संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नवसाहसाङ्कचरितम्| त्रयोदशः सर्गः नवसाहसाङ्कचरितम् प्रथमः सर्गः द्वितीयः सर्गः त्रितीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः नवसाहसाङ्कचरितम् - त्रयोदशः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpadmaguptapoemकाव्यपद्मगुप्तमहाकाव्यसंस्कृत त्रयोदशः सर्गः Translation - भाषांतर ततस्तथा पञ्चशरप्रतारितः सजृम्भं उन्मीलयति स्म लोचने ।कृताङ्गुलिश्लेषविवर्तितोल्लसत्- भुजांससम्पीडितकुण्डलो नृपः ॥१३-१॥सः सङ्गतं यन्मृगशावचक्षुषः श्रमाप्तनिद्रः स्फुटं अन्वभूदिव ।झटित्यभूज्जाग्रदवस्थयास्य तत्पुरातनालेख्यं इवास्फुटं हृदि ॥१३-२॥कुचाङ्गरागः कृशमध्यया तया मयि ध्रुवं सङ्क्रमितो भवेदिति ।शनैः स निद्राकलुषेण चक्षुषा पराममर्शाङ्गं अनङ्गमोहितः ॥१३-३॥अपास्य वामेतरकर्णभूषणं तथा शरैरेनं अवाकिरत्स्मरः ।यथास्य धैर्यं गलति स्म मानसात्सविक्रियं शुक्तिपुटादिव उदकं॥ १३-४॥दृशं विषादस्तिमितां उपान्तगे निवेश्य तेनाथ निशश्वसे ।यथा मुहुः श्यामलतां जगाहिरे वितानमुक्ताफलजालकस्रजः ॥१३-५॥_रमाङ्गदवाक्यम्कया नु सारङ्गदृशासि कारितः कपोलपत्रावलिकल्पनश्रमं ।तं इत्यवोचत्परिहासवानथो(?) रमाङ्गदः किंचिदिव श्लथाङ्गदं॥ १३-६॥ततः स मुक्तासितं आदधत्स्मितं जितप्रवालत्विषि दन्तवाससि ।शशंस तस्मै भुजगेन्द्रकन्यका- समागमं स्वप्नजं अब्जलोचनः ॥१३-७॥तदाश्रयैवानुचरेण वर्धिता कथासुधेवास्य ततो विलासिनः ।अभूत्परं मन्मथतापशान्तये न पद्मिनीपत्रमरुन्न चन्दनं॥ १३-८॥अजायतान्तःकरणेन ताम्यता न हेमपद्माहरणाय सत्वरं ।भुजः सदा रक्षणदीक्षितः क्षितेरमन्दं अस्पन्दत चास्य दक्षिणः ॥१३-९॥_वङ्कुमुनेरागमनम्ततः पिनद्धोज्ज्वलहेमवल्कलं वहन्तं अंसार्धविलम्बिनीर्जटाः ।सनाथवामेतरपाणिपङ्कजं परिस्फुरन्त्या स्फटिकाक्षमालया ॥१३-१०॥विशालनेत्राभरणैरनुद्रुतं सदैव दर्भाङ्कुरलालितैर्मृगैः ।सशिष्यं अभ्यागतं अङ्गनान्तिके विशाम्पतिर्वङ्कुमहर्षिं ऐक्षत ॥१३-११॥विमुक्तपर्यङ्कतलः ससंभ्रमं निरीक्ष्य सद्यो मणिमन्दिराद्बहिः ।किरीटरत्नद्युतिदीप्तभूतलं प्रणामं अस्मै सश्चकार सादरं॥ १३-१२॥ततः कृताशीर्मणिवेदिकास्तृते मुनिर्न्यषीदत्सकुरङ्गचर्मणि ।सश्चासनत्वं तदनुज्ञयानयन्नृपचन्द्राश्चन्द्रमणेः शिलातलं॥ १३-१३॥_मुनिप्रश्नःअपि श्रमेणायतमार्गजन्मना तनुर्महाराज तवेयं उज्झिता ।मुनिः प्रहर्षेण कृतार्हणस्तदा स राजचूडामणिं इत्यपृच्छत ॥१३-१४॥_भूपतिवाक्यम्अथादधद्वक्त्र इवाम्शुकाञ्चलं तुषारपाण्डुप्रसृतैर्द्विजांशुभिः ।अकृत्रिमप्रश्रयपेशलं वचः स भूपतिर्वक्तुं इति प्रचक्रमे ॥१३-१५॥अमी सहन्ते मम तात न श्रमं प्रणामलग्नास्तव पादपांसवः ।कियच्चिरं चन्द्रमरीचिचुम्बिते पदं निधत्ते कुमुदे दिनक्लमः ॥१३-१६॥_कपिदर्शनम्नृलोकपातालतलाश्रये मिथः कथानुबन्धे शिथिलीभवत्यथ ।पर्याणपर्युत्सुकमानसो मुनिः स यावदाप्रष्टुं इयेष पार्थिवः ॥१३-१७॥अनेन तावद्ददृशे पुरःस्थितो विशाललाङ्गूललतो वलीमुखः ।अधःस्थलीनिर्गतजह्नुकन्यको हिमोज्ज्वलः पाद इवाम्बिकागुरोः ॥१३-१८॥करेण बिभ्रन्मधुमत्तकेरली- कपोलवत्पाटलकान्ति दाडिमं ।अहर्मुखाकृष्टपतङ्गमण्डलः फलाशया बाल इवाञ्जनीसुतः॥ १३-१९॥_फलार्पणम्द्वयोरिवार्थः खलु धर्मकामयोस्तयोस्त्रिलोकस्पृहणीययोः कपिः ।मुनीन्द्रभूचन्द्रमसोः स्थितोऽन्तरे तपस्विभिः स्मेरमुखैरदृश्यत ॥१३-२०॥अथार्पितं तेन फलं तदाददे स विस्मितो मध्यमलोकवासवः ।जपारुणं मारुतिनेव मैथिली- शिखण्डरत्नं दशकण्ठशासनः ॥१३-२१॥अकृत्रिमश्रीनिलयेन रागिणा नरेन्द्रचिह्नाङ्कितहस्तशोभिना ।सुवृत्ततां उद्वहता स्वभावतः सस्तेन रेजे भृशं आत्मना यथा ॥१३-२२॥अजातपाकस्य नवातपाधिकां पुनः पुनस्तस्य विलोक्य शोणतां ।नवप्रवालोपमं एणचक्षुषः स्मरन्स बिम्बोष्टःअं अवाप शून्यतां॥ १३-२३॥अथास्य सीदन्मणिबन्धनात्करादवाञ्चतः कम्पविसूत्रिताङ्गुलेः ।पपात पश्चादिव हेमकुट्टिमे तदस्फुतद्द्रागिव दाडिमीफलं॥ १३-२४॥तदन्तरात्किंशुककान्तितस्करः स्फुरन्मणीनां निकरोऽथ निर्ययौ ।उदर्चिषः पुष्पशरासनक्रुधा कणोत्करस्त्र्यम्बकलोचनादिव ॥१३-२५॥अथ द्वयेनावनिपाकशासनः स विस्मयस्याग्रमहीं अनीयत ।वनौकसा तेन विनीतवृत्तिना विकीर्णभासा मणिदाडिमेन च ॥१३-२६॥सश्चाद्भुतप्राभृततोषितः करे चकार रेवामणिकङ्कणं कपेः ।घनात्ययऋतोर्निजं इन्दुपाण्डुरे पयोदखण्डे हरिवाडिवायुधं॥ १३-२७॥ततः सुधासूतिं इवोज्झिताकृतिर्नवाञ्जनश्यामलयाङ्गलेखया ।नृपः क्षणादेव विचित्रभूषणं पुमांसं अग्रे न हरिं तं ऐक्षत ॥१३-२८॥कृतानतिर्विस्मितमानसे मुनौ रमाङ्गदे सादरमुक्तलोचनः ।व्यधात्प्रणामं सः कृताञ्जलिर्नृपे कपोलवेल्लत्कलधौतकुण्डलः ॥१३-२९॥_मुनिकृतः प्रश्नःअलङ्कृतः कस्य वदान्वयस्त्वया पदं क्व ते किं च कपिर्भवानभूथ् ।तं एवं आह स्म सविस्मयोर्मिणा नृपेण साकूतविलोकितो मुनिः ॥१३-३०॥_शशिखण्डवाक्यम्ततः स मुग्धेन्दुमयूखबन्धुभिः प्रसादयन्दन्तमरीचिभिर्दिशः ।नवाम्बुभारालसनीरदावली- निनादधीरां इति वाचं आदे ॥१३-३१॥शिखण्डकेतोः शशिखण्ड इत्यहं मुनिन्द्र विद्याधरशासितुः सुतः ।सुराङ्गनाध्यासितरत्नकन्धरे ममाधिवासः शशिकान्तपर्वते ॥१३-३२॥रथाङ्गपाणेः प्रतिमा समुद्रतः स्वयं महानीलमयी विनिर्गता ।इति प्रवादः परं ईक्षितुं च तां गता मणिद्वीपं इतः पुरस्त्रियः ॥१३-३३॥ममापि तस्यां अधिकं कुतूहलं तदेहि यावः कृत एष तेऽञ्जलिः ।कदा चिदेवं सहसोपसृत्य मां प्रिया ययाचे प्रणिपत्य मालती ॥१३-३४॥ततः खं इन्दीवरनीलं एकतस्तया सहोत्पत्य जवेन गच्छतः ।सस्तात शैलेन्द्रभरक्षमः क्षणात्पपात मे लोचनगोचरेऽर्णवः ॥१३-३५॥उपोढनानामणिमौक्तिकोत्करैः करैरिवोर्ध्वं प्रसरद्भिरूर्मिभिः ।अनर्घ्यं अर्घ्यं जगदेकचक्षुषे समुद्यतो दातुं इवांशुमालिने ॥१३-३६॥नवप्रवालद्युतिपाटलोदरः करो मुरारेरिव शार्ङ्गलाञ्छितः ।अलङ्कृतो जह्नुमहर्षिकन्यया पृथुर्जटाजूट इवान्धकद्विषः ॥१३-३७॥उदग्रकल्लोलकदर्थितग्रहैरगाधपातालतलावगाहिभिः ।दिशो निरुन्धन्नवमेघनादिभिर्निमग्नदिङ्नागमदाविलैर्जलैः ॥१३-३८॥समेधितश्रीरभितस्तलोत्थितैः स्फुरन्मणिस्त्ॐअमयूखदामभिः ।युगान्तजीमूतशतोदयार्पितैः पुल्ॐअकन्यापतिकार्मुकैरिव ॥१३-३९॥उपान्तविश्रान्तपयोदमण्डलैर्जलद्विपप्रस्तुतवप्रकेलिभिः ।चिरोल्लसद्द्वीपधिया समीक्षितैर्विशालनेत्रैस्तिमिभिः कृताद्भुतः ॥१३-४०॥सुजातकाठिण्यपयोधराः स्पृहां उपाहरन्तीः पथि तादृशोः पथि ।क्व चिद्दधानः शरदिन्दुपेशलाः शिलासु शुक्तीर्जलमानुषीरिव ॥१३-४१॥निजौघसीमन्तितसानुकर्दमैर्बृहद्दरीपुञ्जितरत्नराशिभिः ।अधः प्रविष्टोद्धृतकच्छपोद्धृतैर्महाचलैरुल्लिखिताम्बरः क्व चिथ् ॥१३-४२॥सवेगवेलानिलवेल्लिताः क्व चिन्नवोद्गता विद्रुमकन्दलीर्दधन् ।शिखा इवोर्ध्वं तरुणार्कलोहिता विनिर्गता वाडवजातवेदसः ॥१३-४३॥क्व चित्सुधापाण्डुनि फेनमण्डले निलीनदूर्वादलनीलनीरदः ।सनाथतां नीत इवोपरि स्फुटं फणीन्द्रपर्यङ्कशयेन शार्ङ्गिणा ॥१३-४४॥क्व चिन्मणीनां कुमुदोदरत्विषः सितेतरेन्दीवरमेचकाः क्व चिथ् ।क्व चिद्दधानः शुकचञ्चुपाटलास्तटेषु मुक्ताशबलोदराः शिलाः ॥१३-४५॥तथैव तस्योपरि गत्वरस्य मे तमालनीलेन पथा पय्ॐउचां ।त्वराविशीर्णश्लथबन्धनाञ्चितः पपात सीमन्तमणिर्मृगीदृशः ॥१३-४६॥प्रधावमानेन मयान्तरान्तरा नखाग्रनिर्लूनमयूखपल्लवः ।सश्चान्तरं दीधितिमानिवोदधेर्विवेश कोशाम्रतरुच्छटारुणः ॥१३-४७॥निवर्तमानं तु हठाद्विकृष्यता तुरङ्गहस्तेन निरुन्धता नभः ।क्षणादिव क्वापि रसातलोदरे करीव चिक्षेप कृतारवोऽर्णवः ॥१३-४८॥_स्त्रीदर्शनम्मयाथ तत्र भ्रमता सविस्मयं तं उद्वहन्ती मणिं उत्प्रभं करे ।अदृश्यतैका विशती तपोवनं स्मरस्य मूर्ता ममतेव कन्यका ॥१३-४९॥ततः प्रियामौलिमणिर्न मेऽर्पितः पुनः पुनः प्रार्थितयापि यत्त्वया ।अहं तदस्या मकराङ्किते बलादपाहरं मन्मथरत्नपादुके ॥१३-५०॥किं आश्रमं शून्यं इदं तपोधनैरनेन हा धिङ्मुषितास्मि दस्युना ।अथेति बाष्पोद्गमगद्गदैः पदैर्नुहुर्वदन्ती करुणं रुरोद सा ॥१३-५१॥_मुनिदर्शनम्ततस्तदीये रुदितध्वनौ श्रुते ससंभ्रमं कोऽपि महातपा मुनिः ।विनिर्ययौ रत्नशिलागृहाद्बहिस्तमालभासस्तरणिर्घनादिव ॥१३-५२॥अनेन केनापि तवाश्रमे बलादिदं हि ताताभरणं हृतं मम ।इति क्रुधं तद्वचसा स आददे हविर्निषेकेण शिखां इवानलः ॥१३-५३॥_शापवर्णनम्निबद्धभीमभ्रुकुटिर्विलोकयन्दृशा तदोल्काकपिशोग्रतारया ।सस्तीव्रकोपस्फुरिताधरोऽवदद्वचो ममाक्षिप्य कृतानतेरिति ॥१३-५४॥प्रसूनं अप्यत्र न जातु वीरुधां हरत्ययं नः पवनस्तपोवने ।त्वया तु संप्रत्यबलाविभूषणे शठात्मनाशाय करः प्रसारितः ॥१३-५५॥अकारि कापेयं इदं त्वयेदृशं यदद्य सद्यः कपिरेव तद्भव ।ततः स मां इत्यशपत्कमण्डलोरपः समादाय दवानलोपमः ॥१३-५६॥_कोपशान्तिःअथास्य कोपः प्रशशाम मानसे शनैः कृपा सानुशये प्रसीदति ।अपां कणस्तिष्ठति वीचिकम्पिते न पद्मिनीपत्रपुटोदरे चिरं॥ १३-५७॥इहानुतापो भगवन्विमुच्यतां इयं मदीया भवितव्यतेदृशी ।तदुच्यतां शापनिशामुखोद्गतं कदा ममेदं तिमिरं व्यरंस्यति ॥१३-५८॥मयैवं उक्तः सस्तदैवं ऊचिवान्यदा पुरो वङ्कुमुनेरिहागतः ।करे तवाधास्यति वत्स कङ्कणं स नार्मदं सीयकराजनन्दनः ॥१३-५९॥ततः प्रभृत्येव वलीमुखाकृतेः समाः सहस्रं वसतो रसातले ।अनेन मे संप्रति पार्थिवेन्दुना तवाश्रमे शापतमस्तिरस्कृतं॥ १३-६०॥_प्रतिक्रियाकरणेच्छाकृतं यदेतेन मुनीन्द्र लीलया प्रतिक्रियां तत्र न कर्तुं अस्म्यलं ।हिमत्विषः प्रत्युपकारगोचरो मरीचिलीढक्रशिमा किं अंशुमान्॥ १३-६१॥तथाप्ययं देव निजप्रयोजने लघीयसि क्वापि नियोज्यतं जनः ।अनूरुं उर्वीतलरत्नदीपकः किं आर्यमा नाधित सूतकर्मणि ॥१३-६२॥तेनैवं उक्तः प्रणयोन्मुखेन न्र्पस्त्रपानम्रमुखो बभूव ।अतादृशानां स्तुतयः प्रकृत्या मदं यदुद्दीपयितुं यतन्ते ॥१३-६३॥_निजवृत्तकथनम्एवं सुधारससमृद्धिमनोहरेण श्लाघ्येन तेन शशिखण्डसमागमेन ।कां अप्यवापदुमया घटितस्य लक्ष्मीं सः क्ष्मापतिर्झटिति जूट इवाष्टमूर्तेः ॥१३-६४॥तेनाथ सूनृतवचःश्रुतये सः पृष्टः पृथ्वीतलागमनहेतुं अजानतेव ।आख्यातवान्स्मितसुधास्नपितौष्ठबिम्बस्तस्मै निजव्यतिकरं नरलोकपालः ॥१३-६५॥विद्याधरस्तदनु सः प्रहितोऽपि राज्ञा नैव स्वधामगमनाभिमुखो बभूव ।पूर्वोपकारिणि जनेऽनुपकृत्य किं चिद्यान्तो यदुन्नतधियः किं अपि त्रपन्ते ॥१३-६६॥देव प्रसीद समितिः क्रियतां इदानीं भृत्यः स्वपादरजसां अयं अग्रयायी ।तस्येति वल्गु वचनं वचसा महर्षेः सम्राट्ततः सः कथं अप्युररीचकार ॥१३-६७॥_विद्याधरसैन्यागमनम्आमन्द्रशङ्खपटहस्वनसूचितं प्राक्- सैन्यं क्षणान्निजं अथ स्मृतमात्रं एव ।धौतासिपत्रबहुलांशुलतोपगूढं पातालसंतमसं अस्य पुरो बभूव ॥१३-६८॥_प्रस्थानम्तेनोपपादितं अथो रथं उत्पातकं अध्यास्य कार्मुकसनाथकरो नरेन्द्रः ।वज्राङ्कुशं प्रति स वङ्कुमुनिप्रयुक्तः प्रस्थानमङ्गलविधिर्मसृणं प्रतस्थे ॥१३-६९॥लग्नेनाङ्गे युगपदुटजद्वारदेशाददूरे पश्यन्तीनां मुनिमृगदृशां लोचनांशूत्करेण ।उद्दामाजिक्रतुमखविधेर्दीक्षया सः क्षितीशो मेध्यां एणत्वचं इव दधन्सः क्षणं लक्ष्यते स्म ॥१३-७०॥चलितयतिसमाधि त्रस्तसारङ्गशावं निभृतशुकभृतोच्चैर्नडिं उड्डीनबर्हि ।हरिणमिथुनमुक्तान्योन्यकण्डूयनं तन्मुनिवनं अभितोऽभूत्सैन्यकोलाहलेन ॥१३-७१॥अथ पथि नवसाहसाङ्कः स विद्याधरैर्वन्दितः प्रमुदितमुनिकन्यकामुक्तनीवारलाजाञ्जलिः ।श्रियं अधित रमाङ्गदेनान्वितस्तूर्यघोषोर्मिभिः कुलगिरिकुहरप्रतिध्वानं दीर्घैर्निरुन्धन्दिशः ॥१३-७२॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये विद्याधराधिपसमागमो नाम त्रयोदशः सर्गः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP