संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|नवसाहसाङ्कचरितम्| षोडशः सर्गः नवसाहसाङ्कचरितम् प्रथमः सर्गः द्वितीयः सर्गः त्रितीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः नवसाहसाङ्कचरितम् - षोडशः सर्गः संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट. Tags : epicpadmaguptapoemकाव्यपद्मगुप्तमहाकाव्यसंस्कृत षोडशः सर्गः Translation - भाषांतर अत्रान्तरे नभःसिन्धु- पुलिनं प्राप पाटला ।दधत्यनङ्गलेखेन लाञ्छितं पाणिपल्लवं॥ १६-१॥मणिप्रग्रीवकोद्गीर्ण- शुनासीरशरासनं ।अपश्यद्गगनोल्लेखि तत्र स्फटिकवेश्म सा ॥१६-२॥तदिन्द्रनीलद्वारे सा हेमवेत्राकुले बभौ ।श्लिष्यन्ती सतडिल्लेखे लेखेवेन्दोः पय्ॐउचि ॥१६-३॥रत्नवातायनस्थस्य तिष्ठन्पार्श्वे महीपतेः ।द्वाःस्थं किं अपि पृच्छन्तीं तां ऐक्षत रमाङ्गदः ॥१६-४॥अन्तः प्रवेशयां आस सश्च तां आत्तसंभ्रमः ।ययौ सा च विशांपत्युर्लोचनामृतवर्तितां॥ १६-५॥सिताश्महर्म्यं उत्तुङ्गं झटित्यधिरुरोह सा ।आनन्दकन्दलीचित्तं अत्यच्छं पार्थिवस्य च ॥१६-६॥क्षितिचुम्बितहारं सा प्रणनाम महीभुजे ।रमाङ्गदं करग्राह- सौहार्द्ये पात्रतां नयथ् ॥१६-७॥नृपेण स्वयं उक्तापि इत एह्येहि पाटले ।तल्लीलामणिपर्यङ्क- सविधे निषसाद सा ॥१६-८॥_पाटलावाक्यम्कृतसम्भाषणा साथ तेनावनिमनोभुवा ।इत्यवोचत दन्तांशु- शबलाधरपल्लवा ॥१६-९॥मुद्रितस्मरसौन्दर्य- वान्ता नेत्रामृतछटा ।इयं मूर्तिर्महाराज कच्चित्कुशलिनी तव ? ॥१६-१०॥कथं एतां प्रविष्टास्त्वं भूमिं अत्यन्तदुर्गमां ।न कस्य विस्मयायेयं शक्तिरत्यद्भुता तव ॥१६-११॥देव विद्याधरः कोऽपि शापान्निर्मोचितस्त्वया ।इत्यमन्दः प्रवादोऽत्र तत्कोऽप्यसि नमोऽस्तु ते ॥१६-१२॥अहो गुणेन राजेन्द्र येन केनापि गृह्यसे ।यदेवं क्लिश्यसे तस्याः फणीन्द्रदुहितुः कृते ॥१६-१३॥_नायकवाक्यम्अथ विद्रुमताम्रौष्ठ- लुठद्दशनदीधितिः ।स्मित्वा वसुमतीनाथस्तां इति प्रत्यभाषत ॥१६-१४॥कदाचित्पाटले कच्चिद्भुजङ्गपतिकन्यका ।स्मरत्यस्मान्सखीस्वैर- सङ्कथास्वन्तरान्तरा ॥१६-१५॥किं अनङ्गवती वक्ति ब्रूते माल्यवती च किं ।अप्यस्त्यहिपुरेऽस्माकं किंवदन्ती कियत्यपि ॥१६-१६॥फणिराजसुताकर्णं कच्चित्प्रापय्य मद्वचः ।विहितो रत्नचूडेन शुकरूपविपर्ययः ॥१६-१७॥किं आगतासि किं चैवं परिम्लानेव लक्ष्यसे ।निवेदय द्रुतं यन्मे किं अप्याशङ्कते मनः ॥१६-१८॥_लेखार्पणम्इति पृष्टवते तस्मै सान्द्रप्रेमार्द्रचेतसे ।कन्दर्पदीपनं लेखं अर्पयां आस पाटला ॥१६-१९॥तं आत्तं वाचयेत्युक्त्वा परमारकुलोद्वहः ।रमाङ्गदस्य चिक्षेप सम्भ्रमोत्तानिते करे ॥१६-२०॥तं हेमकदलीपत्र- कस्तूरिलिखिताक्षरं ।सोऽवधार्याथ तस्याग्रे व्यक्तवागित्यवाअचयथ् ॥१६-२१॥_शशिप्रभालेखःस्वस्ति स्थितस्य स्वःसिन्धु- तीरे फणिपुरस्थया ।इदं मध्यमलोकेन्दोर्माल्यवत्या निवेद्यते ॥१६-२२॥यदैवास्मत्सखी विन्ध्ये त्वया राजन्व्ययुज्यत ।तदैवेयं कुरङ्गीव विद्धा हृदि मनोभुवा ॥१६-२३॥दृष्टिः सर्वत्र राजेन्दोः सुधानिष्यन्दिनी तव ।जाता शशिप्रभायां तु सैव हालाहलछटा ॥१६-२४॥न विनोदयितुं शक्यं एषा केनापि वस्तुना ।विनेश तव कर्पूर- शीतया सङ्गमाशया ॥१६-२५॥त्वद्दर्शनोपकारिण्याः करोत्येकावलीं इव ।इयं पक्ष्माग्रवर्त्यश्रु- पृषतछद्मना दृशः ॥१६-२६॥वक्ति व्यक्ताश्रुलेखेन निहितेन करोदरे ।इयं आपाण्डुगण्डेन स्मरतापमुखेन्दुना ॥१६-२७॥शिरीषादपि मृद्वङ्गी क्वेयं आयातलोचना ।एष क्व च कुकूलाग्नि- कर्कशो मदनज्वरः ॥१६-२८॥नेयं प्रवालशय्यायां नापि प्रालेयवेश्मनि ।न चेन्दुमणिपर्यङ्के सखी निर्वृतिं एति नः ॥१६-२९॥निसर्गरक्तं एतस्याः सखीजनं इवाधरं ।नयन्ति किं अपि म्लानिं उष्णा निःश्वसितोर्मयः ॥१६-३०॥अरतित्वं अवाप्याम्भः- कणिकेव विघूर्णते ।एषा कमलिनीपत्र- शय्यायां आयतेक्षणा ॥१६-३१॥अस्याः स्मराग्निसन्तप्तं वपुः शशिकलामृदु ।नीरन्ध्रघर्मसलिल- छलेनेव विलीयते ॥१६-३२॥कृशतां अङ्गके गाढं अस्याः कुसुमक्ॐअले ।आरोपयति पुष्पेषु मौर्वीं इव शरासने ॥१६-३३॥धृतया हृदि बालेयं वितीर्णहरिचन्दने ।निर्वाणं एति भवतः कथया न जलार्द्रया ॥१६-३४॥आकर्णकृष्टकोदण्डस्- त्वां विना निशितैः शरैः ।भिनत्त्यङ्गं अनङ्गोऽस्याः क्षितिश्चेतसि कापि मे ॥१६-३५॥इयं अत्यच्छहृदये दधत्यतिसुवृत्ततां ।बाला माणिक्यमुकुरे विमुखी संमुखी त्वयि ॥१६-३६॥एषा शिखेव दीपस्य मुग्धा दग्धदशाश्रया ।स्मरानिलपरामर्शादितश्चेतश्च वेपते ॥१६-३७॥इयं इन्दुद्युतिहरं युक्तं अत्यायतैर्गुणैः ।मृणालवलयं हस्ते वहति त्वां च चेतसि ॥१६-३८॥अनङ्गतापवत्यस्या निकामसरसं हृदि ।सङ्कुचत्यब्जिनीपत्रं न तु त्वत्प्रेमपल्लवः ॥१६-३९॥क्रियते वलयेनास्या मणिबन्धे गतागतं ।कार्श्याग्रभूमिं आप्तायास्त्वय्यन्तःकरणेन च ॥१६-४०॥जायते पेशलं अपि प्रायो वस्त्वन्यथापदि ।प्राप्तो मृणालहारोऽपि यदस्या दाहहेतुतां॥ १६-४१॥निहिताः सास्रमालीभिर्लवलीपाकपाण्डुनी ।अस्याः स्तनतटे भारः परं वानीरपल्लवाः ॥१६-४२॥न चन्दनेन नोशीर- वारिणा न जलार्द्रया ।नास्याः पुटकिनीपत्रैः शमं एति स्मरज्वरः ॥१६-४३॥किं चापरं त्वं एतस्या हृदयस्याधिदेवता ।यतस्त्वन्मयं एवैषा विश्वं विश्वेश पश्यति ॥१६-४४॥रत्नचूडोपनीतेन सन्देशेन तवाधुना ।इयं उच्छ्वसिता किं चित्सुधागण्डूषबन्धुना ॥१६-४५॥तावदागच्छ वेगेन गृहीत्वा हेमपङ्कजं ।अनङ्गविधुना यावदियं श्वसिति नः सखी ॥१६-४६॥_नायकस्य प्रतिसन्देशःएवं आकर्ण्य ललितं लेखार्थं अथ पार्थिवः ।उद्भिन्नसान्द्रपुलकः पाटलां इत्यवोचत ॥१६-४७॥यथा सखी वः किं अपि प्रपन्ना विधुरां दशां ।तथा त्वं अपि मां एवं पाटले किं न पश्यसि ? ॥१६-४८॥तद्गच्छ तां शशिमुखीं आश्वासयितुं अर्हसि ।वयं एते च हेमाब्जं आनेतुं प्रयतामहे ॥१६-४९॥तथा कार्यं न वन्ध्यः स्याद्यथा मम मनोरथः ।वक्तव्या माल्यवत्यैवं मद्गिरा वल्गुवादिनि ॥१६-५०॥_पाटलाप्रयाणम्आवृत्तिदत्तसन्देशा- सा ततः पृथिवीभुजा ।फणिराजेन्द्रनगरीं त्वरितं पाटला ययौ ॥१६-५१॥प्रस्थानशंसी सहसा तस्याथ पृथिवीपतेः ।प्रलयाम्बुधरध्वान- धीरं दध्वान दुन्दुभिः ॥१६-५२॥_विद्याधरस्त्रीपुरुषवर्णनम्नदन्नुत्कम्पिमनसां स विद्याधरयोषितां ।निन्ये प्रियपरिष्वङ्ग- श्लथतां अथ दोर्लताः ॥१६-५३॥कथं चित्प्राणनाथस्य मुखाधरपल्लवं ।बाला व्यघटयत्का चित्काचिदुरसश्च पयोधरौ ॥१६-५४॥शनैर्बबन्ध जघने नखाङ्कवति मेखलां ।कापि स्मितमुखी कान्ते तिर्यगर्पितलोचना ॥१६-५५॥दृष्टिं दास्यन्ति मे सख्यः खण्डिते दन्तवाससि ।किं अत्र कृत्यं इत्यन्या किं अपि व्याकुलाभवथ् ॥१६-५६॥का चित्पर्यङ्कं आलोक्य सालक्तकपदाङ्कितं ।अन्योन्यार्पितनेत्राभिर्वयस्याभिरहस्यत ॥१६-५७॥एका माणिक्यकटकं कराग्रच्युतं आददे ।हृदयं पुष्पचापेन मध्ये विद्धं इवात्मनः ॥१६-५८॥चुम्बनक्लिष्टबिम्बौष्ठं जागरारुणलोचनं ।मुखाम्भोजं दृशान्योनं विलासिभिरपीयत ॥१६-५९॥_रत्नवतीं प्रति गमनम्सोऽथ प्रववृते गन्तुं विद्याधरबलान्वितः ।रथेन रथिनां अग्र्यः पुरीं रत्नवतीं प्रति ॥१६-६०॥_रत्नचूडसमागमःततः फणिकुमारेन रत्नचूडेन स अध्वनि ।समगंस्त जगत्पूज्यः पूषा दर्श इवेन्दुना ॥१६-६१॥सस्तस्योपयानीचक्रे दिक्चक्रस्खलितध्वनिं ।अच्छिन्नदाननिष्यन्दं आत्मानं इव वारणं॥ १६-६२॥नृपस्य दीपिकाकृत्यं चक्रिरे तिमिरच्छिदः ।पुरः प्रसर्पत्तत्सैन्य- फणारत्नांशुसूचयः ॥१६-६३॥कियताप्यथ कालेन सन्ततैः सः प्रयाणकैः ।प्रपेदे कुसुमाश्लेष- सुगन्धिपवनं वनं॥ १६-६४॥_दूतप्रस्थापनम्असुराधिपतिं साम्ना याचितुं हेमपङ्कजं ।स्थित्वा सस्तत्र पुरतो विससर्ज रमाङ्गदं॥ १६-६५॥सश्च त्रिजगतः सारं आदायैव विनिर्मितां ।उत्तुङ्गरत्नप्रासादां प्राप रत्नवतीं पुरीं॥ १६-६६॥रामार्थबद्धकक्षेण प्रेषितः प्रभुणाविशथ् ।परिखार्णवं उल्लङ्घ्य सस्तां लङ्कां इवाङ्गदः ॥१६-६७॥कोऽयं कोऽप्ययं अन्योन्यं एवं पल्लवितोक्तिभिः ।कौतुकस्तिमिताक्षैः सः पौरैश्चिरं अदृश्यत ॥१६-६८॥स चन्द्रनीलहर्म्येषु ददर्शासुरकन्यकाः ।लोलास्तमालश्यामेषु मेघेष्विव शतह्रदाः ॥१६-६९॥निपीयमानः पौरस्त्री- नेत्रस्फटिकशुक्तिभिः ।वैरिद्विपघटासिंहः सिंहद्वारं अवाप स ॥१६-७०॥असुरेन्द्रस्य दोःकण्डु- दुःस्थानैकभटाकुलं ।वीरः स अविशदास्थानं अथ द्वाःस्थनिवेदितः ॥१६-७१॥_असुरेन्द्रवर्णनम्आसीनं अञ्जनश्यामं उच्चैः स्फटिकविष्टरे ।हिमाचलेन्द्रशिखरे नवीनं इव नीरदं॥ १६-७२॥केयूरपद्मरागांशु- मञ्जरीजटिलऊभौ ।भुजौ बिभ्राणं उज्ज्वाल- प्रतापज्वलनाविव ॥१६-७३॥उरसा रुद्धगीर्वाण- द्विपेन्द्ररदकोटिना ।हारवल्लीं दधल्लोलां दोलां इव जयश्रियः ॥१६-७४॥दधानं दीप्तिपर्यस्त- तिमिरौ मणिकुण्डलौ ।बन्दीकृतौ सहैवोभौ सूर्याचन्द्रमसाविव ॥१६-७५॥वीरव्रतस्यालङ्कारं अहङ्कारस्य जीवितं ।जगतां अङ्कुशं तत्र स वज्राङ्कुशं ऐक्षत ॥१६-७६॥तन्निदेशितं अध्यास्त स हिरण्यमयं आसनं ।नानारत्नांशुशबलं शृङ्गं मेरोरिवार्यमा ॥१६-७७॥_दूतं प्रति प्रश्नःकुर्वन्मुखानि स्मेराणि दशनज्योत्स्नया दिशां ।विधाय सत्क्रियां एवं असुरेन्द्रस्तं अब्रवीथ् ॥१६-७८॥अहो किं अपि कल्याणं आसन्नफलं अद्य नः ।अन्यथा हि गृहं सन्तः किं आयान्ति भवद्विधाः ॥१६-७९॥यदाश्रमे वङ्कुमुनेर्युवयोर्वृत्तं अद्भुतं ।तत्कर्णातिथितां नीतं एत्य प्रणिधिभिर्मम ॥१६-८०॥एतया सांप्रतं ब्रूहि युतो विद्याधरैरयं ।किं आकङ्क्षति वः स्वामी फलं पाटालयात्रया ॥१६-८१॥नियुज्यन्ते नृपेणार्थे नाल्पीयसि भवद्दृशाः ।शेषो धृतेर्भुवोऽन्यत्र व्यापारयति किं फणान्॥ १६-८२॥तदत्र प्रहितो राज्ञा किं अर्थं असि कथ्यतां ।अर्थिनां व्यर्थतां एति न जातु प्रार्थना मम ॥१६-८३॥_रमाङ्गदोक्तिःमार्गैरिवायतैर्वाचां शुचिभिर्दशनांशुभिः ।सीमन्तिताधरः स्मित्वा तं इत्यूचे रमाङ्गदः ॥१६-८४॥आसां सुधारसार्द्राणां शुद्धानां असुराधिप ।गिरां त्वं एको यत्सत्यं इन्दुर्भासां इवाकरः ॥१६-८५॥कच्चित्त्वयायं अज्ञायि देवः साहसलाञ्छनः ।जगत्प्रदीपं अथवा को न वेत्ति विरोचनं॥ १६-८६॥फणिराजसुतां एष परिणेतुं शशिप्रभां ।पथानेन रथक्षुण्ण- रत्नशैलेन गच्छति ॥१६-८७॥त्वद्वापिहेमपद्मेन शुल्कसंस्था कृता किल ।अस्याः पित्रेति देवेन तदर्थं प्रहिता वयं॥ १६-८८॥अनेनेच्छसि चेत्कर्तुं सख्यं साहसलक्ष्मणा ।तत्कार्तस्वरराजीवं आनीय स्वयं अर्प्यतां॥ १६-८९॥लुम्पन्ति त्वन्मुखच्छायां यावन्नास्य चमूरजः ।कुरुष्व तावदातिथ्यं हेमाब्जेन महीभुजे ॥१६-९०॥किं अन्यन्`नार्थिनां मत्तो विघटन्ते मनोरथाःऽऽ ।इति त्वया स्वं एवाशु प्रमाणीक्रियतां वचः ॥१६-९१॥_वज्राङ्कुशवाक्यम्इत्युक्तवति सामर्ष- भटदृष्टे यशोभटे ।प्रत्यभाषत सावज्ञं विहस्यासुरकुञ्जरः ॥१६-९२॥अहो बत विदग्धोऽपि धिङ्मुग्ध इव लक्ष्यसे ।विदुषापि त्वया किंचिद्यदुक्तं असमञ्जसं॥ १६-९३॥यूयं क्व माणुषाः पृथ्वी- सङ्कटस्वाम्यदुःस्थिताः ।सा च त्रिजगतां भर्तुरुचिता क्व शशिप्रभा ॥१६-९४॥तादृङ्मदङ्कं एवात्र स्त्रीरत्नं अधिरोहति ।रमते हि हरस्यैव मौलाविन्दुकलाङ्कुरः ॥१६-९५॥यद्यदस्तीह पाताले रत्नं क्व चन किं चन ।भाजनं तस्य तस्याहं एकः के यूयं उच्यतां ? ॥१६-९६॥सहते नृपतौ नैव हेमतामरसार्पणं ।ममैष शक्रविजय- क्रीडादुर्ललितो भुजः ॥१६-९७॥प्रभुस्तव नयज्ञोऽपि किं अनर्थाय केवलं ।दीर्घेन्दीवरमालेति विकर्षत्यसितोरगं॥ १६-९८॥इत एव निवर्तध्वं वर्तध्वं वचने मम ।अवटे किं इति क्षेप्तुं आत्मानं यूयं उद्यताः ॥१६-९९॥यावदेते न मुञ्चन्ति मर्यादां असुराब्धयः ।तावत्दूरापसारेण स्वामिनं त्रातुं अर्हथ ॥१६-१००॥नरेन्द्रं दुर्जिगीषातस्तद्गच्छ विनिवारय ।त्वादृशाः किं उपेक्षन्ते पतिं उत्पथगामिनं॥ १६-१०१॥अथवास्यास्ति शक्तिश्चेत्किं अद्यापि विलम्बते ।आयातु स्वयं आदातुं इतः काञ्चनपङ्कजं॥ १६-१०२॥किं अन्यज्जायतां एष खड्गधारातिथिर्मम ।इत्युक्त्वा कोपतरलं विररामासुरेश्वरः ॥१६-१०३॥_ रमाङ्गदस्य प्रतिवचनम्धैर्यं संवृतकोपोऽथ स्मयमानो रमाङ्गदः ।तं इत्यमुक्तपर्यङ्कः प्रतिवक्तुं प्रचक्रमे ॥१६-१०४॥निर्वाणवीर्यवातेऽस्मिन्रसातलबिलोदरे ।अभुग्नभुजकण्डूतिरहो किं अपि दृप्यसे ॥१६-१०५॥मन्ये तवैतन्नीरन्ध्रं अज्ञातस्वपरान्तरे ।पातालचिरसंवासाच्चित्ते परिणतं तमः ॥१६-१०६॥यां हरस्याष्टमीं आहुर्मूर्तिं आहुतिलेहिनीं ।तत्सूतिः प्रागभूद्भर्ता परमार इति क्षितेः ॥१६-१०७॥कृतावतारं तद्वंशे वधाय विबुधद्विषां ।किं आदिदेवं कंसारिं धिङ्मर्त्य इति मन्यसे ॥१६-१०८॥कमलेव मुकुन्दस्य पार्वतीव पिनाकिनः ।फणिकन्योचिता पत्नी सा महीमीनलक्ष्मणः ॥१६-१०९॥तां हठेनात्मसात्कर्तुं असुरेन्द्र न शक्यसे ।न रत्नसूचिं आक्रष्टुं अयस्कान्तस्य योग्यता ॥१६-११०॥पदं पथि निधत्सेऽत्र किं अन्यायमलीयसे ।अपथे चरतां यान्ति दूराद्दूरं विभूतयः ॥१६-१११॥अनर्पणं महीपाले हेमपङ्केरुहस्य यथ् ।तवापरिघं उत्प्रेक्षे तदेव द्वारं आपदां॥ १६-११२॥राजेन्द्रदीपके तस्मिन्समराङ्गणवर्तिनि ।एते भटास्ते न चिरात्- आयास्यन्ति पतङ्गतां॥ १६-११३॥तथा विधेहि न यथा त्वन्दतःपुरयोषितां ।करपल्लवशय्यासु शेरते वदनेन्दवः ॥१६-११४॥प्रवृत्तपतिशोकार्त- पौरस्त्रीपरिदेवना ।इयं उत्सन्नसङ्गीता मा भूद्रत्नवती पुरी ॥१६-११५॥देवस्यार्पितहेमाब्जस्तदेहि पत पादयोः ।शिरः पुनन्तु ते कामं पुण्यास्तत्पादपांसवः ॥१६-११६॥अथवा सुभटैः सार्धं उत्तिष्ठ पुरतो भव ।समं विद्याधरानीकैरयं आयाति भूपतिः ॥१६-११७॥किं अन्यत्समं एतेन शिरस्तामरसेन ते ।हेमकोकनदं देवः स्वयं एव ग्रहीष्यति ॥१६-११८॥_रमाङ्गदागमनम्तं इत्युक्त्वा सभामध्यान्निर्जगाम रमाङ्गदः ।निकटं च रणोत्कस्य जगाम जगतीपतेः ॥१६-११९॥अथ वदति शनैः समेत्य तस्मिन्नमररिपोर्वचनानि तानितानि ।असुरपतिविनाशकालरात्रिम्- भृकुटीं उवाह मुखेन मालवेन्द्रः ॥१६-१२०॥गत्वा विद्याधरभटचमूचक्रवालैः सभं सः क्ष्मापालोऽथ व्यधित परितस्तत्पुरो रत्नवत्याः ।येन व्यक्तामरजयमहासाहसस्यासुराणां नाथस्यासीन्नवपरिभवश्यामलावक्त्रलक्ष्मीः ॥१६-१२१॥ इति श्रीमृगाङ्कदत्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये कनकारविन्दप्रार्थनो नाम षोडशः सर्गः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP