नवसाहसाङ्कचरितम्‌ - षष्ठः सर्गः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य  विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. शृङ्गारतिलक काव्याचे कवी आहेत,रुद्रभट्ट.


नायिकावस्थावर्णनम्

तदा फणीन्द्रकन्यापि बाणनामाङ्कसूचिते ।
नरेन्द्रतिलके तस्मिन्नभिलाषं बबन्ध सा ॥६-१॥

सहसा हृदये तस्या निदधे मन्मथः पदं  ।
अशोकयष्टिस्तबके सराग इव षट्पदः ॥६-२॥

अवशा साभवच्चित्रं नाम्नापि पृथिवीपतेः ।
न तदस्त्यत्र यन्नास्त्रं सन्नद्धस्य मनोभुवः ॥६-३॥

स्मराग्निकणमेणाक्ष्यास्तस्याः समुददीपयथ् ।
मकरध्वजसाम्राज्य- सचिवो मलयानिलः ॥६-४॥

सोल्लसत्स्मरलीलेन नवेन वयसा बभौ ।
उन्मिषन्मधुलेखेन मुकुलेनेव मालती ॥६-५॥

सातनुश्वसनस्पृष्ट- पाटलाधरपल्लवं  ।
उवाह मुखं उज्जृम्भं अम्भोजं इव पद्मिनी ॥६-६॥

निकामसरले तस्मिन्सा मुहुस्तरलेदृशौ ।
शरे नरेन्द्रचन्द्रस्य चिक्षेप न सखीजने ॥६-७॥

नरेन्द्रनामाङ्कलिपिस्तां आनन्दयति स्म सा ।
कुमुद्वतीं इवोदञ्चत्- बालेन्दुकिरणच्छटा ॥६-८॥

हेमपुङ्खाङ्किते तस्मिन्शरे करं उपेयुषि ।
बलाद्विवेश सा बाला दीक्षां वैवाहिकीं इव ॥६-९॥

तेनावाप्ततदाताम्र- पाणिस्पर्शेण पत्रिणा ।
स्फुरत्कान्तिचयव्याजादमुच्यन्तेव पल्लवाः ॥६-१०॥

नवीनसाहसाङ्कस्य कामदेवाकृतेरयं  ।
मालवैकमृगाङ्कस्य सिन्धुराजस्य सायकः ॥६-११॥

पुनःपुन इति स्वादु नृपतेर्नामलक्ष्म सा ।
अपठच्चारुबिम्बौष्ठ- लुठद्दशनचन्द्रिका ॥६-१२॥

अधीत्य कौतुकेनाथ कृतपञ्चममूर्च्छनाः ।
तदग्रे नृपनामाङ्कं जगुः पातालकन्यकाः ॥६-१३॥

अदृष्टेऽप्युत्सुका राज्ञि तद्गीतेन बभूव सा ।
प्रबोधे यदनङ्गाग्नेः पञ्चमः प्रथामा समिथ् ॥६-१४॥

अवेपत समुन्मीलत्- विलासकुसुमान्न्चिता ।
मनोभवानिलस्पर्श- वशाद्वनलतेव सा ॥६-१५॥

नवानुरागं अङ्गेन व्यक्ततच्चिह्नचुम्बिना ।
विनावचनं आचख्यौ सखीषु चतुरासु सा ॥६-१६॥


_

शशिप्रभायाः प्रश्नः

सावहित्थं अथेत्थं सा सखीजनं अभाषत ।
सुधानिष्यन्दजडया शरदिन्दुमुखी गिरा ॥६-१७॥

अभेदं इन्दुना नीतः साचिव्यं मेनकेतुना ।
सख्यः कः सिन्धुराजोऽयं साहसाङ्कनिरूप्यते ॥६-१८॥

किं एवं अवतिष्ठध्वै मौनं मुञ्चत शंसत ।
उन्मीलति यदन्तर्मे बलात्कौतुककन्दली ॥६-१९॥


_

मल्यवत्या उत्तरम्

अथ माल्यवती नाम तत्सखी सिद्धकन्यका ।
इति स्मितसुधार्द्रेण वचसा तां अवोचत ॥६-२०॥

सखि साहासिकः स अयं अवन्तितिलको नृपः ।
गीयते केतकापाण्डु यस्योरगपुरे यशः ॥६-२१॥

तं काश्यपीसहस्राक्षं अद्रक्षं अहं एकदा ।
गता श्रीमन्महाकाल- पर्वण्युज्जयिनीं पुरीं॥ ६-२२॥

तन्वि तिग्मांशुनेव द्यौर्निशेव शशलक्ष्मणा ।
सा सनाथा पुरी तेन वज्रिणेवामरावती ॥६-२३॥

रम्भा त्वयेव यत्सत्यं तेनालि नलकूबरः ।
त्याजितो रूपजं गर्वं उर्वीमकरकेतुना ॥६-२४॥

अकलङ्काकृतेस्तस्य चतुःषष्ठिकलावतः ।
तुलाधिरोहहेवाके कः षोडशकलः शशी ॥६-२५॥

तस्यावनिप्रदीपस्य ते ते नैसर्गिका गुणाः ।
क्व नाम न प्रकाशन्ते रवेरिव मरीचयः ॥६-२६॥

न नागेषु न सिद्धेषु न नरेष्वमरेष्वथ ।
अवापि क्वापि संवादस्तद्रूपोल्लेखलेखया ॥६-२७॥

सो हि केनापि कृत्येन गां गतः श्रूयते पुनः ।
निह्नुतैकभुजद्वन्द्वो देवः श्रीवत्सलाञ्छनः ॥६-२८॥

किं अन्यत्तव संतुष्ट्यै पश्य चित्रे लिखाम्यहं  ।
चिरस्य दीर्घनयने तवास्तु नयनोत्सवः ॥६-२९॥


_

आकृतिलेखनम्

अथ सा सिद्धतनया तं लिलेख शिलातले ।
हृदि तूरगराजेन्द्र- दुहितुर्मीनकेतनः ॥६-३०॥

तदालिखितभूपालं तया चिन्तितकामदं  ।
चिन्तामणेरप्यधिकं शिलातलं अमांस्त सा ॥६-३१॥

ततश्चित्रगते तस्मिन्महीपालो मदालसाः ।
समं एवाहिकन्यानां पेतुर्नेत्रपरम्पराः ॥६-३२॥

पपौ शशिप्रभाप्येनं चिरं उत्पक्ष्मलेखया ।
पुनरुक्तीकृतोन्निद्र- कर्णेन्दीवरया दृशा ॥६-३३॥

रूपं आस्वादयां आस तस्यालेख्यगतस्य सा ।
भ्रमरीवारविन्दस्य सुधासहचरं मधु ॥६-३४॥

आनीयताकुलत्वं सा त्रितीयेन तनूदरी ।
विस्मयेनातिसान्द्रेण मदेन मदनेन च ॥६-३५॥

विवेश हृदये तस्याः स चित्रलिखितो नृपः ।
शरत्प्रसन्ने सरितः प्रतिमेन्दुरिव अम्भसि ॥६-३६॥

स्तनपत्रलतां तस्या बिभेद पुलकोद्गमः ।
सत्यं यदन्तरङ्गेण बहिरङ्गो निरस्यते ॥६-३७॥

तस्याः कुचयुगे किंचिन्निश्वासः कम्पं आदधे ।
रथाङ्गनाममिथुने सायन्तन इवानिलः ॥६-३८॥

तस्याः स्वेदलवश्रेणि- च्छद्मना वदनश्रिया ।
विशतोऽन्तरनङ्गस्य लाजाञ्जलिरिवोज्झितः ॥६-३९॥

शङ्के शरं ऋजूकुर्वन्ददृशे मन्मथस्तया ।
यत्सा मृदुक्वणत्काञ्चि- किङ्किणीकं अकम्पत ॥६-४०॥

एष दृष्टस्त्वयेत्युक्ता सख्या सा साध्वसाकुला ।
गद्गदाक्षरं अव्यक्तं कृच्छ्रात्प्रतिवचो ददौ ॥६-४१॥

चित्रवर्तिन्यपि नृपे तत्त्वावेशेन चेतसि ।
व्रीडार्धवलितं चक्रे मुखेन्दुं अवशैव सा ॥६-४२॥

दृष्टा सखीभिः साकूतं सा बालाधरपल्लवे ।
दधौ वैलक्ष्यहसितं प्रसूनं इव माधवी ॥६-४३॥

नवं प्रेम नवोत्कण्ठा नवास्ते ते मनोरथाः ।
इति तस्यास्तथैवाभूदन्तरङ्गः परिच्छदः ॥६-४४॥

किंचित्त्रपानुविद्धेन पुण्डरीकदलत्विषा ।
तं आनर्चेव राजेन्दुं अनिमित्तस्मितेन सा ॥६-४५॥

सा च दोःशयितभुवा नृपेणाद्ध्यासिता हृदि ।
कृताङ्गभङ्गवलना झटित्यालस्यं आययौ ॥६-४६॥

तत्क्षणेनैव सा चित्रं तन्वी तन्मयतां ययौ ।
कं न प्रतारयत्येष कितवः कुसुमायुधः ॥६-४७॥

स्तिमितेवावतस्थे सा सारङ्गायतलोचना ।
अचेतनेव शून्येव सुप्तेवालिखितेव च ॥६-४८॥

स्मरेण मर्मणि क्वापि साविध्यत सुमध्यमा ।
अनिद्रितापि यत्साभूत्क्षणं मुकुलितेक्षणा ॥६-४९॥

व्यञ्चितानङ्गलीलेन शृङ्गाररसबन्धुना ।
तन्वी नवानुरागेण सान्यैव घटिताभवथ् ॥६-५०॥

ऋजुना ऐक्षत यच्चित्रं यदभूच्च त्रपावती ।
तेनातिगूढभावापि सा सखीभिरलक्ष्यत ॥६-५१॥

अथानङ्गवती नाम सखी तां इत्यवोचत ।
दशनज्योत्स्नयारण्यं सुधयेव निषिञ्चती ॥६-५२॥

कच्चिदस्य प्रमोदाय कुमुदस्येव चक्षुषः ।
अयं मध्यमलोकेन्दुः पातालेन्दुकले तव ॥६-५३॥

वनानिलाहृतोन्निद्र- पद्मकेसरशालिना ।
र्ॐओद्गम इवानेन धृतस्त्वदवलोकनाथ् ॥६-५४॥

अद्य नः सफलं चक्षुश्चित्रे यदवलोकितः ।
कन्दर्पाधिककान्तोऽयं अवन्तिमृगलाञ्छनः ॥६-५५॥

त्वां अप्यवाञ्चितां मन्ये यत्त्वयैतस्य वक्षसि ।
एते सविभ्रमं न्यस्ते दृशौ मुक्तालते इव ॥६-५६॥

जितं एतेन कोऽप्येष सत्यं कामोऽस्य किङ्करः ।
आरोहति परां कोटिं अत्र यत्तव सम्भ्रमः ॥६-५७॥

त्वं अत्र बद्धभावेव किं इन्दुमुखि लज्जसे ।
विलङ्घयत्यलङ्घ्यानि स्मरदुर्ललितानि कः ॥६-५८॥

कोऽन्यः सखि नृशंसोऽस्ति कामं विषमबाणतः ।
सुकुमारे तवाप्यङ्गे येन व्यापारितः शरः ॥६-५९॥

बिम्बौष्ठे एव रागस्ते तन्वि पूर्वं अदृश्यत ।
अधुना हृदयेऽप्येष मृगशावाक्षि लक्ष्यते ॥६-६०॥

एकेन राजहंसेन हृतो हारस्तनूदरि ।
अनेन तु द्वितीयेन लिखितेनापि ते मनः ॥६-६१॥

कुतस्त्रपा तवालीषु किंचिदुन्नमयाननं  ।
अहो बत त्वं एतस्मिन्नत्यायतकुतूहला ॥६-६२॥

एतत्कर्णोत्पलं लोलं अपाङ्गप्रतिवेशितं  ।
त्वदुदन्तं इवैतस्य कथयत्यलिकूजितैः ॥६-६३॥

अहो दूरस्थितेनापि हृदि स्पृष्टा नृपेन्दुना ।
इन्दुकान्तशिलेव त्वं आर्द्रतां अवगाहसे ॥६-६४॥

निपुणे निःश्वसिष्येवं अतिगूढं यथा यथा ।
तथा तथा तव व्यक्तं अयं उच्छ्वसति स्मरः ॥६-६५॥

स्मितं एतदलोलाक्षि लज्जासंवलितं तव ।
इदं निर्जितबाल्यस्य यौवनस्योदितं यशः ॥६-६६॥

यथा तवेयं अरतिर्यथा सुतनु वेपसे ।
तथा कवचितः शङ्के निःशङ्कं मदनस्त्वयि ॥६-६७॥

किं अत्र करवै गाढं आकल्पकं इदं तव ।
इयं च मन्मथस्यास्त्रं निर्गता चूतमञ्जरी ॥६-६८॥

सुरतक्लान्तशबरी- कबरीमाल्यचुम्बिनः ।
कथं एते त्वया तन्वि सह्या मलयवायवः ॥६-६९॥

किं ताम्यसि तवोपान्तं आनयाम्यधुनैव तं  ।
इत्याश्वासयतीव त्वां कोकिलोऽयं कलस्वनः ॥६-७०॥

कूजन्ती कोकिलवधूरियं आधिं धुनोति ते ।
अनङ्गनृपसाम्राज्य- लीलामङ्गलगायिनी ॥६-७१॥

वनान्तदेवतावाप्त- पादन्यासोत्सवः स्फुटं  ।
एष स्तबकितोऽशोकः सुहृत्कामस्य का गतिः ॥६-७२॥

अत्रोर्वीतिलके दृष्टिं अस्यन्तीं तिलकः क्रुधा ।
अयं तर्जयतीव त्वां वाताधूतलताङ्गुलिः ॥६-७३॥

पथि स्मरस्य विषमे स्खलितायां इतस्त्वयि ।
स्मितच्छटेव निर्याति सिन्दुवारस्य मञ्जरी ॥६-७४॥

द्राघयत्यस्तबिम्बौष्ठ- रुचिनिःश्वसितानि ते ।
अयं मुकुलितः किंचिद्बकुलो मुकुलस्तनि ॥६-७५॥

लतया कर्णिकारस्य पुरः पुष्पितयानया ।
अनङ्गस्यैकराज्येऽस्मिन्हेमवेत्रलतायितं॥ ६-७६॥

अहो न कस्य भिन्दन्ति हृदयं वीक्षिता अपि ।
निसर्गमृदवोऽप्येते सहकारनवाङ्कुराः ॥६-७७॥

चतुरां कोकिलां एष कृत्वा कुरबको मुखे ।
दुर्लभं याचतीव त्वां लीलालिङ्गनदोहदं॥ ६-७८॥

अशोकस्कन्धलग्नेयं कुसुमैर्नवमाधवी ।
प्रार्थनीयप्रियस्पर्शां हसति त्वां इवोत्सुकां॥ ६-७९॥

भूपतावनुरक्तायास्तव सन्तापदीपनं  ।
स्थलारविन्दं सेर्ष्येव सूते सखि वसुन्धरा ॥६-८०॥

अमीष्वङ्कस्थकन्दर्प- जगद्विजगयसिद्धिषु ।
दृष्टिरुद्विजते तन्वि पाटलाकुड्मलेषु ते ॥६-८१॥

सुन्दरि द्वितयस्यात्र क्रशिमा भूषणायते ।
राजन्याबद्धभावायास्तव रात्रेश्च सम्प्रति ॥६-८२॥

एष चैत्रोत्सवश्चित्रे नृपोऽयं नूतनं वयः ।
प्राप्तावकाशः कामोऽपि पतितास्यतिसङ्कटे ॥६-८३॥

किं आलिखितवत्येषा चित्रे माल्यवती नृपं  ।
द्वारीकृतेयं अथवा वामेन विधिना तव ॥६-८४॥

बहुना किं चकोराक्षि छलितासि मनोभुवा ।
सर्वथा ते करिष्यन्ति कुशलं कुलदेवताः ॥६-८५॥

इत्यादि व्याहरन्ती सा कृतभ्रूभङ्गया तया ।
नरेन्द्रबाणपुङ्खेन कुचे किं चिदतुद्यत ॥६-८६॥


_

कलावतीवचनम्

अथ किन्नरराजेन्द्र- कन्या नाम्ना कलावती ।
एवं वचः स्मितसुधा- निषिक्ताक्षरं आददे ॥६-८७॥

कामं दुर्लभं एवैतच्चैत्रश्चन्द्राङ्किता निशाः ।
प्रेयान्विपञ्चीरणितं पञ्चबाणाङ्कितं वयः ॥६-८८॥

अयि त्वां म्लापयत्येष कालः कमललोचने ।
जगदाह्लादजनकः सुधासूतिरिवाब्जिनीं॥ ६-८९॥

स्थाने तवानुरागोऽयं अनङ्गस्यायं उत्सवः ।
सखि स्निह्यति निर्व्याजं इन्दावेव कुमुद्वती ॥६-९०॥

नृपस्यारण्यसञ्चारः शरेणानेन सूच्यते ।
मरुता द्विरदस्येव मदनिष्यन्दगन्धिना ॥६-९१॥

अवश्यं तन्वि चिन्वाना वने हंसं इतस्ततः ।
क्वचिद्विलोकयिष्यन्ति तं त्वत्परिजनस्त्रियः ॥६-९२॥

ज्ञातत्वदिङ्गितैवात्र तं चेद्द्रक्ष्यति पाटला ।
ततोऽस्य षट्पदस्येव बलाच्चेतो हरिष्यति ॥६-९३॥

स्थिरा भव नृपेन त्वं इह संयोगं आप्स्यसि ।
यथा कण्वाश्रमे पूर्वं दुष्यन्तेन शकुन्तला ॥६-९४॥

इति तद्वचसः सीम्नि मसृणोत्कम्पितस्तनी ।
व्याजसाचीकृतमुखं निशश्वास शशिप्रभा ॥६-९५॥

वनश्रीरत्नमञ्जीरो लताकुञ्जोदरे ततः ।
चुकूज मञ्जुकण्ठस्तां दक्षिणेन कपिञ्जलः ॥६-९६॥

हर्षाश्रुलवकीर्णेन सत्पत्रावलिचारुणा ।
वामेन पस्फुरे तस्याश्चक्षुषा च स्तनेन च ॥६-९७॥

अत्रान्तरे समायान्ती ददृशे दूरतस्तया ।
नरेन्द्रसवितुस्तस्य पुरः सन्ध्येव पाटला ॥६-९८॥

तस्यास्त्रये च त्रितयं अपश्यत्फणिकन्यका ।
मुखे स्मितं करे हारं सितं अंसे च चामरं॥ ६-९९॥

सा हारहस्ता रुरुचे धृतस्तिमितचामरा ।
सरसी सुप्तहंसेव फेनाध्यासितपङ्कजा ॥६-१००॥

दृष्टिः फनीन्द्रदुहितुरतिक्रम्यैव पाटलां  ।
भृङ्गश्रेणिरिवाशोके पपातावन्तिभर्तरि ॥६-१०१॥

प्रियं नः स अयं आयाति पश्य पश्य शशिप्रभे ।
परमारान्वयोदार- हारमध्यमणिर्नृपस्॥ ६-१०२॥

इति प्रियसखीसूक्ति- सुधानिष्यन्दलेखया ।
सिक्ते तदाभवत्तस्याः स्मरः पल्लवितो हृदि ॥६-१०३॥

सुधारस इवोर्वीभृत्तया संमुखं आपतन्  ।
दृशा स्फटिकशुक्त्येव वारंवारं अपीयत ॥६-१०४॥

वितेनेऽप्यहिकन्याभिः कौतुकेनातनीयसा ।
तस्याग्रे राजहंसस्य नेत्रेन्दीवरवागुरा ॥६-१०५॥

अवन्तितिलकोदन्तं उपसृत्याथ पाटला ।
अनङ्गदीपनं तस्यै जगादेङ्गितवेदिनी ॥६-१०६॥

देव पश्चात्स्थितोऽप्यग्रे प्राप्तः पर्युत्सुको भवान्  ।
इत्यभाष्यत भूपालः चित्रे चतुरया तया ॥६-१०७॥

अभूत्पर्याकुला सा च मुहूर्तं असितेक्षणा ।
पश्चादलज्जतालीभिस्तथा सस्मितं ईक्षिता ॥६-१०८॥

तस्यै हारं महीभर्तुरर्पयां आस पाटला ।
आकृष्य भर्तुं आनीतं अतिशुद्धं इव आशयं॥ ६-१०९॥

सखीनां अनुरोधेन सा किलानङ्गमोहिता ।
हृदि दीर्घगुणं दध्रे हारं प्रियं इवापरं॥ ६-११०॥

तुषारपाण्डुना तेन ववृधेऽस्या मनोभवः ।
दिगन्तवान्तज्योत्स्नेन महोदधिरिवेन्दुना ॥६-१११॥

पुष्पोद्गमेनेव लता प्रसादेनेव भारती ।
सा तेन रेजे हारेण यशसेव नरेन्द्रता ॥६-११२॥

ततः शिथिलपर्यस्त- विलोलकबरीलता ।
केतुयष्टिरिव श्याम- पताकाङ्गा हिरण्मयी ॥६-११३॥

वसंतकमलोल्लासि- मत्तभ्रमरनिःस्वना ।
दीपमानोपदेशेव स्वरहस्ये मनोभुवः ॥६-११४॥

उल्लसत्कुटजाच्छाच्छ- विलासहसितच्छविः ।
झटित्युअदधिवेलेव निर्गच्छदमृतच्छटा ॥६-११५॥

सरोजिनीव हंसीभिर्भृङ्गीभिरिव मालती ।
शशिलेखेव ताराभिः सखीभिरभितो वृता ॥६-११६॥

दृष्ट्वा नरन्द्रं आयान्तं उदस्थादुत्सुकाथ सा ।
दधती नूतनप्रेम- परिणीतां अधीरतां॥ ६-११७॥

अथ सुतनुरलोलतारके सा सुचिरं उदञ्चितदीर्घपक्ष्ममाले ।
शशिन इव नवोद्गतस्य दूरात्- अवनिपतेः पथि लोचने मुमोच ॥६-११८॥

आसन्नानुचरधृतेन पङ्कजिन्याः पत्रेण स्फुटघटितातपत्रलीलः ।
सश्च्छायां अथ महसा हसन्हिमांशोः क्ष्मापालः पुलिनं अवाप नर्मदायास्॥ ६-११९॥

इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभादर्शनो नाम षष्ठः सर्गः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP