नवसाहसाङ्कचरितम्‌ - द्वितीयः सर्गः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.


कदा चिल्लोचनातिथ्यं आप्तेनालेख्यवेश्मनि ।
स मृगव्याविनोदेन पस्पृशे पार्थिवो भृशं॥ २-१॥

उदग्रतुरगारूढः स समं राजसूनुभिः ।
गिरेरगच्छद्विपिनं विन्ध्यस्यावन्ध्यशसनः ॥२-२॥

हारेणामलकस्थूल- मुक्तेनामुक्तकुन्तलः ।
फणीन्द्रबद्धजूटस्य श्रियं आप स धूर्जटेः ॥२-३॥

देवः स वारबाणेन नलिनीपत्रबन्धुना ।
श्यामजीमूतसन्नद्धः काञ्चनाद्रिरिवाबभौ ॥२-४॥

तस्योपरि विभो नीलं आतपत्रं व्यराजत ।
वारिधेरिव पीताम्भश्- श्यामलं मेघमण्डलं॥ २-५॥

व्याधूतिमुक्तमरुता व्यरुचच्चामरेण सः ।
बन्दिगृहान्निःश्वसता यशसेवादिभूभुजां॥ २-६॥

व्यधादिवोद्गतैर्दूरं चूडारत्नरश्मिभिः ।
निशाकरकुरङ्गस्य पाशं आकाशवर्त्मनि ॥२-७॥

तस्यांसयोर्नृसिंहस्य हारकान्तिसटाभरः ।
उवाह कण्ठलग्नश्री- विलासहसितश्रियं॥ २-८॥

पुरः पदे पदे तस्य नानारत्नाङ्गदत्विषः ।
रचयन्ति स्म सञ्चारि चापं प्राचीनबर्हिषः ॥२-९॥

भाति स्म कण्ठाभरण- पद्मरागप्रभावृतः ।
राजन्यास्रसरःस्नातः स भार्गव इवापरः ॥२-१०॥

रुरुचे स पुरस्त्वङ्गत्- सितच्छत्रपरम्परः ।
वेलानिलसमुद्धूत- फेणः पतिरिवार्णसां॥ २-११॥

उपायनीकृतोन्निद्र- पद्मकिञ्जल्कसौरभः ।
तं असेवत सम्राजं विन्ध्यदूत इवानिलः ॥२-१२॥

तदश्वीयखुरोत्खातैः पांसुकूटैरजायत ।
पुनः प्रसभवर्धिष्णु- विन्ध्यशङ्काकुलं जगथ् ॥२-१३॥

सहेमशृङ्खलाः श्वानः श्वेतास्तस्याग्रतो ययुः ।
वहन्तः सतडिद्दाम- शारदाम्बुधरश्रियं॥ २-१४॥

ततस्तुरगहेषाभिः पत्तिकोलाहलेन च ।
अजायन्त भयोद्भ्रान्त- श्वापदा विन्ध्यभूमयः ॥२-१५॥

रभसाकृष्टकोदण्डं कर्णपूरीकृतेक्षणाः ।
तं अनङ्गं इवापश्यन्वनान्ते वनदेवताः ॥२-१६॥

मयि गोप्तरि चोरोऽयं अबलालोचनश्रियः ।
इतीव मुमुचे तेन कृष्णसारे शिलीमुखः ॥२-१७॥

स चित्रवर्णविच्छित्ति- हारिणोरवनीपतिः ।
श्रीहर्ष इव संघट्टं चक्रे बाणमयूरयोः ॥२-१८॥

चमरीणां शरोत्कृत्तैः स वालधिभिरुज्ज्वलं  ।
परितो व्यधितारण्यं स्वयशःस्तबकैरिव ॥२-१९॥


आहुत इव साटोपं लाङ्गूलस्फोटनिःस्वनैः ।
अभ्यधावदभिव्याघ्रानाग्रतः कौतुकेन स ॥२-२०॥

विधित्सुरात्मनः शौर्यं असामान्यं इवादधे ।
स शरान्पुण्डरीकेषु पुण्डरीकायतेक्षणः ॥२-२१॥

तैस्तस्य बाहुवीर्येण दृष्टेन व्रीडितैरिव ।
तत्यजे विक्रमस्पर्धा पुरः पश्चात्तु जीवितं॥ २-२२॥

क्षितेरेकातपत्रायाः स पतिर्मत्सरादिव ।
उदग्रपुण्डरीकत्वं न सेहे विन्ध्यभूभृतः ॥२-२३॥

अरण्यमहिषैर्दूरं तस्मात्सायकवर्षिणः ।
अपसस्रे विकीर्णांशोस्तमोभिरिव भास्वतः ॥२-२४॥

महामहिषनिष्पेषकेलिः पारं अगाद्द्वयोः ।
राज्ञस्तस्यातिचण्डस्य चण्डिकाचरणस्य च ॥२-२५॥

शरदीव प्रसर्पन्त्यां तस्य कोदण्डटाङ्कृतौ ।
विनिद्रजृम्भितहरिर्विन्ध्योदधिरजायत ॥२-२६॥

अशेषभुवनख्यात- विक्रमेऽव्यक्तविक्रमैः ।
दर्पान्मुमुचिरे तस्मिन्तिर्यक्केसरिभिर्दृशः ॥२-२७॥

स तेषां सहजोदग्र- शौर्यसञ्चारवीथिषु ।
मत्तेभमौक्तिकोत्तंसान्न सेहे नखशुक्तिषु ॥२-२८॥

यूथे महावराहाणां गते तद्बाणगोचरं  ।
चिरात्पल्वलमुस्तानां सन्तानः स्वस्तिमानभूथ् ॥२-२९॥

समदक्रोडदंष्ट्राभिः कृत्ताभिः कौतुकेन स ।
स्थलीर्व्यधित विन्ध्यस्य विकीर्णेन्दुकला इव ॥२-३०॥

असैरिभं असारङ्गं अवाराहं अकेसरि ।
क्षणाद्वनं अशार्दूलं आत्तचापश्चकार स ॥२-३१॥

अलं प्रहृत्य भूपाल सत्त्वेष्वनपराधिषु ।
इतीव सः खगारावैर्न्यषेधि वनराजिभिः ॥२-३२॥

असेवन्त समीरास्तं अनस्तमृगयाश्रमं  ।
सुरतश्रान्तशबरी- कबरीमाल्यचुम्बिनः ॥२-३३॥


_

सचिववर्णनम्

अथेन्द्रचापललितं सञ्चरन्तं इतस्ततः ।
अमन्दमृगयासङ्गः सः कुरङ्गं अलोकत ॥२-३४॥

सोऽपि तं वलितग्रीवः क्षणं स्थित्वा ददर्श च ।
निरन्तरलतापुञ्जं विन्ध्यकुञ्जं विवेश च ॥२-३५॥

ततस्तुरगं उत्सृज्य विसृज्यानुप्लवानपि ।
तं अन्वियाय सारङ्गं सारङ्गायतलोचनः ॥२-३६॥

देवो रमाङ्गदेनाथ सः श्रियेवान्वगम्यत ।
छाया निवर्तते जातु न तु तस्यैष भूपतेः ॥२-३७॥

मृगानुसारी विचरन्नात्तचापो वने वने ।
लीलां किरातवेषस्य सः प्रपेदे पिनाकिनः ॥२-३८॥

दूरादेव स तेनाथ शरव्यत्वं अनीयत ।
स्वनामधेयस्य चिह्नस्य हेमपुङ्खस्य पत्रिणः ॥२-३९॥

शिलाभेदक्षमेनापि किं अपि श्लथमुष्टिना ।
अभूद्विद्धः सः सारङ्गस्तेन त्वचि च मर्मणि ॥२-४०॥

सः शरापातभीतेन मनसोऽप्यतिरंहसा ।
अतिदूरं कुरङ्गेण निन्ये राम इवापरः ॥२-४१॥

तेन विन्ध्याटवीमध्ये धावन्नीरन्ध्रवीरुधि ।
उत्पतन्नुत्पतन्नेव स केवलं अलक्ष्यत ॥२-४२॥

दृशा वनस्थलीः कुर्वन्विकीर्णेन्दीवरा इव ।
जवाद्दूरं अतिक्रान्तं तं क्षितीशस्तदैक्षत ॥२-४३॥

ततस्तिरोहिते तस्मिन्नसमाप्तकुतूहलः ।
स्वबाण इव स प्राप पृथिवीं दुर्विलक्षतां॥ २-४४॥

दशनज्योत्स्नया कुर्वन्लताः स्तबकिता इव ।
इति पार्श्वगतं स्मित्वा स जगाद रमाङ्गदं॥ २-४५॥



_

रमाङ्गदाय मृगवर्णनम्

अयं तुलितपौल्ॐई- कान्तकामुकविग्रहः ।
मृगो दृग्गोचरं कच्चित्- गतस्तव रमाङ्गद! ॥२-४६॥

तद्वधूस्वकरन्यस्त- चित्रपत्रलताङ्कितः ।
असौ विहारहरिणः किं स्यादनलसारथेः ॥२-४७॥

अपि दृष्टा त्वयैतस्य कण्ठे कनकशृङ्खला? ।
छुरितस्येन्द्रचापेन मेघस्येव तडिल्लता ॥२-४८॥

मृगजातिरपूर्वेयं सर्वथा वसुधातले ।
सम्भवत्यमराद्रौ वा भुवने वा फणाभृतां॥ २-४९॥

अस्याखण्डलकोदण्ड- कान्ति चर्मातिपावनं  ।
गजपृष्ठे निधास्यामि महासमरपर्वसु ॥२-५०॥

यन्निमज्जति मच्चेतः कुतूहलरसोर्मिषु ।
मार्गं अन्वेष्टुं एतस्य तदेहि प्रयतावहे ॥२-५१॥

इत्युक्त्वा विरते तस्मिन्परमारमहीभृति ।
ऊचे रमाङ्गदेनैवं अवाप्यावसरं वचः ॥२-५२॥


_

रमाङ्गदकृतो मृगानुसरणनिषेधः

क्रुधेवाधिज्यचापेन वर्णसङ्करदर्शिना ।
त्वयैष चित्रसारङ्गो देव दूरं अनुद्रुत ॥२-५३ स् ॥

अशून्याः सुरगन्धर्व- सिद्धविद्याधरोरगैः ।
इमा नवनवाश्चर्य- निधयो विन्ध्यभूमयः ॥२-५४॥

विरमात्यादरः कोऽयं कुरङ्गान्वेषणे तव ।
न धावन्त्यर्थरिक्तासु क्रियासु त्वादृशां धियः ॥२-५५॥

मृगयासक्तचित्तस्य तवात्र विचरिष्यतः ।
पथि लोचनयोरेष पुनोऽप्यापतिष्यति ॥२-५६॥

शरः संह्रियतां एष धनुरप्यवतार्यतां  ।
शेषा च स्वस्तिमत्यस्तु देव श्वापदसन्ततिः ॥२-५७॥

दशा दिनस्य तीव्रेयं यदयं भगवान्रविः ।
कृष्णस्योरसि पुष्णाति नभसः कौस्तुभश्रियं॥ २-५८॥

निहतेषु त्वया देव सत्त्वेषु व्यथिता इव ।
एता वहन्ति सन्तापं अतीवारण्यभूमयः ॥२-५९॥

अमीभिर्बालवानीर- विटपेष्वगतक्लमैः ।
कपिञ्जलैरितः पश्य सहसैव निलीयते ॥२-६०॥

अर्कांशुग्लपितैरेभिरितोऽप्यालिखितैरिव ।
राजजम्बूनिकुञ्जेषु पश्य पुंस्कोकिलैः स्थितं॥ २-६१॥

आह्लादहेतुः स्निग्धेयं इतो वन्येन दन्तिना ।
पश्य नीपतरोश्छाया सवशेन निषेव्यते ॥२-६२॥

नवाम्बुधरनीलोऽयं दावधूमलतोद्गमः ।
नीलकण्ठैरितस्तर्षात्सोत्कण्ठैरवलोक्यते ॥२-६३॥

अनया विद्रुमस्तम्ब- भङ्गपिङ्गलया दृशा ।
इतः पल्वलपङ्कान्तो व्यक्तिं अभ्येति सैरिभः ॥२-६४॥

कठोरातपतप्तस्य राजहंसस्य सम्प्रति ।
नरेन्द्र नलिनीपत्रं आतपत्रीभवत्यदः ॥२-६५॥

मुखं अश्वरजछन्न- कपोलफलकद्युति ।
देव दन्तुरयन्त्येते तवापि स्वेदबिन्दवः ॥२-६६॥

तदत्र कुसुमस्मेरे निःस्वनत्समदालिनि ।
विनीयतां लताकुञ्जे त्वयैष मृगयाश्रमः ॥२-६७॥

अपि स्वच्छजला देव कलहंसाङ्कसैकता ।
वराहोत्खातमृत्स्नेयं पुरः पुष्करिणी तव ॥२-६८॥

त्वां इवार्ककरक्लान्तं आकारयितुं एतया ।
अयं आधूतकह्लार- कलिकः प्रेषितोऽनिलः ॥२-६९॥

लतापुष्पोत्करैः कीर्णो मार्गोऽयं अवगाह्यतां  ।
इतो वन्येभमुक्ताभिरिमाः शर्करिला भुवः ॥२-७०॥

इत्युक्ते मसृणं तेन नृपस्य पदं आदधे ।
स्मितं सरस्वतीरत्न- पर्यङ्के दन्तवाससि ॥२-७१॥

यशोभटोपदिष्टेन गत्वा किञ्चिदिवाध्वना ।
प्राप पुष्करिणीतीरं अवन्तितिलकोऽथ सः ॥२-७२॥

करादनुचरस्तस्य सान्द्रस्वेदजलाङ्गुलेः ।
मधुर्मनोभवस्येव सशरं चापं आददे ॥२-७३॥


_

अथ स्नानादिवर्णनम्

ततः स्नानेच्छया स्पृष्टो विसृष्टश्यामकञ्चुकः ।
स रेजे मेघनिर्मुक्तः पर्याप्त इव चन्द्रमः ॥२-७४॥

प्रमृष्तमृगयारेणु तन्मुखं पार्श्ववर्तिना ।
रुरुचे मारुताक्षिप्त- परागं इव पङ्कजं॥ २-७५॥

निसर्गललिता तस्य विमुक्तालङ्कृतिस्तनुः ।
लतेव पारिजातस्य पर्यस्तस्तबकाभवथ् ॥२-७६॥

स्वेदनुन्नाङ्गवर्णस्य सरसीं अवगाहतः ।
वन्यस्येवाभवत्तस्य श्रीः पर्यन्तविसर्पिणी ॥२-७७॥

स तस्यां दूरविक्षिप्त- विहगश्रेणिमेखलः ।
विजहार यथाकामं विलासकुसुमायुधः ॥२-७८॥

उवाह विस्फुरन्नाल- कण्टकच्छद्मनापि सा ।
तदङ्गयष्टिस्पर्शेन र्ॐअञ्चं इव पद्मिनी ॥२-७९॥

ततस्तरङ्गनिर्धौतं अध्यास्य स शिलातलं  ।
यशःस्नपितदिक्सीमा देवः सस्नौ यथाविधि ॥२-८०॥

तस्याविरलमत्तालि- निःस्वनच्छद्मना वने ।
अगीयतेव देवस्य लताभिः स्नानकौतुकं॥ २-८१॥

सो दूरोदस्तपर्यस्त- सपुष्पसलिलाञ्जलिः ।
जगत्तमोऽपहं ज्योतिस्त्रयीमयं उपस्थितः ॥२-८२॥

तं आनर्च स राजेन्दुर्मौलौ यस्येन्दुलेखया ।
क्रियते स्वर्धुनीबाल- मृणालशकलभ्रमः ॥२-८३॥

धन्या हि ता वनलता यत्फलान्यजहार स ।
कार्यतः सदृशी तासां समुद्ररशना मही ॥२-८४॥

निपीय निखिलव्यक्त- राजचिह्नेन पाणिना ।
उपास्पृशत्स चाम्भोज- किञ्जल्ककपिशं पयः ॥२-८५॥

नीलातपत्रमित्रेण पत्रेणाम्बुजिनीभुवा ।
निवारितोष्णः सश्रीकं लताकुञ्जं जगाम स ॥२-८६॥

सपरागे विशश्राम कुसुमप्रस्तरे च स ।
लक्ष्मीकुचाङ्गरागेण भिन्ने शेष इवाच्युतः ॥२-८७॥

रमाङ्गदोऽपि निर्वर्त्य त्वरया किं चिदाह्निकं  ।
अवाप्तसेवावसरः पर्युपास्त विशाम्पतिं॥ २-८८॥

सो भृङ्गध्वनिना सुप्तो विपञ्चीनादबन्धुना ।
तमालपल्लवैस्तेन किं चित्किं चिदवीज्यत ॥२-८९॥

निद्रागृहीतनिर्मुक्त- लोचनोऽथ जहार स ।
घनछायावृतव्यक्त- भास्वतो नभसः श्रियं॥ २-९०॥

पीनांसतटसंश्लिष्ट- पुष्पकेसरशोभिना ।
उषःसाकल्पकेनेव शयनीयं अमुच्यते ॥२-९१॥


_

पुनर्मृगयाविहारः

चकार च पदं चित्रः स मृगस्तस्य चेतसि ।
लग्नं हि किं अपि क्वापि कृच्छ्रादाकृष्यते मनः ॥२-९२॥

प्रसादहृद्यालङ्कारैस्तेन मूर्तिरभूष्यत ।
अत्युज्ज्वलैः कवीन्द्रेण कालिदासेन वागिव ॥२-९३॥

जगाहे स महारण्यं अंसासक्तधनुर्लतः ।
उपोढशशभृल्लेखः सायं अब्धिं इवार्यमा ॥२-९४॥

तस्मिन्कुसुमकिर्मीर- तले च विचचार स ।
स्फुरन्नक्षत्रशबले नभसीव निशाकरः ॥२-९५॥

मृगानुगमनिर्बन्धो न जगामास्य मन्दतां  ।
मैथिलीरमणस्येव विपिने पृथिवीपतेः ॥२-९६॥


_

निशातिक्रमणम्

ततः पपात जलधौ विरोचनफणामणिः ।
दिनाहेर्नीयमानस्य बलात्कारगरुत्मता ॥२-९७॥

शनैः शनैरथ व्य्ॐनि मृगाङ्कः पदं आदधे ।
सशङ्क इव भूपालान्मृगयासक्तचेतसः ॥२-९८॥

रमाङ्गदास्तृतस्निग्ध- पल्लवप्रस्तरे ततः ।
वने राजेन्दुना निन्ये तेनेन्दुतिलका निशा ॥२-९९॥

अथ मुखरखगापनीतनिद्रः क्वचिदपि पद्मसरस्युपास्य सन्ध्यां  ।
पुनोऽपि तं अवेक्षितुं निशान्ते नृपतिरियेष्ट मृगं मृगेन्द्रकल्पः ॥२-१००॥

पञ्चैकेन स्मर इव शरान्पाणिना हेमपुङ्खानन्येनोर्वीविजयि च धनुः साहसाङ्कं दधानः ।
देवः स अथ व्यवहरदरिषु न्यस्तपादः पिकाली- नीडन्यञ्चन्निचुलनिचयश्यामलासु स्थलीषु ॥२-१०१॥

इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये चित्रमृगावलोकनो नाम द्वितीयः सर्गः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP