संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नवसाहसाङ्कचरितम्| पञ्चदशः सर्गः नवसाहसाङ्कचरितम् प्रथमः सर्गः द्वितीयः सर्गः त्रितीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः नवसाहसाङ्कचरितम् - पञ्चदशः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpadmaguptapoemकाव्यपद्मगुप्तमहाकाव्यसंस्कृत पञ्चदशः सर्गः Translation - भाषांतर अथ सान्द्रघर्मजलबिन्दु- लुलिततिलकः प्रचक्रमे ।हेमकमलसुभगे सरितः सलिले निमङ्क्तुं असितेक्षणाजनः ॥१५-१॥श्रमं एत्य मुञ्चत मदम्बु- रभसपरिरम्भलीलया ।एवं अवददिव दीर्घदृशः कलहंसयूथनिनदेन जाह्नवी ॥१५-२॥मरुतावधूतकलधौत- कमलमकरन्दगन्धिना ।ऊर्मिदलनशिशिरेण बलादबलाजनस्य नुनुदे परिश्रमः ॥१५-३॥परिविद्धरेखं अधितीर- विरचितपदे वधूजने ।कान्तिं उदवहदमर्त्यसरित्तटरूढकाञ्चनलतेव कां चन ॥१५-४॥सितचक्षुषां असितरत्न- रुचिमुषि मृणालिनीदले ।स्थूलजललवनिभेन दधे नवमौक्तिकार्ध इव जाह्नुकन्यया ॥१५-५॥उदितत्रपा इव विलास- मसृणगमनेन सुब्र्हुवां ।जग्मुरमरसरितः पुलिनं सहसा विहाय कलहंसपङ्क्तयः ॥१५-६॥धवलाभ्रकछुरितभित्ति- लिखितललिताङ्गनालिपिं ।अप्सु कुवलयदृशां प्रतिमाः सितरत्नदर्पणनिभासु लेभिरे ॥१५-७॥अथ वल्लभार्पितकराग्र- निहितनिजपाणिपल्लवाः ।वारिविकचकनकाब्जरजः- कपिशोर्मिमालं अबला जगाहिरे ॥१५-८॥सुदृशां निमज्ज्य सुरसिन्धु- पयसि नियमस्थितैरिव ।ऊर्मितरलितमयूखशिखैर्मणिनूपुरैः सपदि मौनं आददे ॥१५-९॥कुचलुप्तपत्रलतयाथ विगलितविसूत्रहारया ।प्रापि रतिरमणविलासतुला ललितभ्रुवां जलविहारलीलया ॥१५-१०॥नवकुङ्कुमारुणपुरन्ध्रि- कुचकलशताडितं पयः ।रागं अभजत न कस्य भवेत्सुलभाङ्गखेलदबलस्य विक्रिया ॥१५-११॥विकिरन्विहस्य मणिशृङ्ग- धृतं उदकं एत्य पृष्ठतः ।साचिमुकुलितदृशा ददृशे दयितो मुहुर्वलितकण्ठं एकया ॥१५-१२॥परिणाहवत्कुचनिषिद्ध- करणवलनोत्कदोर्लतं ।लोलमुखरमणिकङ्कणया विदधे जले मुरजवाद्यमन्यया ॥१५-१३॥हरिणीदृशो हृतपुरन्ध्रि- कुचकलशकुङ्कुमाङ्किता ।क्षिप्रं अधिजघनं ऊर्मिलता शिथिलेव हेमरशना विदिद्युते ॥१५-१४॥सलिलं किरन्तं अवलोक्य रमणं अपराङ्गनामुखे ।चित्रं अविरलधृताश्रुलवे निमिमील का चिदबला विलोचने ॥१५-१५॥द्रुतं अत्रुटद्विबुधसिन्धु- निबिडलहरीकराहतं ।हारवलयं अरविन्ददृशां कुशलं कुतोऽस्ति गुणिनां जडान्तरे ॥१५-१६॥शुशुभे कयापि करयन्त्र- निहितशुचिवारिधारया ।मुक्तसितकुसुमसायकया मकराङ्कचापलतयेव बालया ॥१५-१७॥परिवेषविभ्रमनिवेशि- मनसिजतुषारदीधितेः ।कोऽपि करकिसलये कमिता विदधे मृणालवलयं मृगीदृशः ॥१५-१८॥हृदयेशमुक्तजलधौत- मलयजविलेपनैर्ह्रिया ।लक्ष्यनवनखपदावपरा नलिनीदलेन पिदधे पयोधरौ ॥१५-१९॥अभितोऽङ्गनामुखमृगाङ्कं उडुनिकरकान्तिं आददे ।केलितरलतरुणीनिबिड- स्तनताडिते पयसि बुद्बुदोतकरः ॥१५-२०॥विदधे वधूर्निजकराग्र- गलितमणिकङ्कणाङ्किते ।मेघशकल इव सेन्द्रधनुर्वलयोदरे नयनं अब्जिनीदले ॥१५-२१॥असिताञ्जनाङ्कं अभिजात- कुवलयदृशां दृशोऽन्तराथ् ।नीरमहृत न हि शुद्धिमतां तटवृत्तिराश्रितकलङ्कमार्जने ॥१५-२२॥तरलोर्मिलङ्घितनितम्ब- फलकलुलिताच्छवासः ।फेनपटलं असिताब्जदृशः क्षणं एकं अंशुकविलासं आददे ॥१५-२३॥सुदृशः स्फुटं नवनखाङ्कं उरसि जलधतकुङ्कुमे ।कान्तनिहितनयनं पिदधे पृथुहारतारतरलांशुपल्लवः ॥१५-२४॥लुलिताञ्जनस्य नयनस्य सहभुवं इवेक्षितुं श्रियं ।लग्नजलसरलितैरलकैर्लुलुठे ललाटतटसीम्नि सुभ्रुवः ॥१५-२५॥दधतीव कापि रुचिं आप मनसिजविलासवल्लकीं ।अंसविनिहितमृणाललता- तलवर्त्यलाबुपरिवर्तुलस्तनी ॥१५-२६॥सलिलाहतित्रुटितहार- परिगलितमौक्तिकभ्रमाथ् ।मुग्धयुवतिरपरा निदधे दृशं अब्जिनीदलपुटोदबिन्दुषु ॥१५-२७॥धवलोदरैर्भयवशेन तरलवलितैर्विलोचनैः ।नीलनलिनदलदामदृशां शफरैः समं सुचिरं अप्सु बभ्रमे ॥१५-२८॥गलिताङ्गदा गुरुतरङ्ग- दलितमणिकर्णपूरकाः ।स्रस्तकनकवलयाः सुदृशः श्लथबन्धरत्नरशनाश्चकाशिरे ॥१५-२९॥अतिकम्पं ऊर्मिकुटिलभ्रु बहलनवकुङ्कुमारुणं ।स्त्रैणकरतलनिरस्तं अभूदुपजातकोपं इव जाह्नवीजलं॥ १५-३०॥अकरोत्पदं पृथुनितम्ब- विलुलितजलार्द्रवेणिषु ।नीरलवशबलगण्डतलास्वबलासु कुण्डलितकार्मुकः स्मरः ॥१५-३१॥च्युतरत्नभूषणमरीचि- रचितसुरचापमण्डलं ।केशकुसुमशबलं शुशुभे सुदृशां अनङ्गमददीपनं पयः ॥१५-३२॥अथ ताभिरेकतपनीय- सरसिजसनाथपाणिभिः ।श्रीभिरिव समुदतारि ततः पुनरुक्तचाटुपटुभिः प्रियैः सह ॥१५-३३॥सजलांशुकान्तिविशदाङ्ग- जनितनिबिडत्रपाकुलाः ।व्यक्तनवनखपदाभरणाः प्रियलोचनान्यरमयन्मृगीदृशः ॥१५-३४॥अथ ता गृहीतशरदिन्दु- धवलसिचयाः प्रसाधनां ।चक्रुरधिवपुरमर्त्यसरित्- पुलिनस्थलीकनकवल्लिधामसु ॥१५-३५॥तिलकाङ्किताः प्रचुरपुष्प- परिमलमुचो मृगीदृशः ।ऊढनवललितपत्रलता दधुरङ्गजोपवनराजिविभ्रमं॥ १५-३६॥न चिरादलङ्कृतिविशेष- विहितरुचयोऽतिपेशलाः ।लक्ष्यनवनवरसाः शुचयः कविपुङ्गवोक्तय इवाङ्गना बभुः ॥१५-३७॥वहति स्म निर्मलकपोल- लिखितमृगनाभिपत्रकं ।कापि निभृतमधुपावलिमत्कलधौतकोकनदकान्तं आननं॥ १५-३८॥अधिकर्णं उद्गतमयूख- मरकतमनोहरोदरं ।बालं इव मदनकल्पतरोर्दलं एकया कनकपत्रं आददे ॥१५-३९॥धृतयावकाङ्कं अपि कान्त- वदनपरिचुम्बनोचिते ।रागमधुररुचके निदधे दयिते च का चन चकोरलोचना ॥१५-४०॥हरिणाङ्कसुन्दरं अनेक- विशदगुणगुम्फिताकृतिं ।हारं अवहदपरा न परं हृदि कान्तं अप्यसमबाणदीपनं॥ १५-४१॥इतरा पदाङ्कं इव मत्त- मदनकरिणोऽलिकोदरे ।सान्द्रमृगमदनमषीरचितं तिलकं कुरङ्गतिलकानना दधे ॥१५-४२॥हृतसुप्तहेमशतपत्र- रुचिमुकुलिताङ्गुलीदले ।का चिदितरकरसङ्घटितं निदधे विलासमणिकङ्कणं करे ॥१५-४३॥उदितासु काञ्चिगुणमध्य- मरकतमरीचिसूचिषु ।व्यक्तिं अलभत न र्ॐअलता स्मरदीपकज्जलशिखा मृगीदृशां॥ १५-४४॥सरसागसेव रमणेन चरणनलिनानुषङ्गिणा ।पुष्पशरतरलिता दधिरे मणिनूपुरेण मृगलोचना रुचिं॥ १५-४५॥दधतीभिरिन्दुकरजाल- शबलतिमिरोर्मिविभ्रमं ।ऊढधवलकुसुमाभिरलं कबरीलताभिरबलाश्चकाशिरे ॥१५-४६॥प्रियपाणिपङ्कजधृतेषु सकलशशिबिम्बबन्धुषु ।वक्त्रकमलं अविलोलदृशो मणिदर्पणेषु ददृशुः पुरन्ध्रयः ॥१५-४७॥प्रकटं दधज्झटिति रागं अलघुं अथ वारुणीं प्रति ।कान्तिनिकर इव तिग्मरुचेर्वनिताजनोऽभिमुखतां समाददे ॥१५-४८॥उदियाय मानतिमिरौघ- विघटनपटुर्मनोऽम्बरे ।बालकुवलयदृशां विशदे शनकैर्मनोभुवकुरङ्गलाञ्छनः ॥१५-४९॥अरुणाङ्गुलीदलनिरुद्ध- नवकनककोशकर्णिकैः ।सान्द्रमधुपरिमलई रुरुचे करपङ्कजैरथ चकोरचक्षुषां॥ १५-५०॥मणिशुक्तिषु क्षणं उपोढ- कुवलयसुगन्धिसीधुषु ।न्यस्यदसमशरयन्त्रं इव भ्रमति स्म भृङ्गकुलं उत्सुकोत्सुकं॥ १५-५१॥रुरुचेऽलिमण्डलं उदंशु- कमलचषकोपरि स्थितं ।एकं इव रतिपतेरुदितं तपनीयदण्डं असितोष्णवारणं॥ १५-५२॥विधृता करे प्रियतमेन कतिपयशिलीमुखान्विता ।चित्तं अकृत विवशं सुदृशां कुसुमेषुकार्मुकलतेव वारुणी ॥१५-५३॥अतिरागिणि प्रणयिणीव मधुनि परिचुम्बितानने ।व्यक्तिं अलभत मदो हृदये पुलकः कपोलफलके च सुभ्रुवां॥ १५-५४॥प्रतिमागतेन्दुकरजाल- धवलितं इव श्रियं दधे ।पाननमितमुखमुग्धवधू- विगलद्विलासहसितछटं मधु ॥१५-५५॥मधु कापि पाटलकपोल- तरलकलधौतकुण्डला ।लोलनिजमुखतुषारकर- प्रतिबिम्बगर्भं अभिकार्पितं पपौ ॥१५-५६॥अतिरक्तं आयततरेण विलसदसितोत्पलश्रिया ।कामं अपिबदपरेन्दुमुखी चषकेण सीधु, नयनेन वल्लभं॥ १५-५७॥अगमत्त्रयस्य समं एव परिमलरसज्ञतां अलिः ।कल्पविटपिमधुनः प्रमदा मुखमारुतस्य विकचोत्पलस्य ॥१५-५८॥अधराग्रचुम्बनं अवाप्य कमलदलदीर्घचक्षुषां ।श्वासतरलं अजनिष्ट मुदा मुहुरात्तलास्यं इव कापिशायनं॥ १५-५९॥मदं आसवेन रमेण नखपदं इवार्पितं हृदि ।नातिविशदपदबन्धमथो नवसाहसाङ्कचरितं जगुः स्त्रियः ॥१५-६०॥मदिरार्पिताधरदलेन युवतिरमृतछटोपमा ।प्रेमरसमृदुषु दीर्घदृशां हृदयेषु पल्लवयति स्म मन्मथं॥ १५-६१॥दयिताहिते युवजनेन विलसदतिपाटलद्युतौ ।कामसुहृदि विहितः प्रणयः प्रथमं मधुन्यधरपल्लवे ततः ॥१५-६२॥अवधूतमानमधुपान- रसरभसतः प्रसन्नतां ।प्रापुरतिपृथुदृशां सहसा हृदयानि चाच्छमणिभाजनानि च ॥१५-६३॥दयितां अनङ्गमदसूतिं असितनलिनावतंसकां ।सान्द्ररुचियुवजनो मदिरां परिचुम्बति स्म न परं वधूं अपि ॥१५-६४॥अनयन्सहैव शिथिलत्वं उभयं उभयेन योषितां ।व्रीडं अरुणरुचिना मधुना मणिकाञ्चिदाम च करेण कामिनः ॥१५-६५॥सुदृशां मदादथ परिस्रुदरुणितसितोदराः कराथ् ।पेतुरमरसरितः पुलिने मणिशुक्तयः प्रियतमे च दृष्टयः ॥१५-६६॥नवपल्लवारुणं उवाह धृततरुणवारुणीमदः ।रागं अथ शुचिनि गण्डतले नयनोदरे च मदिरेक्षनाजनः ॥१५-६७॥अपरिस्फुटोक्तिललितासु मदमुकुलदीर्घदृष्टिषु ।तासु शबलकुसुमांसलसत्- कबरीलतासु पदं आदधे स्मरः ॥१५-६८॥आपानभूरवसितासवरागदीर्घ- सेन्दीवरस्फटिकशुक्तिशता चकासे ।कौतूहलान्मदविलोलवधूविलास- व्यालोकनोन्मिषितवक्त्रपरम्परेव ॥१५-६९॥अविरलमणिदीपोद्द्योतदूरापसर्पत्- तिमिरं अमरसिन्धोः कूलकच्छं प्रविश्य ।अथ सममसुनाथैस्ताः सलीलं निषेदुः सरसकनकजम्बूपल्लवप्रस्तरेषु ॥१५-७०॥सान्द्रोन्मीलत्सौरभाण्युद्वहन्त्यो विद्युल्लेखपिङ्गलान्यङ्कानि ।लक्ष्मीं हेमाम्भोजमाला इवापुः सारङ्गाक्ष्यः प्रेयसां कण्ठलग्नाः ॥१५-७१॥ततो विसूत्रच्युतहारयष्टिः शीर्णाङ्गदो भङ्गुरकर्णपूरः ।मदेन सद्यो मदिरेक्षणानां रतोत्सवः पल्लवितो बभूव ॥१५-७२॥नानाङ्गरागशबले श्लथबन्धलोल- धम्मिल्लमाल्यकुसुमप्रकरावकीर्णे ।पुष्पेषुतल्पे इव वक्षसि वल्लभानां निद्रां अवापुरथ ताः सुरतश्रमेण ॥१५-७३॥कन्दर्पस्य त्रिलोकीहठविजयमहासाहसोत्साहहेतुर्धुन्वंस्तत्पक्ष्मधूलिव्यतिकरकपिशः काञ्चनाम्भोरुहाणि ।तन्वानस्तीररूढत्रिदशतरुलतालास्यं आलस्यभाजां तासां संभोगकेलिक्लमभरं अहरज्जाह्नवीवीचिवातः ॥१५-७४॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये पातालगङ्गावगाहनो नाम पञ्चदशः सर्गः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP