरे रसातले भवतीं इहानुसरता तनूदरि ।अवलोकितान्यथ मया पदानि ते सहसा सुवर्णसिकताङ्किते पथि ॥१०-५९॥सरले जठित्युदितकार्श्यदोर्लता- गैल्तानि रत्नवलयानि ते मया ।कथं अप्युदश्रुपृषतं पदे पदे चकितेन चन्द्रमुखि वीक्षितानि च ॥१०-६०॥मनसा किं आलिखति किं समाचरत्यधुना किं इन्दुवदना च वक्ति सा ।इति मेऽपदिश्य भवतीं प्रवृत्तया हृदयं सशल्यं इव हन्त चिन्तया ॥१०-६१॥परितापवत्यविरलोच्छलत्प्रभा- तुहिनच्छटाभिरसिताब्जलोचने ।शरदिन्दुदीधितिकलापसुन्दरस्तव हार एष हृदि सिञ्चतीव मां॥ १०-६२॥कथय प्रिये निहितसान्द्रचन्दन- द्रवशीतलोज्ज्वलकरा कुचद्वये ।मम हारयष्टिरपि सा सखीव किं मदनाभितापं अपटूकरोति ते ॥१०-६३॥क्षणं अप्यहो पतसि मे शुचिस्मिते न समुत्सुकस्य तव विस्मृतेः पथि ।झटिति प्रविश्य हृदये ममात्र किं लिखितासि पद्ममुखि पुष्पकेतुना ॥१०-६४॥समुद्वहन्ती स्रवदञ्जनाश्रु- घोरोत्करश्यामितकङ्कणेन ।करारविन्देन मुखेन्दुबिम्बं आपाण्डुरक्षामकपोलभित्ति ॥१०-६५॥नवे नवे पङ्कजिनीपलाश- मृणालहारादिसनाथपार्श्वे ।प्रवाललीलास्तरणे निषण्णा सिंहासने मन्मथपार्थिवस्य ॥१०-६६॥बालप्रवालाङ्कुरपाटलस्य लावण्यरत्नाकरकौस्तुभस्य ।उदूष्मणा निःश्वसितेन कान्तिं कदर्थयन्ती दशनच्छदस्य ॥१०-६७॥अनल्पसङ्कल्पविकल्पजाल- विलोडनैर्न स्वं अपि स्मरन्ती ।ससाध्वसेनाविरतं मया त्वं उत्प्रेक्ष्यसे पन्नगराजपुत्रि ॥१०-६८॥ब्रूमः कियन्नय कथं चन कालं अल्पं अत्राब्जपत्रनयने नयने निमील्य ।हेमाम्बुजं तरुणि तत्तरसापहृत्य देवद्विषोऽयं अहं आगत इत्यवेहि ॥१०-६९॥भद्रैतद्व्रज रत्नचूडनिबिडप्रेमार्द्रं अस्मद्वचस्तस्यास्तत्र कुरङ्गशावकदृशः कर्णावतंसीकुरु ।शापान्ते बत विस्मरिष्यसि भ्रातस्तदेकं किं अप्यादाय स्वयं एव तत्प्रतिवचः पार्श्वं ममाभ्येष्यसि ॥१०-७०॥इति नृपतेः स्वान्ते कृत्वा मन्ॐऋगवागुरां गिरं उदकमन्निस्त्रिंशाभे नभस्यशनैः शुकः ।चिरविनिहितां दृष्टिं तस्मान्निवर्त्य तथोत्सुको झटिति गमने देवोऽप्यसीत्सः साहसलाञ्छनः ॥१०-७१॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये रत्नचूडसंप्रेषणो नाम दशमः सर्गः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP